{अथ पञ्चाधिकशततमो ऽध्यायः}
नगरादिवास्तुकथनं
ईश्वर उवाच
नगरग्रामदुर्गाद्या1 गृहप्रासादवृद्धये ।
:न्
[[३५६]]
एकाशीतिपदैर् वस्तुं पूजयेत् सिद्धये ध्रुवं ॥००१॥
प्रागास्या दशधा नाड्यास्तासां नामानि च ब्रुवे ।
शान्ता यशोवती कान्ता विशाला प्राणवाहिनी ॥००२॥
सती वसुमती नन्दा सुभद्राथ2 मनोरमा3 ।
उत्तरा द्वादशान्याश् च4 एकाशीत्यङ्घ्रिकारिका ॥००३॥
हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला प्रिया ।
जया ज्वाला विशोका च स्मृतास्तत्रपादतः5 ॥००४॥
ईशाद्यष्टाष्टकं दिक्षु यजेदीशं धनञ्जयं ।
शक्रमर्कं तथा सत्यं6 भृशं व्योम च पूर्वतः ॥००५॥
हव्यवाहञ्च पूर्वाणि वितथं भौममेव च ।
कृतान्तमथ गन्धर्वं भृगं मृगञ्च दक्षिणे ॥००६॥
पितरं द्वारपालञ्च सुग्रीवं पुष्पदन्तकं ।
वरुणं दैत्यशेषौ च यक्ष्माणं पश्चिमे सदा ॥००७॥
रोगाहिमुख्यो1 भल्लाटः सौभाग्यमदितिर्दितिः7 ।
नवान्तः पदगो ब्रह्मा पूज्योर्धे च षडङ्घिगाः8 ॥००८॥
ब्रह्मेशान्तरकोष्ठस्थ9 मायाख्यान्तु पद्द्वये ।
तदधश्चापवत्साख्यं केन्द्रन्तरेषु षट्पदे ॥००९॥
:न्
[[३५७]]
मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः ।
सावित्री तदधो द्व्यंशे विवस्वान् षट्पदे त्वधः ॥०१०॥
पितृब्रह्मान्तरे विष्णुमिन्दुमिन्द्रं त्वधो जयं ।
वरुणब्रह्मणोर्मध्ये मित्राख्यं षट्पदे यजेत् ॥०११॥
रोगब्रह्मान्तरे नित्यं द्विपञ्च2 रुद्रदासकम् ।
तदधो द्व्यङ्घ्रिगं यक्ष्म षट्सौम्येषु धराधरं3 ॥०१२॥
चरकीं स्कन्दविकटं विदारीं पूतनां क्रमात् ।
जम्मं पापं4 पिलिपिच्छं5 यजेदीशादिवाह्यतः6 ॥०१३॥
एकाशीपदं वेश्म मण्डपश् च शताङ्घ्रिकः1 ।
पूर्ववद्देवताः पूज्या ब्रह्मा तु षोडशांशके7 ॥०१४॥
मरीचिश् च विवस्वांश् च मित्रं पृथ्वीधरस् तथा8 ।
दशकोष्ठस्थिता दिक्षु त्वन्ये बेशादिकोणगाः9 ॥०१५॥
दैत्यमाता तथेशाग्नी10 मृगाख्यौ पितरौ तथा ।
पापयक्ष्मानिलौ देवाः सर्वे सार्धांशके स्थिताः ॥०१६॥
यत्पाद्योकः11 प्रवक्ष्यामि सङ्क्षेपेण क्रमाद् गुह ।
:न्
[[३५८]]
सदिग्विंशत्करैर् दैर्घ्यादष्टाविंशति2 विस्तरात् ॥०१७॥
शिशिराश्रयः शिवाख्यश् च3 रुद्रहीनः सदोभयोः ।
रुद्रद्विगुणिता नाहाः पृथुष्णोभिर्विना त्रिभिः ॥०१८॥
स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथिभिश् चैव4 विस्तरात्5 ।
सावित्रः सालयः कुड्या6 अन्येषां पृथक्
स्त्रिंशांशतः ॥०१९॥
कुड्यपृथुपजङ्घोच्चात् कुड्यन्तु त्रिगुणोच्छयं ।
कुड्यसूत्रसमा पृथ्वी वीथी भेदादनेकधा ॥०२०॥
भद्रे तुल्यञ्च वीथीभिर्द्वारवीथी विनाग्रतः ।
श्रीजयं पृष्ठतो हीनं भद्रोयं पार्श् चयोर्विना ॥०२१॥
गर्भपृथुसमा9 वीथी तदर्धार्धेन वा क्वचित् ।
वीथ्यर्धेनोपवीथ्याद्यमेकद्वित्रिपुरान्वितम् ॥०२२॥
सामान्यानाथ गृहं वक्ष्ये सर्वेषां सर्वकामदं ।
एकद्वित्रिचतुःशालमष्टशालं यथाक्रमात् ॥०२३॥
एकं याम्ये च सौमास्यं द्वे चेत् पश्चात् पुरोमुखम्7 ।
चतुःशालन्तु साम्मुख्यात्तयोरिन्द्रेन्द्रमुक्तयोः ॥०२४॥
शिवास्यमम्बुपास्यैष इन्द्रास्ये यमसूर्यकं8 ।
:न्
[[३५९]]
प्राक्सौम्यस्थे च दण्दाख्यं प्राग्याम्ये वातसञ्ज्ञकं ॥०२५॥
आप्येन्दौ गृहवल्याख्यं2 त्रिशूलं तद्विनर्धिकृत् ।
पूर्वशलाविहीनं3 स्यात् सुक्षेत्रं वृद्धिदायकं ॥०२६॥
