११० गङ्गामाहत्म्यम्

{अथ दशाधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

गङामाहात्म्यं

अग्निर् उवाच
गङामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।
येषां मध्ये याति गङ्गा ते देशा पावना वराः ॥००१॥

मूलम्

गङामाहात्म्यं

अग्निर् उवाच
गङामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।
येषां मध्ये याति गङ्गा ते देशा पावना वराः ॥००१॥

:न्

[[३७४]]

विश्वास-प्रस्तुतिः

गतिर्गङ्गा तु1 भूतानां गतिमन्वेषतां2

सदा
गङ्गा तारयते3 चोभौ वंशौ नित्यं हि सेविता ॥००२॥

मूलम्

गतिर्गङ्गा तु1 भूतानां गतिमन्वेषतां2

सदा
गङ्गा तारयते3 चोभौ वंशौ नित्यं हि सेविता ॥००२॥

विश्वास-प्रस्तुतिः

चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ।
गङां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् ॥००३॥

मूलम्

चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ।
गङां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् ॥००३॥

विश्वास-प्रस्तुतिः

सकलाघहरी देवी स्वर्गलोकप्रदायिनी ।
यावदस्थि च गङ्गायां तावत् स्वर्गे स तिष्ठति ॥००४॥

मूलम्

सकलाघहरी देवी स्वर्गलोकप्रदायिनी ।
यावदस्थि च गङ्गायां तावत् स्वर्गे स तिष्ठति ॥००४॥

विश्वास-प्रस्तुतिः

अन्धादयस्तु4 तां सेव्य देवैर् गच्छन्ति तुल्यतां[^५] ।
गङ्गातीर्थसमुद्भूतमृद्धारी सो ऽघहार्कवत्[^६] ॥००५॥

मूलम्

अन्धादयस्तु4 तां सेव्य देवैर् गच्छन्ति तुल्यतां[^५] ।
गङ्गातीर्थसमुद्भूतमृद्धारी सो ऽघहार्कवत्[^६] ॥००५॥

विश्वास-प्रस्तुतिः

दर्शनात् स्पर्शनात् पानात्तथा गङ्गेतिकीर्तनात् ।
पुनाति पुण्यपुरुषान् शतशीथ सहस्रशः ॥००६॥

मूलम्

दर्शनात् स्पर्शनात् पानात्तथा गङ्गेतिकीर्तनात् ।
पुनाति पुण्यपुरुषान् शतशीथ सहस्रशः ॥००६॥

{इत्य् आग्नेये महापुराणे गङ्गामाहात्म्यं नाम दशाधिकशततमो ऽध्यायः }


  1. तीर्थं कणखलमित्यादिः, कालिकासङ्गमुत्तममित्यन्तः
    पाठो छ॥ पुस्तके नास्ति ↩︎ ↩︎

  2. श्रीपर्वतं कोन्द्रगिरिरिति छ॥ । श्रीपर्वतं कोलगिरिमिति ज॥ ↩︎ ↩︎

  3. शृङ्गवेरपुअरं वरमिति घ॥ ↩︎ ↩︎

  4. अग्निर् उवाच । माहात्म्यं सर्वतीर्थानामित्यादिः, नैमिषं
    परमन्तीर्थं भुक्तिमुक्तिप्रदायकं । इत्य् आग्नेये महापुराणे
    तीर्थयात्रामाहात्म्यमित्यन्तः पाठो झ॥ पुस्तके नास्ति ↩︎ ↩︎