{अथ चतुर्दशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गयामाहात्म्यम्
अग्निर् उवाच
गयामाहात्म्यमाख्यास्ये गयातीर्थोत्तमोत्तमं ।
गयासुरस्तपस्तेपे तत्तपस्तापिभिः1 सुरैः ॥००१॥
मूलम्

उक्तः क्षीराब्धिगो विष्णुः पालयास्मान् गयासुरात् ।
तथेत्युक्त्वा हरिर्दैत्यं वरं ब्रूहीति चाब्रवीत् ॥००२॥

दैत्यो ऽब्रवीत्पवित्रो ऽहं भवेयं सर्वतीर्थतः ।
तथेत्युक्त्वा गतो विष्णुर्दैत्यं दृष्ट्वा न वा हरिं ॥००३॥

:न्
[[३८०]]
विश्वास-प्रस्तुतिः
गता ऊचुर्हरिं देवाः शून्या भूस्त्रिदिवं हरे ॥००४॥

दैत्यस्य दर्शनादेव ब्रह्मणञ्चाब्रवीद्धरिः ।
यागार्थं दैत्यदेहं त्वं प्रार्थय त्रिदशैः सह ॥००५॥

तच् छ्रुत्वा ससुरो ब्रह्मा2 गयासुरमथाब्रवीत् ।
अतिथिः प्रार्थयामि त्वान्देहं यागाय पावनं ॥००६॥

गयासुरस्तथेत्युक्त्वापतत्तस्य शिरस्यथ1 ।
यागं चकार चलिते देहि पूर्णाहुतिं3 विभुः ॥००७॥
विश्वास-प्रस्तुतिः
पुनर्ब्रह्माब्रवीद्विष्णुं पूर्णकाले ऽसुरो ऽचलत् ।
शिष्णुर्धर्ममथाहूय प्राह देवमयीं शिलाम् ॥००८॥

धारयध्वं सुराः सर्वे यस्यामुपरि सन्तु ते ।
गदाधरो मदीयाथ मूर्तिः स्थास्यति सामरैः ॥००९॥

धर्मः शिलां देवमयीं4 तच् छ्रुत्वाधारयत् परां ।
या धर्माद्धर्मवत्याञ्च जाता धर्मव्रता सुता ॥०१०॥

मरीचिर्ब्रह्मणः पुत्रस्तामुवाह तपोन्वितां5 ।
यथा हरिः श्रिया रेमे गौर्या शम्भुस् तथा तया ॥०११॥

कुशपुष्पाद्यरण्याच्च आनीयातिश्रमान्वितः6 ।
भुक्त्वा धर्मव्रतां प्राह पादसंवाहनं कुरु ॥०१२॥

विश्रान्तस्य मुनेः पादौ तथेत्युक्त्वा प्रियाकरोत् ।
एतस्मिन्नन्तरे ब्रह्मा मुनौ सुप्ते तथागतः7 ॥०१३॥

धर्मव्रताचिन्तयञ्च किं ब्रह्माणं समर्चये ।
पादसंवाहनं कुर्वे ब्रह्मा पूज्यो गुरोर्गुरुः8 ॥०१४॥

[[३८१]]
विश्वास-प्रस्तुतिः
विचिन्त्य पूजयामास ब्रह्माणं चार्हणादिभिः ।
मरीचिस्तामपश्यत् स2 शशापोक्तिव्यतिक्रमात् ॥०१५॥

शिला भविष्यसि क्रोधाद्धर्मव्रताब्रवीच्च तं1 ।
पादाभ्यङ्गं परित्यज्य त्वद्गुरुः पूजितो मया ॥०१६॥

अदोषाहं यतस्त्वं हि शापं प्राप्स्यसि शङ्करात् ।
धर्मव्रता पृथक् शापं धारयित्वाग्रिमध्यगात् ॥०१७॥

तपश् चचार वर्षाणां सहस्राण्ययुतानि च ।
ततो विष्ण्वादयो देवा वरं ब्रूहीति चाब्रुवन् ॥०१८॥

धर्मव्रताब्रवीद्देवान् शापन्निर्वर्तयन्तु मे ।
देवा ऊचुः
दत्तो मरीचिना शापो भविष्यति न चान्यथा ॥०१९॥

शिला पवित्रा देवाङ्घ्रिलक्षिता त्वं3 भविष्यसि ।
देवव्रता देवशिला सर्वदेवादिरूपिणी ॥०२०॥

सर्वदेवमयी4 पुण्या निश् चलायारसुस्य हि ।
देवव्रतोवाच
यदि तुष्टास्थ मे सर्वे मयि तिष्ठन्तु सर्वदा ॥०२१॥