याम्ये हीने भवेच्छूली त्रिशालं वृद्धिकृत् परं4 ।
यक्षघ्नं जलहीनौकः सुतघ्नं बहुशत्रुकृत् ॥०२७॥
:न्
सत्यलोकतः । अपुनर्मारका यत्र ब्रह्मलोको हि स्मृतः ।
पादाद्यधस्तुर्भूलोको भुवः सूर्याद्ववः स्मृतः । स्वर्लोको
भुवान्तश् च नियुतानि चतुर्दश । एकदण्डं कटाहेन वृतो
ब्रह्माण्डविस्तरः । वारिवह्न्यानलाशैस्ततो भूतादिनावधि ।
वृतं दशगुणैर् अण्डं भूतादिर्महता तथा ।
दशोत्तराण्यशेषाणि शुक्र कस्मान्मामुने । महान्तञ्च
समावृत्य प्रधानं समवस्थितं । अनन्तस्य न तस्यान्तः
संस्थानं न च विद्यते । हेतुभूतमशेषस्य प्रकृतिः सा पुरा
मुने । असङ्ख्यातानि चाण्डानि तत्र जातानि च दृशां ।
दरुण्यग्निर्यथा तैलं तेन तद्वत् पुमानिति । प्रधानेवस्थितो व्यापी
चेतनात्मात्मवेदनः । प्रधानश् च पुमांश् चैव
सर्वभूतात्मभूतात्मभूस् तथा । विष्णुशक्त्या
महत्प्राज्ञवृत्तौ संश्रयधर्मिणौ । तयोः सैव पृथग्भावे
करणं संशयस्य च । महाख्यं स्वतलश्चाख्यं पातालं
चापि सत्तम । कृष्णपीतारुणाः
शुक्रशर्कराशैलकाञ्चनाः । भूमयस्तेषु चान्येषु सन्ति
दैत्यादयः सुखं । पातालानामधश्चान्ते शेषो विष्णोश् च
तामसः । गुणानन्यान् स चानन्तः शिरसा धारयन्महीं ।
भुवोधो नरका लोकं नयते क्षत्रवैष्णवः । वारिणा भाविता
पृथ्वी यावत्तावन्नभो मतं । सिद्धान्तमस्तुयाभ्यैव, इन्द्रास्थे
यमसूर्यकं । मल्लब्धेषु क॥ , ख॥ , ग॥ , घ॥ , ङ॥ , छ॥ , झ॥
चिह्नितपुस्तकेषु सावित्रः सालयः इत्य् अतः परं नैष पाठो
वर्तते । तेषु तु मुद्रितपाठ एव वर्तते पुनः ज॥ चिह्नितपुस्तके
सावित्रः सालय इत्य् अतः परं इन्द्रास्येयमसूर्यकमित्यन्तः
पाठो नास्ति । ज॥ चिह्नितपुस्तके य उक्तपाठो दृश्यते तत्र
पूर्वापरसङ्गतिर्नास्ति । प्रकरणान्तरीयपाथोयमत्र
लेखकभ्रमात् समागत इति भाति
[[३६०]]
इन्द्रादिक्रमतो वच्मि2 ध्वजाद्यष्टौ गृहाण्यहं ।
प्रक्षालानुस्रगावासमग्नौ3 तस्य महानसं ॥०२८॥
याम्ये रसक्रिया शय्या धनुःशस्त्राणि रक्षसि ।
धनमुक्त्यम्वुपेशाख्ये4 सम्यगन्धौ च5 मारुते ॥०२९॥
सौम्ये6 धनपशू कुर्यादीशे दीक्षावरालयं1 ।
स्वामिहस्तमितं वेश्म विस्तारायामपिण्डिकं ॥०३०॥
त्रिगुणं हस्तसंयुक्तं कृत्वाष्टांशैहृतं तथा7 ।
तच्छेषोयं स्थितस्तेन वायसान्तं ध्वजादिकं ॥०३१॥
त्रयः पक्षाग्निवेदेषु रसर्षिवसुतो भवेत् ।
सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितं ॥०३२॥
तस्माच्च8 नवमे भागे शुभकृन्निलयो मतः ।
तन्मधे मण्डपः शस्तः समो वा द्विगुणायतः ॥०३३॥
प्रत्यगाप्ये चेन्दुयमे9 हट्ट एव गृहावली ।
एकैकभवनाख्यानि दिक्ष्वष्टाष्टकसङ्ख्यया10 ॥०३४॥
ईशाद्यदितिकान्तानि फलान्येषां यथाक्रमं11 ।
भयं नारी चलत्वं च जयो वृद्धिः प्रतापकः ॥०३५॥
:न्
[[३६१]]
धर्मः कलिश् च नैस्व्यञ्च प्राग्द्वारेष्वष्टसु ध्रुवं ।
दाहो ऽसुखं सुहृन्नाशो धननाशो मृतिर्धनं2 ॥०३६॥
शिल्पित्वं तनयः स्याच्च याम्यद्वारफलाष्टकम् ।
आयुःप्राव्राज्यशस्यानि3 धनशान्त्यर्थसङ्क्षयाः ॥०३७॥
शोषं भोगं चापत्यञ्च4 जलद्वारफलानि च ।
रोगो मदार्तिमुख्यत्वं चार्थायुः कृशता मतिः ॥०३८॥
मानश् च द्वारतः पूर्व5 ऊतरस्यान्दिशि क्रमात् ।
{इत्य् आग्नेये महापुराणे गृहादिवास्तुर्नाम पञ्चाधिकशततमो ऽध्यायः ॥ }