११६ गयायात्रा

{अथ षोडशाधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

गयायात्राविधिः

अग्निर् उवाच
गायत्र्यैव महानद्यां स्नातः1 सन्ध्यां समाचरेत् ।
गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं ॥००१॥

मूलम्

मध्याह्ने चोद्यति2 स्नात्वा गीतवाद्यैर् ह्युपास्य च ।
सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे ॥००२॥

अगस्त्यस्य पदे कुर्याद्योनिद्वारं प्रविश्य च ।
निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात्3 ॥००३॥

:न्

[[९]]

विश्वास-प्रस्तुतिः

बलिं काकशिलायाञ्च कुमारञ्च नमेत्ततः1
स्वर्गद्वार्यां सोमकुण्डे वायुतीर्थे ऽथ पिण्डदः ॥००४॥

भवेदाकशगङ्गायां कपिलायाञ्च पिण्डदः ।
कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः ॥००५॥

कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः2
गदालोले वानरके गोप्रचारे च पिण्डदः3 ॥००६॥

नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः ।
श्राद्धपिण्डप्रदाता4 स्यात् क्रौञ्चपदे च पिण्डदः5 ॥००७॥

तृतीयायां विशालायां निश्चिरायाञ्च पिण्डदः ।
ऋणमोक्षे पापमोक्षे भस्मकुण्डे ऽथ भस्मना ॥००८॥

स्नानकृन् मुच्यते पापान्नमेद्देवं जनार्दनम् ।
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥००९॥

परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां ।
गयायां पितृरूपेण स्वयमेव जनार्दनः ॥०१०॥

मूलम्

परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां ।
गयायां पितृरूपेण स्वयमेव जनार्दनः ॥०१०॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ।
मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः6 ॥०११॥

मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् ।

:न्

[[१०]]

1गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः ॥०१२॥

विश्वास-प्रस्तुतिः

पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः ।
प्रभासेशन्नमेत् प्रेतशिलायां पिण्डदो भवेत् ॥०१३॥

दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।
प्रेतादिरूपा मुक्ताः2 स्युः पिण्डैर् दत्तैर् मयाखिलाः ॥०१४॥

स्थानत्रये प्रेतशिला गयाशिरसि पावनी ।
प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत् कुलम् ॥०१५॥

वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् ।
गयानाभौ सुषुम्णायां महाकोष्ट्याञ्च पिण्डदः ॥०१६॥

गदाधराग्रतो मुण्डपृष्ठे देव्याश् च सन्निधौ ।
मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम् ॥०१७॥

पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् ।
ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत् कुलम् ॥०१८॥

सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् ।
सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक्3 ॥०१९॥

हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् ।
माधवं पूजयित्वा च देवो वैमानिको4 भवेत् ॥०२०॥

महालक्ष्मीं प्रार्च्य गौरीं मङ्गलाञ्च सरस्वतीम् ।
पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगो ऽत्र शास्त्रधीः ॥०२१॥

[[११]]

विश्वास-प्रस्तुतिः

द्वादशादित्यमभ्यर्य वह्निं रेवन्तमिन्द्रकम् ।
रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्दिविनायकम् ॥०२२॥

प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् ।
सोमनाथञ्च कालेशङ्केदारं प्रपितामहम् ॥०२३॥

सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् ।
अष्टलिङ्गानि गुह्यानि पूजयित्वा तु1 सर्वभाक् ॥०२४॥

नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये ।
ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम् ॥०२५॥

सीतां रामञ्च गरुडं वामनं सम्प्रपूज्य च ।
सर्वकामानवाप्नोति ब्रह्मलोकं नयेत् पितॄन् ॥०२६॥

देवैः सार्धं सम्प्रपूज्य देवमादिगदाधरम् ।
ऋणत्रयविनिर्मुक्तस्तारयेत् सकलं कुलम् ॥०२७॥

देवरूपा शिला पुण्या तस्माद्देवमयी शिला ।
गयायां नहि तत् स्थानं यत्र तीर्थं न विद्यते ॥०२८॥

यन्नाम्ना पातयेत् पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ।
फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम् ॥०२९॥

मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् ।
हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः ॥०३०॥

तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः ।
रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम्2 ॥०३१॥

पिण्डदो धेनुकारण्ये पदे धेनोर् नमेच्च गाम् ।

:न्

[[१२]]

विश्वास-प्रस्तुतिः

सर्वान् पितॄंस्तारयेच्च सरस्वत्याञ्च पिण्डदः ॥०३२॥

सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् ।
त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः ॥०३३॥

गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च ।
अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत् ॥०३४॥

स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् ।
गदाधरं गयावासं पित्रादीनां गतिप्रदम् ॥०३५॥

धर्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥०३६॥

नित्यशुद्धं बुद्धियुक्तं1 सत्यं ब्रह्म नमाम्यहम् ।
आनन्दमद्वयं देवं देवदानववन्दितम् ॥०३७॥

देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् ।
कलिकल्मषकालार्तिदमनं2 वनमालिनम् ॥०३८॥

पालिताखिललोकेशं3 कुलोद्धरणमानसम् ।
व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि ॥०३९॥

स्थितं स्थिरतरं4 सारं वन्दे घोराघमर्दनम्5
आगतो ऽस्मि गयां देव पितृकार्ये गदाधरः ॥०४०॥

त्वं मे साक्षी भवाद्येह अनृणो ऽहमृणत्रयात् ।

:न्

[[१३]]

विश्वास-प्रस्तुतिः

साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस् तथा ॥०४१॥

मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।
गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक् ॥०४२॥

पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम् ॥४३॥

{इत्य् आग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम षोडशाधिकशततमो ऽध्यायः ॥ }

  1. प्रात इति क॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. मध्याह्ने सरसीति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. मुच्यते भयादिति छ॥ , झ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. श्राद्धे पिण्डप्रदतेति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. भवेदाकाशगङ्गायामैत्यादिः, क्रौञ्चपादे च पिण्डद इत्य्
    अन्तः पाठः छ॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎

  6. नमेद्भूतेश्वरं नर इति घ॥ ↩︎ ↩︎