{अथ चतुरधिकशततमोध्यायः}
विश्वास-प्रस्तुतिः
प्रासादलक्षणं
ईश्वर उवाच
वक्ष्ये प्रासादसामान्यलक्षणं ते शिखध्वज ।
चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् ॥००१॥
मूलम्

अद्रिभागेन1 गर्भः स्यात् पिण्डिका पादविस्तरात् ।
पञ्चभागीकृते क्षेत्रेन्तर्भागे2 तु पिण्डिका ॥००२॥

सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् ।
भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु3 ॥००३॥

:न्
[[३५२]]
विश्वास-प्रस्तुतिः
त्रिभिस्तु कन्यसागर्भः4 शेषो भित्तिरिति क्वचित् ।
षोढाभक्येथवा क्षेत्रे भित्तिर्भागैकविस्तरात् ॥००४॥

गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका ।
विस्ताराद् द्विगुणो वापि सपादद्विगुणो ऽपि वा ॥००५॥

अर्धार्धद्विगुणो वापि5 त्रिगुणः क्वचित्त्रिदुच्छ्रयः ।
जगती विस्तरार्धेन त्रिभागेन क्वचिद्भवेत् ॥००६॥

नेमिः पादोनविएस्तीर्णा1 प्रासादस्य समन्ततः ।
परिधिस्त्रयं शको मध्ये रथकांस्तत्र कारयेत् ॥००७॥

चामुण्डं भैरवं तेषु नाट्येशं च निवेशयेत् ।
प्रासादार्धेन देवानामष्टौ वा चतुरो ऽपि वा ॥००८॥

प्रदक्षिणां वहिः कुर्यात् प्रासादादिषु2 वा नवा ।
आदित्याः पूर्वतः स्थाप्याः स्कन्दोग्निर्वायुगोचरे3 ॥००९॥

एवं यमादयो न्यस्याः स्वस्याः स्वस्यां दिशि स्थिताः ।
चतुर्धा शिखरं कृत्वा शुकनासा द्विभागिका ॥०१०॥

तृतीये वेदिका त्वग्नेः सकण्ठो मलसारकः6 ।
वैराजः पुष्पकश्चान्यः कैलासो7 मणिकस् तथा ॥०११॥
विश्वास-प्रस्तुतिः
त्रिविष्ठपञ्च पञ्चैव मेरुमूर्धनि संस्थिताः8 ।
चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः ॥०१२॥

[[३५३]]
विश्वास-प्रस्तुतिः
वृत्तो वृत्तायतश्चान्यो4 ह्य् अष्टास्रश्चापि पञ्चमः ।
एकैको नवधाभेदैश् चत्वारिंशच्च पञ्च च ॥०१३॥

प्रासादः प्रथमो मेरुर्द्वितियो मन्दरस् तथा ।
विमानञ्च तथा भद्रः सर्वतोभद्र एव च ॥०१४॥

चरुको5 नन्दिको नन्दिर्वर्धमानस् तथापरः ।
श्रीवत्सश्चेति वैराज्यान्ववाये च समुत्थिताः ॥०१५॥

बलभी गृहराजश् च शालागृहञ्च मन्दिरं ।
विशालश् च समो ब्रह्म1 मन्दिरं भुवनन्तथा ॥०१६॥

प्रभवः शिविका वेश्म नवैते पुष्पकोद्भवाः2 ।
बलयो3 दुन्दुभिः पद्मो महापद्मक6 एवच ॥०१७॥
विश्वास-प्रस्तुतिः
वर्धनी वान्य उष्णीषः7 शङ्खश् च कलसस् तथा ।
स्ववृक्षश् च तथाप्येते वृत्ताः कैलाससम्भवाः8 ॥०१८॥
विश्वास-प्रस्तुतिः
गजोथ वृषभो हंसो गरुत्मान्नृक्षनायकः ।
भूषणो9 भूधरश्चान्न्ये श्रीजयः पृथवीधरः10 ॥०१९॥
विश्वास-प्रस्तुतिः
वृत्तायतात् समुद्भूता नवैते मणिकाह्वयात्11 ।
वज्रं चक्रन्तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकं12 ॥०२०॥

[[३५४]]
विश्वास-प्रस्तुतिः
चित्रं स्वस्तिकखड्गञ्च गदा श्रीकण्ठ एव च ।
विजयो नामतश् चैते4 त्रिविष्टपसमुद्भवाः ॥०२१॥

नगराणामिमाः सञ्ज्ञा लाटादीनामिमास् तथा5 ।
ग्रीवार्धेनोन्नतञ्चूलम्पृथुलञ्च विभागतः1 ॥०२२॥
विश्वास-प्रस्तुतिः
दशधा वेदिकाङ्कृत्वा पञ्चभिः स्कन्धविस्तरः ।
त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु प्रचण्डकं2 ॥०२३॥

दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन ।
पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्य् उदाहृता ॥०२४॥

क्वचित् पञ्चमभागेन महताङ्गर्भपादतः ।
उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते ॥०२५॥

षष्ट्याधिकात् समारभ्य अङ्गुलानां शतादिह3 ।
उत्तमान्यपि चत्वारि द्वाराणि दशहानितः6 ॥०२६॥
विश्वास-प्रस्तुतिः
त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः ।
उच्छ्रायार्धेन विस्तारो ह्य् उच्छ्रायो ऽभ्यधिकस्त्रिधा ॥०२७॥

चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः7 ।
उच्छ्रायात् पादविस्तीर्णा विशाखास्तदुदुंवरे8 ॥०२८॥
:न्
[[३५५]]
विश्वास-प्रस्तुतिः
द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदं ॥०२९॥

अधःशाखाचतुर्थांशे प्रतीहारौ निवेशयेत् ।
मिथुनैः पादवर्णाभिः4 शाखाशेषं विभूषयेत् ॥०३०॥

स्तम्भबिद्धे भृत्यता स्यात् वृक्षबिद्धे त्वभूतिता ।
कूपबिद्धे भयं द्वारे क्षेत्रबिद्धे5 धनक्षयः ॥०३१॥

प्रासादगृहशिलादिमार्गविद्धेषु1 बन्धनं ।
सभाबिद्धे न दारिद्र्यं वर्णबिद्धे2 निराकृतिः ॥०३२॥
विश्वास-प्रस्तुतिः
उलूखलेन दारिद्र्यं शिलाबिद्धेन शत्रुता3 ।
छायाबिद्धेन दारिद्र्यं बेधदोषो न जायते ॥०३३॥

छेदादुत्पाटनाद्वापि तथा प्राकारलक्षणात् ।
सीमाया द्विगुणत्यागाद् बेधदोषो न जायते ॥०३४॥

{इत्य् आग्नेये महापुराणे सामान्यप्रासादलक्षणं नाम चतुरधिकशततमो ऽध्यायः }
-
अर्धभागेनेति ख॥ , घ॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
पञ्चभागीकृते वापि मध्यभागे इति घ॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
भागौ द्वौ मध्यमो गर्भो ज्येष्ठो भागद्वयेन तु इति ङ॥ , छ॥ ,
ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
चतुर्धेत्यादिः, मेरुमूर्ध्नि संस्थिता इत्य् अन्तः पाठो ग॥ पुस्तके
नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
खवृक्षश्चेत्यादिः, पृथिवीधर इत्य् अन्तः पाठो ज॥
पुस्तके नास्ति ↩︎ ↩︎