{अथ पञ्चदशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गयायात्राविधिः
अग्निर् उवाच
उद्यतश्चेद्गयां यातुं1 श्राद्धं कृत्वा विधानतः ।
विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं ॥००१॥
मूलम्

कृत्वा प्रतिदिनङ्गच्छेत् संयतश्चाप्रतिग्रही ।
गृहाच्चलितमात्रस्य गयया गमनं प्रति ॥००२॥

स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे ।
ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किं ॥००३॥

किं कुरुक्षेत्रवासेन यदा2 पुत्रो गयां व्रजेत् ।
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥००४॥

पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति ।
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ॥००५॥

वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।
काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः ॥००६॥

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।
मुण्डनञ्चोपवासश् च सर्वतीर्थेष्वयं विधिः ॥००७॥

न कालादिर्गयातीर्थे दद्यात् पिण्डांश् च नित्यशः ।
पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं ॥००८॥

:न्
[[१]]
विश्वास-प्रस्तुतिः
अष्टकासु च वृद्धौच1 गयायां मृतवासरे ।
अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ॥००९॥

पित्रादिनवदैत्यं तथा द्वादशदैवतं ।
प्रथमे दिवसे स्नायात्तीर्थे ह्य् उत्तरमानसे ॥०१०॥

उत्तरे मानसे पुण्ये आयुरारोग्यवृद्धये ।
सर्वाघौघविधानाय2 स्नानं कुर्याद् विमुक्तये3 ॥०११॥
विश्वास-प्रस्तुतिः
सन्तर्प्य देवपित्रादीन् श्राद्धकृत् पिण्डदो भवेत् ।
दिव्यान्तरीक्षभौमस्थान्4 देवान् सन्तर्पयाम्यहं ॥०१२॥

दिव्यान्तरीक्षभौमादि पितृमात्रादि तर्पयेत् ।
पिता पितामहश् चैव तथैव प्रपितामहः ॥०१३॥

तेभ्यो।न्येभ्य7 इमान् पिण्डानुद्धाराय ददाम्यहं ।
ॐ नमः सूर्यदेवाय सोमभौमज्ञरूपिणे8 ॥०१५॥
विश्वास-प्रस्तुतिः
जीवशुक्रशनैश्चारिराहुकेतुस्वरूपिणे ।
उत्तरे मानसे स्नाता9 उद्धरेत्सकलं कुलं ॥०१६॥

[[२]]
विश्वास-प्रस्तुतिः
दक्षिणे मानसे स्नानं करोमि पितृतृप्तये1 ॥०१७॥

गयायामागतः स्वर्गं यान्तु मे पितरो ऽखिलाः ।
श्राद्धं पिण्डन्ततः कृत्वा सूर्यं नत्वा वदेदिदं ॥०१८॥

ॐ नमो भानवे भर्त्रे2 भवाय भव मे विभो ।
भुक्तिमुक्तिप्रदः सर्वपितॄणां भवभावितः ॥०१९॥

कव्यवालानलः सोमो यमश् चैवार्यमा तथा ।
अग्निष्वात्ता वर्हिषद आज्यपाः पितृदेवताः ॥०२०॥

आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह ।
मदीयाः पितरो ये च मातृमातामहादयः ॥०२१॥

तेषां पिण्डप्रदाताहमागतो ऽस्मि गयामिमां ।
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणपूजितं3 ॥०२२॥

नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं ।
सिद्धानां प्रीतिजननैः पापानाञ्च भयङ्करैः ॥०२३॥

लेलिहानैर् महानागै रक्ष्यते चैव नित्यशः ।
तत्र स्नात्वा दिवं4 यान्ति क्रीडन्ते भुवि मानवाः ॥०२४॥

फल्गुतीर्थं ततो गच्छेन्महानद्यां स्थितं परं ।
नागाज्जनार्दनात् कूपाद्वटाच्चोत्तरमानसात् ॥०२५॥

एतद् गयाशिरः5 प्रोक्तं फल्गुतीर्थं तदुच्यते ।
मुण्डपृष्ठनागाद्याश् च सारात् सारमथान्तरं ॥०२६॥

[[३]]
विश्वास-प्रस्तुतिः
यस्मिन् फलति श्रीर्गौर्वा कामधेनुर्जलं मही ।
दृष्टिरम्यादिकं यस्मात् फल्गुतीर्थं न फल्गुवत् ॥०२७॥

फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरं ।
एतेन किं न पर्याप्तं नृणां सुकृटकारिणां ॥०२८॥

पृथिव्यां यानि तीर्थानि आसमुद्रात्सरांसि च ।
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥०२९॥

फल्गुतीर्थे तीर्थराजे करोति स्नानमादृतः ।
पितॄणां ब्रह्मलोकाप्त्यै आत्मनो भुक्तिमुक्तये ॥०३०॥