ब्रह्मा विष्णुश् च रुद्राद्या गौरीलक्ष्मीमुखाः सुराः ।
अग्निर् उवाच
देवव्रतावचः श्रुत्वा तथेत्युक्त्वा दिवङ्गताः ॥०२२॥

सा धर्मणासुरस्यास्य धृता देवमयी शिला ।
सशिलश् चलितो दैत्यः स्थिता रुद्रादयस्ततः ॥०२३॥

सदेवश् चलितो दैत्यस्ततो देवैः5 प्रसादितः ।
क्षीराब्धिगो हरिः प्रादात् स्वमूर्तिं श्रीगदाधरं ॥०२४॥

[[३८२]]
विश्वास-प्रस्तुतिः
स्थितो गदाधरो देवो व्यक्ताव्यक्तोभयात्मकः ॥०२५॥

निश् चलार्थं स्वयं देवः स्थित आदिगदाधरः ।
गदो नामासुरो दैत्यः2 स हतो विष्णुना पुरा ॥०२६॥

तदस्थिनिर्मिता1 चाद्या गदा या विश्वकर्मणा ।
आद्यया गदया हेतिप्रमुखा राक्षसा हताः ॥०२७॥

गयासुरे निश् चलेय ब्रह्मा पूर्णाहुतिं ददौ ।
गयासुरो ऽब्रवीद्देवान् किमर्थं वञ्चितो ह्य् अहं6 ॥०२९॥

विष्णोर्वचनमात्रेण किन्नस्यान्निश् चलोह्यहं ।
आक्रान्तो यद्यहं देवा दातुमर्हत7 मे वरं ॥०३०॥

तीर्थस्य करणे यत्8 त्वमस्माभिर् निश् चलीकृतः ।
विष्णोः शम्भोर्ब्रह्मणश् च क्षेत्रं तव भविष्यति ॥०३१॥

प्रसिद्धं सर्वतीर्थेभ्यः पित्रादेर्ब्रह्मलोकदं ।
इत्युक्त्वा ते स्थिता देवा देव्यस्तीर्थादयः स्थिताः ॥०३२॥

यागं कृत्वा ददौ ब्रह्मा ऋत्विग्भ्यो दक्षिणां तदा ।
पञ्चक्रोशं गयाक्षेत्रं पञ्चाशत् पञ्च चार्पयेत् ॥०३३॥

ग्रामान् स्वर्णगिरीन्9 कृत्वा नदीर्दुग्धमधुश्रवाः ।
सरोवराणि दध्याज्यैर् बहूनन्नादिपर्वतान्10 ॥०३४॥

[[३८३]]
विश्वास-प्रस्तुतिः
कामधेनुं कल्पतरुं स्वर्णरूप्यगृहाणि च ।
न याचयन्तु विप्रेन्द्रा अल्पानुक्त्वा2 ददौ प्रभुः ॥०३५॥

धर्मयागे प्रलोभात्तु प्रतिगृह्य धनादिकं ।
स्थिता यदा गयायान्ते शप्ताते ब्रह्मणा तदा ॥०३६॥

विद्याविवर्जिता1 यूयं तृष्णायुक्ता भविष्यथ ।
दुग्धादिवर्जिता नद्यः शैलाः पाषाणरूपिणः ॥०३७॥

ब्रह्माणं ब्राह्मणश्चोचुर् नष्टं शापेन शाखिलं ।
जीवनाय प्रसादन्नः कुरु विप्रांश् च सो ऽब्रवीत् ॥०३८॥

तीर्थोपजीविका यूयं सचन्द्रार्कं3 भविष्यथ ।
ये युष्मान् पूजयिष्यन्ति गयायामागता नराः ॥०३९॥

हव्यकव्यैर् धनैः श्रद्धैस्तेषां कुलशतं व्रजेत्4 ।
नरकात् स्वर्गलोकाय5 स्वर्गलोकात् पराङ्गतिं ॥०४०॥

गयोपि चाकरोद्यागं बह्वन्नं6 बहुदक्षिणं ।
गया पुरी तेन नाम्ना पाण्डवा ईजिरे हरिं ॥०४१॥

{इत्य् आग्नेये महापुराणे गयामाहात्म्यं नाम चतुर्दशाधिकशततमो ऽध्यायः }
:न्
[[३८४]]
अग्निपुराणम्
महर्षिश्रीमद्वेदव्यासेन प्रणीतम्
श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया
श्रीराजेन्द्रलालमित्रेण परिशोधितम्
कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च
संवत् १९३३
[[०]]
अथाग्निपुराणस्य द्वितीयखण्डस्यानुक्रमणिका
अग्निपुराणं