{अथ एकादशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
प्रयागमाहात्म्यं
अग्निर् उवाच
वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परं1 ।
प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः ॥००१॥
मूलम्

:न्
[[३७५]]
विश्वास-प्रस्तुतिः
सरितः सागराः सिद्धा गन्धर्वसराप्सस् तथा ।
तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी ॥००२॥

वेगेन समतिक्रान्ता सर्वतीर्थतिरस्कृता ।
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥००३॥

गङ्गायमुनयोर्मध्यं2 पृथिव्या जघनं स्मृतं ।
प्रयागं जघनस्यान्तरुपस्थमृषयो विदुः3 ॥००४॥
विश्वास-प्रस्तुतिः
प्रयागं सप्रतिष्ठानम् कम्बलाश्वतरावुभौ ।
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥००५॥

तत्र वेदाश् च यज्ञाश् च मूर्तिमन्तः प्रयागके ।
स्तवनादस्य4 तीर्थस्य नामसङ्किर्तनादपि ॥००६॥

मृत्तिकालम्भनाद्वापि सर्वपापैः प्रमुच्यते ।
प्रयागे सङ्गते दानं श्राद्धं जप्यादि चाक्षयं5 ॥००७॥

न देववचनाद्विप्र न लोकवचनादपि ।
मतिरुत्क्रमणीयान्ते प्रयागे मरणं प्रति ॥००८॥

दशतीर्थसहस्राणि षष्टिकोट्यस् तथापराः ।
तेषां सान्निध्यमत्रैव प्रयागं परमन्ततः ॥००९॥

वासुकेर्भोगवत्यत्र हंसप्रपतनं परं ।
गवां कोटिप्रदानाद्यत् त्र्यहं स्नानस्य6 तत्फलं ॥०१०॥

[[३७६]]
विश्वास-प्रस्तुतिः
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥०११॥

गङाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।
अत्र दानाद्दिवं2 याति राजेन्द्रो जायते ऽत्र च ॥०१२॥

वटमूले सङ्गमादौ मृतो विष्णुपुरीं व्रजेत् ।
उर्वशीपुलिनं रम्यं तीर्थं सन्ध्यावतस् तथा ॥०१३॥

कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमं ।
मानसं रजसा हीनं तीर्थं वासरकं परं3 ॥०१४॥

{इत्य् आग्नेये महापुराणे प्रयागमाहात्म्यं नाम एकादशाधिकशततमो ऽध्यायः ॥ }