११२ वाराणसीमाहात्म्यकथनम्

{अथ द्वादशाधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

वाराणसीमाहात्म्यम्

अग्निर् उवाच
वाराणसी1 परं तीर्थं गौर्यै प्राह महेश्वरः ।
भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं2 ॥००१॥

मूलम्

वाराणसीमाहात्म्यम्

अग्निर् उवाच
वाराणसी1 परं तीर्थं गौर्यै प्राह महेश्वरः ।
भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं2 ॥००१॥

रुद्र उवाच
गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं ।

:न्

[[३७७]]

विश्वास-प्रस्तुतिः

जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं ॥००२॥

मूलम्

जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं ॥००२॥

विश्वास-प्रस्तुतिः

अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्3
हरिश् चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं4 ॥००३॥

मूलम्

अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्3
हरिश् चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं4 ॥००३॥

विश्वास-प्रस्तुतिः

जप्येश्वरं परं गुह्यं1 गुह्यं श्रीपर्वतं तथा ।
महालयं2 परं गुह्यं भृगुश् चण्डेश्वरं5 तथा ॥००४॥

मूलम्

जप्येश्वरं परं गुह्यं1 गुह्यं श्रीपर्वतं तथा ।
महालयं2 परं गुह्यं भृगुश् चण्डेश्वरं5 तथा ॥००४॥

विश्वास-प्रस्तुतिः

केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके ।
गुह्यानां परमं गुह्यमविमुक्तं परं मम ॥००५॥

मूलम्

केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके ।
गुह्यानां परमं गुह्यमविमुक्तं परं मम ॥००५॥

विश्वास-प्रस्तुतिः

द्वियोजनन्तु पूर्वं स्याद् योजनार्धं तदन्यथा6
वरणा च नदी चासीत् तयोर्मध्ये7 वाराणसी ॥००६॥

मूलम्

द्वियोजनन्तु पूर्वं स्याद् योजनार्धं तदन्यथा6
वरणा च नदी चासीत् तयोर्मध्ये7 वाराणसी ॥००६॥

विश्वास-प्रस्तुतिः

अत्र स्नानं जपो होमो मरणं देवपूजनं ।
श्राद्धं दानं निवासश् च यद्यत् स्याद्भुक्तिमुक्तिदं8 ॥००७॥

मूलम्

अत्र स्नानं जपो होमो मरणं देवपूजनं ।
श्राद्धं दानं निवासश् च यद्यत् स्याद्भुक्तिमुक्तिदं8 ॥००७॥

{इत्य् आग्नेये महापुराणे वाराणसीमाहात्म्यं नाम द्वादशाधिकशततमो ऽध्यायः ॥ }

:न्

[[३७८]]


  1. वाराणसीमिति ख॥ , घ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. वसतां शृणुतां हरिमिति ग॥ , घ॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. अन्नदानाद्दिवमिति ख॥ , ग॥ , घ॥ , ङ॥ , छ॥ , ज॥ च ↩︎ ↩︎

  4. तीर्थं वानरकं परमिति ख॥ , ग॥ , घ॥ , ङ॥ च ↩︎ ↩︎

  5. भूमिचण्डेश्वरमिति ग॥ ↩︎ ↩︎

  6. तथान्यथेति झ॥ ↩︎ ↩︎

  7. द्वयोर्मध्ये इति ख॥ ↩︎ ↩︎

  8. यद्वत् स्याद्भुक्तिमुक्तिदमिति ङ॥ ↩︎ ↩︎