१०८ भुवनकोषवर्णनम्

{अथाष्टाधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

भुवनकोषः

अग्निर् उवाच
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो महान् ।
कुशः क्रौञ्चस् तथा शाकः पुष्करश्चेति सप्तमः ॥००१॥

मूलम्

:न्

[[३६७]]

विश्वास-प्रस्तुतिः

एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समं1 ॥००२॥

जम्बूद्वीपो द्वीपमध्ये2 तन्मध्ये मेरुरुच्छ्रितः3
चतुरशीतिसाहस्रो भूयिष्ठः4 षोडशाद्विराट् ॥००३॥

द्वात्रिंशन्मूर्ध्नि विस्तरात् षोडशाधः5 सहस्रवान् ।
भूयस्तस्यास्य6 शैलो ऽसौ कर्णिकाकारसंस्थितः ॥००४॥

हिमवान् हेमकूटश् च निषधश्चास्य दक्षिणे ।
नीलः श्वेतश् च शृङ्गो च उत्तरे वर्षपर्वताः ॥००५॥

लक्षप्रमाणौ द्वौ मध्ये दशहीनास् तथापरे ।
सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश् च ते ॥००६॥

भारतं प्रथमं वर्षन्ततः किम्पुरुषं स्मृतं ।
हरिवर्सन्तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥००७॥

रम्यकं चोत्तरे वर्षं तथैवान्यद्धिरण्मयं7
उत्तराः कुरवश् चैव यथा वै भारतं तथा ॥००८॥

नवसाहस्रमेकैकमेतेषां मुनिसत्तम ।
इलावृतञ्च तन्मध्ये सौवर्णा मेरुरुछ्रितः ॥००९॥

मेरोश् चतुर्दिशन्तत्र नवसाहस्रविस्तृतं[^८] ।

:न्

[[३६८]]

विश्वास-प्रस्तुतिः

इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥०१०॥

विष्कम्भा रचिता मेरोर्योजनायुतविस्तृताः1
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥०११॥

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः2
कदम्बस्तेषु जम्बुश् च पिप्पलो बट एव च ॥०१२॥

एकादशशतायामाः पादपा गिरिकेतवः ।
जम्बूद्वीपेति सञ्ज्ञा स्यात् फलं जम्बा गजोपमं ॥०१३॥

जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं3 परं ।
सुपार्श्वः पूर्वतो मेरोः केतुमालस्तु पश्चिमे ॥०१४॥

वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।
वैभ्राजं पश्चिमे सौम्ये नन्दनञ्च सरांस्यथ ॥०१५॥

अरुणोदं महाभद्रं संशितोदं5 समानसं ।
शिताभश् चक्रमुञ्जाद्याः पूर्वतः केशराचलाः5 ॥०१६॥

दक्षिणेन्द्रेस्त्रिकूटाद्याः शिशिवासमुखा जले6
शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी ॥०१७॥

चतुर्दशसहस्राणि योजनानाञ्च दिक्षु च ।
इन्द्रादिलोकपालानां समन्तात् ब्रह्मणः पुरः ॥०१८॥

विष्णुपादात् प्लावयित्वा चन्द्रं स्वर्गात् पतन्त्यपि ।
पूर्वेण शीता भद्राश्वाच्छैलाच्छैलाद्गतार्णवं ॥०१९॥

तथैवालकनन्दापि दक्षिणेनैव भारतं[^७] ।

:न्

[[३६९]]

विश्वास-प्रस्तुतिः

प्रयाति सागरं कृत्वा सप्तभेदाथ पश्चिमं ॥०२०॥

अब्धिञ्च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि1
आनीलनिषधायामौ2 माल्यवद्गन्धमादनौ ॥०२१॥

तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।
भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा ॥०२२॥

पत्राणि लोकपद्मस्य मर्यादाशैलवाह्यतः ।
जठरो देवकूटश् च मर्यादापर्वतावुभौ3 ॥०२३॥

तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।
गन्धमादनकैलासौ पूर्ववचायतावुभौ4 ॥०२४॥

मूलम्

तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।
गन्धमादनकैलासौ पूर्ववचायतावुभौ4 ॥०२४॥

विश्वास-प्रस्तुतिः

अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ।
निषधः पारिपात्रश् च मर्यादापर्वतावुभौ ॥०२५॥

मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ।
त्रिशृङ्गो रुधिरश् चैव उत्तरौ वर्षपर्वतौ ॥०२६॥

पूर्वपञ्चायतावेतावर्णवान्तर्व्यवस्थितौ ।
जाठराद्याश् च मर्यादाशैला मेरोश् चतुर्दिशं ॥०२७॥

केशरादिषु या द्रोण्यस्तासु सन्ति पुराणि हि ।
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम ॥०२८॥

भौमानां स्वर्गधर्माणां न पापास्तत्र यान्ति च[^५] ।

:न्

[[३७०]]

विश्वास-प्रस्तुतिः

भद्राश्वे ऽस्ति हयग्रीवो वराहः केतुमालके ॥०२९॥

भारते कूर्मरूपी च मत्स्यरूपः कुरुष्वपि ।
विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः ॥०३०॥

किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकं न च ।
चत्तुर्विंशतिसाहस्रं प्रजा जीवन्त्यनामयाः ॥०३१॥

कृतादिकल्पना नास्ति भौमान्यम्भांसि नाम्बुदाः ।
सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ॥०३२॥

नद्यश् च शतशस्तेभ्यस्तीर्थभूताः प्रजज्ञिरे ।
भारते यानि नीर्थानि तानि तीर्थानि वच्मि ते ॥०३३॥

  1. योगप्रस्तारे इति ग॥ , ज॥ , झ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. इन्द्रद्युम्नोभ्यजायतेति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्य् अन्तः पाठो झ॥ पुस्तके
    नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. दुष्टादुष्टश् च विरजा इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎

  5. षोडशाम्श इति झ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. भूपाद्मस्यास्य इति ख॥ , ग॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  7. तथैवात्र हिरण्मयमिति ग॥ । तथैवाथ हिरण्मयमिति ज॥ ↩︎ ↩︎