१०७ स्वायम्भुवसर्गकथनम्

{अथ सप्ताधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

स्वायम्भुवसर्गः

अग्निर् उवाच1
वक्ष्ये भुवनकोषञ्च पृथ्वीद्वीपादिलक्षणं ।
अग्निध्रश्चाग्निबाहुश् च वपुष्मान्द्युतिमांस् तथा ॥००१॥

मूलम्

मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च[^५] ।

:न्

[[३६५]]

विश्वास-प्रस्तुतिः

ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतो ऽभवत् ॥००२॥

प्रियब्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता ।
जम्बुद्वीपमथाग्नीध्रे प्लक्षं मेधातिथेर्ददौ ॥००३॥

वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयं ।
क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान् ॥००४॥

पुष्करं सवनायादादग्नीध्रे ऽदात् सुते शतं2
जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयं ॥००५॥

हेमकूटं किम्पुरुषे हरिवर्षाय नैषधं ।
इलावृते मेरुमध्ये रम्ये नीलाचलश्रितं3 ॥००६॥

हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ ।
भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमं ॥००७॥

मेरोः प्रियव्रतः पुत्रानभिषिच्य ययौ वनं ।
शालग्रामे तपस्तप्त्वा ययौ विष्णोर्लयं नृपः ॥००८॥

यानि कुम्पुरुषाद्यानि ह्य् अष्टवर्षाणि सत्तम ।
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्य् अयत्नतः ॥००९॥

जरामृत्युभयं नास्ति धर्माधर्मौ युगादिकं ।
नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः4 ॥०१०॥

ऋषभो मेरुदेव्याञ्च ऋषभाद् भरतो ऽभवत् ।
ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः ॥०११॥

भरताद् भारतं वर्षं भरतात् सुमतिस्त्वभूत्1
भरतो दत्तलक्ष्मीकः शालग्रामे हरिं गतः ॥०१२॥

[[३६६]]

विश्वास-प्रस्तुतिः

स योगी योगप्रस्तावे2 वक्ष्ये तच्चरितं पुनः ।
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत3 ॥०१३॥

परमेष्ठी ततस्तस्मात् प्रतीहारस्तदन्वयः ।
प्रतीहारात् प्रतीहर्ता प्रतिहर्तुर्भुवस्ततः ॥०१४॥

उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः4
पृथुश् चैव ततो नक्तो नक्तस्यापि गयः सुतः ॥०१५॥

नरो गयस्य तनयः तत्पुत्रो ऽभूद्विराट् ततः ।
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥०१६॥

महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः ।
त्वष्टा त्वष्टुश् च विरजा1रजस्तस्याप्यभूत् सुतः ॥०१७॥

सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ।
विश्वज्योतिःप्रधानास्ते भारतन्तैर् विवर्धितं ॥०१८॥

कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः ।

{इत्य् आग्नेये महापुराणे स्वायम्भुवः सर्गो नाम सप्ताधिकशततमो ऽध्यायः ॥ }

  1. ईश्वर उवाचेति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. गृहाणि नगरादिषु इति झ॥ । गृहाणि नगराणि तु इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎

  3. विम्श एव चेति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  4. अष्टाभिर्विभजेदेवमिति छ॥ ↩︎ ↩︎ ↩︎ ↩︎