{अथ दशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गङामाहात्म्यं
अग्निर् उवाच
गङामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।
येषां मध्ये याति गङ्गा ते देशा पावना वराः ॥००१॥
मूलम्
गङामाहात्म्यं
अग्निर् उवाच
गङामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।
येषां मध्ये याति गङ्गा ते देशा पावना वराः ॥००१॥
:न्
[[३७४]]
विश्वास-प्रस्तुतिः
गतिर्गङ्गा तु1 भूतानां गतिमन्वेषतां2
सदा
गङ्गा तारयते3 चोभौ वंशौ नित्यं हि सेविता ॥००२॥
विश्वास-प्रस्तुतिः
चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ।
गङां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् ॥००३॥
मूलम्
चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ।
गङां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् ॥००३॥
विश्वास-प्रस्तुतिः
सकलाघहरी देवी स्वर्गलोकप्रदायिनी ।
यावदस्थि च गङ्गायां तावत् स्वर्गे स तिष्ठति ॥००४॥
मूलम्
सकलाघहरी देवी स्वर्गलोकप्रदायिनी ।
यावदस्थि च गङ्गायां तावत् स्वर्गे स तिष्ठति ॥००४॥
विश्वास-प्रस्तुतिः
अन्धादयस्तु4 तां सेव्य देवैर् गच्छन्ति तुल्यतां[^५] ।
गङ्गातीर्थसमुद्भूतमृद्धारी सो ऽघहार्कवत्[^६] ॥००५॥
मूलम्
अन्धादयस्तु4 तां सेव्य देवैर् गच्छन्ति तुल्यतां[^५] ।
गङ्गातीर्थसमुद्भूतमृद्धारी सो ऽघहार्कवत्[^६] ॥००५॥
विश्वास-प्रस्तुतिः
दर्शनात् स्पर्शनात् पानात्तथा गङ्गेतिकीर्तनात् ।
पुनाति पुण्यपुरुषान् शतशीथ सहस्रशः ॥००६॥
मूलम्
दर्शनात् स्पर्शनात् पानात्तथा गङ्गेतिकीर्तनात् ।
पुनाति पुण्यपुरुषान् शतशीथ सहस्रशः ॥००६॥
{इत्य् आग्नेये महापुराणे गङ्गामाहात्म्यं नाम दशाधिकशततमो ऽध्यायः }
-
तीर्थं कणखलमित्यादिः, कालिकासङ्गमुत्तममित्यन्तः
पाठो छ॥ पुस्तके नास्ति ↩︎ ↩︎ -
श्रीपर्वतं कोन्द्रगिरिरिति छ॥ । श्रीपर्वतं कोलगिरिमिति ज॥ ↩︎ ↩︎
-
अग्निर् उवाच । माहात्म्यं सर्वतीर्थानामित्यादिः, नैमिषं
परमन्तीर्थं भुक्तिमुक्तिप्रदायकं । इत्य् आग्नेये महापुराणे
तीर्थयात्रामाहात्म्यमित्यन्तः पाठो झ॥ पुस्तके नास्ति ↩︎ ↩︎