{अथ द्वादशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वाराणसीमाहात्म्यम्
अग्निर् उवाच
वाराणसी1 परं तीर्थं गौर्यै प्राह महेश्वरः ।
भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं2 ॥००१॥
मूलम्

रुद्र उवाच
गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं ।
:न्
[[३७७]]
विश्वास-प्रस्तुतिः
जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं ॥००२॥

अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्3 ।
हरिश् चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं4 ॥००३॥

जप्येश्वरं परं गुह्यं1 गुह्यं श्रीपर्वतं तथा ।
महालयं2 परं गुह्यं भृगुश् चण्डेश्वरं5 तथा ॥००४॥

केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके ।
गुह्यानां परमं गुह्यमविमुक्तं परं मम ॥००५॥

द्वियोजनन्तु पूर्वं स्याद् योजनार्धं तदन्यथा6 ।
वरणा च नदी चासीत् तयोर्मध्ये7 वाराणसी ॥००६॥
विश्वास-प्रस्तुतिः
अत्र स्नानं जपो होमो मरणं देवपूजनं ।
श्राद्धं दानं निवासश् च यद्यत् स्याद्भुक्तिमुक्तिदं8 ॥००७॥

{इत्य् आग्नेये महापुराणे वाराणसीमाहात्म्यं नाम द्वादशाधिकशततमो ऽध्यायः ॥ }
:न्
[[३७८]]