१०६ नगरादिवास्तुकथनम्

{अथ षडधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नगरादिवास्तुः

ईश्वर उवाच
नगरादिकवास्तुश् च वक्ष्ये राज्यादिवृद्धये ।
योजनं योजनार्धं वा1 तदर्थं स्थानमाश्रयेत् ॥००१॥

मूलम्

:न्

[[३६२]]

विश्वास-प्रस्तुतिः

अभ्यर्च्य वास्तु नगरं प्राकाराद्यन्तु कारयेत् ।
ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके ॥००२॥

गन्धर्वाभ्यां2 दक्षिणे स्याद्वारुण्ये पश्चिमे तथा ।
सौम्यद्वारं सौम्यपदे कार्या हट्टास्तु विस्तराः ॥००३॥

येनेभादि सुखं गच्छेत् कुर्याद् द्वारं तु षट्करं ।
छिन्नकर्णं विभिन्नञ्च चन्द्रार्धाभं पुरं न हि ॥००४॥

वज्रसूचीमुखं नेष्टं3 सकृद् द्वित्रिसमागमं ।
चापाभं वज्रनागाभं4 पुरारम्भे हि शान्तिकृत् ॥००५॥

प्रार्च्य विष्णु हरार्कादीन्नत्वा दद्याद् बलिं बली5
आग्नेये स्वर्णकर्मारान्1 पुरस्य विनिवेशयेत् ॥००६॥

दक्षिणे नृत्यवृत्तीनां6 वेश्यास्त्रीणां गृहाणि च ।
नटानाञ्चक्रिकादीनां7 कैवर्तादेश् च नैरृते ॥००७॥

रथानामायुधानाञ्च कृपाणाञ्च वारुणे ।
शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मणः8 ॥००८॥

ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश् च चोत्तरे ।
फलाद्यादिविक्रयिण ईशाने च वणिग्जनाः ॥००९॥

पूर्वतश् च बलाध्यक्षा आग्नेये विविधं बलं ।
स्त्रीणामादेशिनो दक्षे काण्डारान्नैरृते न्यसेत् ॥०१०॥

पश्चिमे च महामात्यान् कोषपालांश् च कारुकान् ।

:न्

[[३६३]]

विश्वास-प्रस्तुतिः

उत्तरे दण्डनाथांश् च नायकद्विजसङ्कुलान् ॥०११॥

पूर्वतः क्षत्रियान् दक्षे वैश्याञ्छून्द्रांश् च पश्चिमे ।
दिक्षु वैद्यान् वाजिनश् च बलानि च चतुर्दिशं ॥०१२॥

पूर्वेण चरलिङ्ग्यादीञ्छ्मशानादीनि दक्षिणे ।
पश्चिमे गोधनाद्यञ्च कृषिकर्तॄंस्तथोत्तरे ॥०१३॥

न्यसेन्म्लेच्छांश् च कोणेषु ग्रामादिषु तथा स्मृतिं2
श्रियं वैश्रवणं द्वारि3 पूर्वे तौ4 पश्यतां श्रियं ॥०१४॥

देवादीनां पश्चिमतः पूर्वास्यानि गृहाणि हि ।
पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान्5 ॥०१५॥

नाकेशविष्ण्वादिधामानि रक्षार्थं नगरस्य च1
निर्दैवतन्तु नगरग्रामदुर्गगृहादिकं ॥०१६॥

भुज्यते तत् पिशाचाद्यै रोगाद्यैः परिभूयते ।
नगरादि सदैवं हि जयदं भुक्तिमुक्तिदं ॥०१७॥

पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसं ।
शनयं दक्षिणस्यान्तु7 नैरृत्यामायुधाश्रयं ॥०१८॥

भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्ग्रहः ।
उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहं8 ॥०१९॥

चतुःशालं त्रिशालं वा द्विशालं चैकशालकं ।
चतुःशालगृहाणान्तु शालालिन्दकभेदतः9 ॥०२०॥

[[३६४]]

विश्वास-प्रस्तुतिः

शतद्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि ।
त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा ॥०२१॥

एकशालानि चत्वारि एकालिन्दानि वच्मि च ।
अष्टाविंशदलिन्दानि गृहाणि नगराणि च2 ॥०२२॥

चतुर्भिः सप्रभिश् चैव पञ्चपञ्चाशदेव तु ।
षडलिन्दानि विंशैव अष्टाभिर्विम्श एव हि3 ॥०२३॥

अष्टालिन्दं भवेदेवं[^३] नगरादौ गृहाणि हि ।

{इत्य् आगेनेये महापुराणे नगरादिवास्तुर्नाम षडधिकशततमो ऽध्यायः ॥ }

  1. भोजनार्धन्तदर्धं च इति घ॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. वनवासी मृतिर्धनमिति घ॥ । धर्मः कलिश्चेत्यादिः,
    मृतिर्धनमित्यन्तः पाठो झ॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. आयुः प्रावाह्यशस्यानीति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. भोगं च पत्यं चेति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  5. द्वारतः प्रोक्त इति घ॥ ↩︎ ↩︎ ↩︎ ↩︎

  6. दक्षिणे भृत्यधूर्तानामिति छ॥ ↩︎ ↩︎

  7. नटानां वाह्लिकादीनामिति ख॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  8. परिकर्मण इति छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  9. शालालिन्दप्रभेदत इति क॥ ↩︎ ↩︎