११३ नर्मदादिमाहात्म्यकथनम्

{अथ त्रयोदशाधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नर्मदादिमाहात्म्यम्

अग्निर् उवाच
नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां1
सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं ॥००१॥

मूलम्

नर्मदादिमाहात्म्यम्

अग्निर् उवाच
नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां1
सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं ॥००१॥

विश्वास-प्रस्तुतिः

विस्तराद्योजनशतं योजनद्वयमायता ।
षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस् तथापराः ॥००२॥

मूलम्

विस्तराद्योजनशतं योजनद्वयमायता ।
षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस् तथापराः ॥००२॥

विश्वास-प्रस्तुतिः

पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके2
कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु ॥००३॥

मूलम्

पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके2
कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु ॥००३॥

विश्वास-प्रस्तुतिः

गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः3
अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव ॥००४॥

मूलम्

गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः3
अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव ॥००४॥

विश्वास-प्रस्तुतिः

समन्ताद्योजनशतं महापुण्यं भविष्यति ।
अत्र दानन्तपो जप्यं4 श्राद्धं सर्वमथाक्षयं5 ॥००५॥

मूलम्

समन्ताद्योजनशतं महापुण्यं भविष्यति ।
अत्र दानन्तपो जप्यं4 श्राद्धं सर्वमथाक्षयं5 ॥००५॥

:न्

[[३७९]]

विश्वास-प्रस्तुतिः

मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ।
हरो ऽत्र क्रीडते देव्या हिरण्यकशिपुस् तथा ॥००६॥

मूलम्

मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ।
हरो ऽत्र क्रीडते देव्या हिरण्यकशिपुस् तथा ॥००६॥

तपस्तप्त्वा बली चाभून्मुनयः सिद्धिमाप्नुवन्[^१] ।

{इत्य् आग्नेये महापुराणे नर्मदाश्रीपर्वतादिमाहात्म्यं नाम त्रयोदशाधिकशततमो ऽध्यायः ॥ }


  1. नर्मदापरमिति झ॥ ↩︎ ↩︎

  2. निर्यान्त्यमरकण्टके इति झ॥ ↩︎ ↩︎

  3. तपस्तामब्रवीद्धर इति ग॥ ↩︎ ↩︎

  4. अत्र दानं तथा जप्यमिति झ॥ ↩︎ ↩︎

  5. सर्वमथाक्षरमिति ख॥ , छ॥ च ↩︎ ↩︎