{अथ त्रयोदशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नर्मदादिमाहात्म्यम्
अग्निर् उवाच
नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां1 ।
सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं ॥००१॥
मूलम्
नर्मदादिमाहात्म्यम्
अग्निर् उवाच
नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां1 ।
सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं ॥००१॥
विश्वास-प्रस्तुतिः
विस्तराद्योजनशतं योजनद्वयमायता ।
षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस् तथापराः ॥००२॥
मूलम्
विस्तराद्योजनशतं योजनद्वयमायता ।
षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस् तथापराः ॥००२॥
विश्वास-प्रस्तुतिः
पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके2 ।
कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु ॥००३॥
मूलम्
पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके2 ।
कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु ॥००३॥
विश्वास-प्रस्तुतिः
गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः3 ।
अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव ॥००४॥
मूलम्
गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः3 ।
अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव ॥००४॥
विश्वास-प्रस्तुतिः
समन्ताद्योजनशतं महापुण्यं भविष्यति ।
अत्र दानन्तपो जप्यं4 श्राद्धं सर्वमथाक्षयं5 ॥००५॥
:न्
[[३७९]]
विश्वास-प्रस्तुतिः
मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ।
हरो ऽत्र क्रीडते देव्या हिरण्यकशिपुस् तथा ॥००६॥
मूलम्
मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ।
हरो ऽत्र क्रीडते देव्या हिरण्यकशिपुस् तथा ॥००६॥
{इत्य् आग्नेये महापुराणे नर्मदाश्रीपर्वतादिमाहात्म्यं नाम त्रयोदशाधिकशततमो ऽध्यायः ॥ }