स्नात्वा श्राद्धी पिण्डदो ऽथ नमेद्देवं पितामहं ।
कलौ माहेश्वरा लोका अत्र देवी1 गदाधरः ॥०३१॥

पितामहो लिङ्गरूपी तन्नमामि महेश्वरं ।
गदाधरं बलं काममनिरुद्धं नरायणं2 ॥०३२॥
मूलम्
पितामहो लिङ्गरूपी तन्नमामि महेश्वरं ।
गदाधरं बलं काममनिरुद्धं नरायणं2 ॥०३२॥
विश्वास-प्रस्तुतिः
ब्रह्मविष्णुनृसिंहाख्यं वराहादिं नमाम्यहं ।
ततो गदाधरं दृष्ट्वा कुलानां शतमुद्धरेत् ॥०३३॥

धर्मारण्यं द्वितीये ऽह्नि मतङ्गस्याश्रमे वरे ।
मतङ्गवाप्यां संस्नाय श्राद्धकृत् पिण्डदो3 भवेत् ॥०३४॥

मतङ्गेशं सुद्धेशं4 नत्वा चेदमुदीरयेत् ।
प्रमाणं देवताः सन्तु लोकपालाश् च साक्षिणः ॥०३५॥

मयागत्य मतङ्गे ऽस्मिन् पितॄणां निष्कृतिः कृता ।
स्नानतर्पणश्राद्धादिर्ब्रह्मतीर्थे ऽथ5 कूपके ॥०३६॥

[[४]]
विश्वास-प्रस्तुतिः
तत्कूर्पयूपयोर्मध्ये श्राद्धं कुलशतोद्धृतौ ।
महाबोधतुरुं नत्वा धर्मवान् स्वर्गलोकभाक् ॥०३७॥

तृतीये ब्रह्मसरसि1 स्नानं कुर्याद्यतव्रतः2 ।
स्नानं ब्रह्मसरस्तीर्थे3 करोमि ब्रह्मभूतये ॥०३८॥
विश्वास-प्रस्तुतिः
पितॄणां ब्रह्मलोकाय ब्रह्मर्षिगणसेविते ।
तर्पणं श्राद्धकृत् पिण्डं प्रदद्यात्तु प्रसेचनं4 ।०३९।
कुर्याच्च वाजपेयार्थी ब्रह्मयूपप्रदक्षिणं ॥०३९॥

एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलन्ददाति ।
आम्नाय सिक्ताः पितरश् च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥०४०॥

ब्रह्माणञ्च नमस्कृत्य कुलानां शतमुद्धरेत् ।
फल्गुतीर्थे चतुर्थे ऽह्नि स्नात्वा देवादितर्पणं ॥०४१॥

कृत्वा श्राद्धं सपिण्डञ्च गयाशिरसि कारयेत् ।
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥०४२॥

तत्र पिण्डप्रदानेन कुलानां शतमुधरेत् ।
मुण्डपृष्ठे पदं न्न्यास्तं महादेवेन धीमता ॥०४३॥

[[५]]
विश्वास-प्रस्तुतिः
साक्षाद् गयाशिरस्तत्र फल्गुतीर्थाश्रमं1 कृतं ॥०४४॥

अमृतं तत्र वहति पितॄणान्दत्तमक्षयं ।
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहं ॥०४५॥

रुद्रपादं नरः स्पृष्ट्वा नेह भूयो ऽभिजायते ।
शमीपत्रप्रमाणेन पिण्डं दत्वा गयाशिरे2 ॥०४६॥

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।
पायसेनाथ पिष्टेन शक्तुना चरुणा तथा ॥०४७॥

पिण्डदानं तण्डुलैश् च गोधूमैस्तिलमिश्रितैः ।
पिण्डं दत्वा रुद्रपदे कुलानां शतमुद्धरेत् ॥०४८॥

तथा विष्णुपदे श्राद्धपिण्डदो ह्य् ऋणमुक्तिकृत्3 ।
पित्रादीनां शतकुलं स्वात्मानं4 तारयेन्नरः ॥०४९॥

तथा ब्रह्मपदे श्राद्धी5 ब्रह्मलोकं नयेत्पितॄन् ।
दक्षिणाग्निपदे तद्वद्गार्हपत्यपदे तथा ॥०५०॥

पदे वाहवनीयस्य श्राद्धी यज्ञफलं लभेत् ।
आवसथ्यस्य चन्द्रस्य6 सूर्यस्य च गणस्य च ॥०५१॥

अगस्त्यकार्त्तिकेयस्य श्राद्धी तारयते कुलं ।
आदित्यस्य रथं नत्वा7 कर्णादित्यं नमीन्नरः ॥०५२॥

[[६]]
विश्वास-प्रस्तुतिः
कनकेशपदं नत्वा गयाकेदारकं नमेत् ।
सर्वपापविनिर्मुक्तः पितॄन् ब्रह्मपुरं नयेत् ॥०५३॥

