१०९ तीर्थमाहात्म्यम्

{अथ नवाधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

तीर्थमाहात्म्यं

अग्निर् उवाच
माहात्म्यं सर्वतीर्थानां वक्ष्ये यद्भक्तिमुक्तिदं ।
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतं1 ॥००१॥

मूलम्

विद्या तपश् च कीर्तिश् च स तीर्थफलमश्नुते ।

:न्

[[३७१]]

विश्वास-प्रस्तुतिः

प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः ॥००२॥

निष्पपस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् ।
अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च ॥००३॥

अदत्वा काञ्चनं गाश् च दरिद्रो नाम जायते ।
तीर्थाभिओगमने1 तत् स्याद्यद्यज्ञेनाप्यते फलं ॥००४॥

पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं ।
दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे ॥००५॥

ब्रह्मा सह सुरैर् आस्ते मुनयः सर्वमिच्छवः ।
देवाः प्राप्ताः सिद्धिमत्र स्नाताः पितृसुरार्चकाः2 ॥००६॥

अश्वमेधफलं प्राप्य3 ब्रह्मलोकं प्रयान्ति ते ।
कार्त्तिक्यामन्नदानाच्च निर्मलो ब्रह्मलोकभाक्4 ॥००७॥

पुष्करे दुष्करं गन्तुं5 पुष्करे दुष्करं तपः ।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करं6 ॥००८॥

तत्र वासाज्जपच्छ्राद्धात् कुलानां शतमुद्धरेत् ।
जम्बुमार्गं च तत्रैव तीर्थन्तण्डुलिकाश्रमं ॥००९॥

कर्णाश्रमं7 कोटितीर्थं नर्मदा चार्वुदं परं ।
तीर्थञ्चर्मण्वती सिन्धुः सोमनाथः प्रभासकं ॥०१०॥

सरस्वत्यब्धिसङ्गश् च[^८] सागरन्तीर्थमुत्तमं ।

:न्

[[३७२]]

विश्वास-प्रस्तुतिः

पिण्डारकं द्वारका च गोमती सर्वसिद्धिदा ॥०११॥

भूमितीर्थं ब्रह्मतुङ्गं1 तीर्थं पञ्चनदं परं ।
भीमतीर्थं2 गिरीन्द्रञ्च देविका पापनाशिनी ॥०१२॥

तीर्थं विनशनं पुण्यं नागोद्भेदमघार्दनं ।
तीर्थं कुमारकोटिश् च सर्वदानीरितानि च ॥०१३॥

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहं ।
य एवं सततं ब्रूयात्सो ऽमलः प्राप्नुयाद्दिवं ॥०१४॥

तत्र विष्ण्वादयो देवास्तत्र वासाद्धरिं व्रजेत्3
सरस्वत्यां सन्निहित्यां स्नानकृद्ब्रह्मलोकभाक्4 ॥०१५॥

पांशवोपि कुरुक्षेत्रे नयन्ति परमां गतिं ।
धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं ॥०१६॥

तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा5
गङ्गासस्वतीसङ्गं ब्रह्मावर्तमघार्दनं ॥०१७॥

भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं6
वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं ॥०१८॥

कपालमोचनं तीर्थन्तीर्थराजं प्रयागकं ।
गोमतीगङ्गयोः सङ्गं गङ्गा सर्वत्र नाकदा ॥०१९॥

तीर्थं राजगृहं पुण्यं शालग्राममघान्तकं ।

:न्

[[३७३]]

विश्वास-प्रस्तुतिः

वटेशं वामन्न्तीर्थं कालिकासङ्गमुत्तमं1 ॥०२०॥

लौहित्यं करतोयाख्यं शोणञ्चाथर्षभं परं ।
श्रीपर्वतं कोल्वगिरिं2 सह्याद्रिर्मलयो गिरिः ॥०२१॥

गोदावरी तुङ्गभद्रा कावेरो वरदा नदी ।
तापी पयोष्णी रेवा च दण्डकारण्यमुत्तमं ॥०२२॥

कालञ्जरं मुञ्जवटन्तीर्थं सूर्पारकं परं ।
मन्दाकिनी चित्रकूटं शृङ्गवेरपुरं परं3 ॥०२३॥

अवन्ती परमं तीर्थमयोध्या पापनाशनी ।
नैमिषं परमं तीर्थं भुक्तिमुक्तिप्रदायकं4 ॥०२४॥

{इत्य् आग्नेये महापुराणे तीर्थयात्रा माहात्म्यं नाम नवाधिकशततमो ऽध्यायः }

  1. स्वसंयतमिति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. पितृसुरार्चिता इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. अश्वमेधफलश्चास्येति ख॥ , ग॥ , छ॥ च । अश्वमेधफलं चाप्येति
    घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. ब्रह्मलोककमिति ख॥ , ग॥ , ङ॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. दुष्करं गन्तुमिति ख॥ ↩︎ ↩︎ ↩︎ ↩︎

  6. वस्तुं तत्र सुदुष्करमिति ज॥ ↩︎ ↩︎ ↩︎ ↩︎

  7. कण्वाश्रममिति घ॥ ↩︎ ↩︎