विशालो ऽपि गयाशीर्षे पिण्डदो ऽभूच्च पुत्रवान् ।
विशालायां विशालो ऽभूद्राजपुत्रो ऽब्रवीद् द्विजान् ॥०५४॥

कथं पुत्रादयः स्युर्मे द्विजा ऊचुर्विशालकं ।
गयायां पिण्डदानेन तव सर्वं भविष्यति ॥०५५॥

विशालो ऽपि गयाशीर्षे पितृपिण्डान्ददौ ततः1 ।
दृष्ट्वाकाशे सितं रक्तं पुरुषांस्तांश् च
पृष्टवान् ॥०५६॥

के युयन्तेषु चैवैकः सितः प्रोचे विशालकं ।
अहं सितस्ते जनक इन्द्रलोकं गतः शुभान् ॥०५७॥

मम रक्तः पिता पुत्र कृष्णश् चैव पितामहः ।
अब्रवीत् नरकं प्राप्ता त्वया मुक्तीकृता वयं ॥०५८॥

पिण्डदानाद् ब्रह्मलोकं ब्रजाम इति ते गताः ।
विशालः प्राप्तपुतादी राज्यं कृत्वा हरिं ययौ ॥०५९॥

प्रेतराजः स्वमुक्त्यै च वणिजञ्चेदमब्रवीत् ।
प्रेतैः सर्वैः सहार्तः सन् सुकृतं भुज्यते फलं ॥०६०॥

श्रवणद्वादशीयोगे कुम्भः सान्नश् च सोदकः2 ।
दत्तः पुरा स मध्याह्ने जीवनायोपतिष्ठते ॥०६१॥

धनं गृहीत्वा मे गच्छ गयायां पिण्डदो भव ।
वणिग्धनं गृहीत्वा तु गयायां पिण्डदो ऽभवत् ॥०६२॥

[[७]]
विश्वास-प्रस्तुतिः
प्रेतराजः सह प्रेतैर् मुक्तो नीतो हरेः पुरं ।
गयाशीर्षे पिण्डदानादात्मानं स्वपितॄंस् तथा1 ॥०६३॥

पितृवंशे सुता ये च मातृवंशे तथैव च ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥०६४॥

ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः2 ।
क्रियालोपगता ये च जात्यन्धाः पुङ्गवस् तथा ॥०६५॥

विरूपा आमगर्भा ये ज्ञाताज्ञाताः कुले मम ।
तेषां पिण्डो मया दत्तो ह्य् अक्षय्यमुपतिष्ठतां ॥०६६॥

ये केचित् प्रेतरूपेण तिष्ठन्ति पितरो मम ।
ते सर्वे तृप्तिमायान्तु पिण्डदानेन3 सर्वदा ॥०६७॥

पिण्डो देयस्तु सर्वेभ्यः सर्वैर् वै कुलतारकैः ।
आत्मनस्तु तथा देयो ह्य् अक्षयं लोकमिच्छता ॥०६८॥

पञ्चमे ऽह्नि गदालोले स्नायान्मन्त्रेण बुद्धिमान् ।
गदाप्रक्षालने तीर्थे गदालोले ऽतिपावने ॥०६९॥

स्नानं करामि संसारगदशान्त्यै जनार्दन ।
नमो ऽक्षयवटायैव अक्षयस्वर्गदायिने ॥०७०॥
मूलम्
स्नानं करामि संसारगदशान्त्यै जनार्दन ।
नमो ऽक्षयवटायैव अक्षयस्वर्गदायिने ॥०७०॥
विश्वास-प्रस्तुतिः
पित्रादीनामक्षयाय सर्वपापक्षयाय च ।
श्राद्धं वटतले4 कुर्याद् ब्राह्मणानाञ्च भोजनं ॥०७१॥

एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ।
किम्पुनर्बहुभिर्भुक्तैः पितॄणां दत्तमक्षयं ॥०७२॥

[[८]]
विश्वास-प्रस्तुतिः
गयायामन्नदाता यः पितरस्तेन पुत्रिणः ।
वटं वटेश्वरं नत्वा पूजयेत् प्रपितामहं ॥०७३॥

अक्षयांल्लभते लोकान् कुलानां शतमुद्धरेत् ।
क्रमतो ऽक्रमतो वापि गयायत्रा महाफला ॥०७४॥

{इत्य् आग्नेये महापुराणे गयामाहात्म्ये गययात्रा नाम पञ्चदशाधिकशततमो ऽध्यायः ॥ }
-
गन्तुमिति ख॥ , ग॥ , घ॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
यदि इति घ॥ , ग॥ , झ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
स्नानं सर्वविमुक्तये इति छ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
दिव्यान्तरीक्षगान् भौमानिति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
माता मातामही चैवेति क॥ , ख॥ , ग॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