{अथ त्र्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
जीर्णोद्धारः
ईश्वर उवाच
जीर्णादीनाञ्च लिङ्गानामुद्धारं विधिना वदे ।
लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा ॥००१॥
मूलम्

सम्पुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकं ।
इत्यादिदुष्टलिङ्गानां योज्या पिण्डी1 तथा वृषः ॥००२॥

चालितञ्चलितं लिङ्गमत्यर्थं2 विषमस्थितं ।
दिड्मूढं पातितं लिङ्गं मध्यस्थं पतितं तथा ॥००३॥

एवंविधञ्च संस्थाप्य3 निर्ब्रणञ्च भवेद्यदि ।
नद्यादिकप्रवाहेन तदपाक्रियते यदि ॥००४॥

:न्
[[३४९]]
विश्वास-प्रस्तुतिः
सुस्थितं दुस्थितं वापि4 शिवलिङ्गं न चालयेत् ॥००५॥

शतेन स्थापनं कुर्यात् सहस्रेण तु चालनं5 ।
पूजादिभिश् च संयुक्तं जीर्णाद्यमपि सुस्थितं1 ॥००६॥
विश्वास-प्रस्तुतिः
याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणं ।
विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनं2 ॥००७॥

मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवातुं पूर्ववत् ।
दिग्बलिं च वहिर्दत्वा समाचम्य स्वयं गुरुः ॥००८॥

ब्राह्मणान् भोजयित्वा तु शम्भुं3 विज्ञापयेत्ततः ।
दुष्टलिङ्गमिदं शम्भोः शान्तिरुद्धारणस्य चेत्6 ॥००९॥

रुसिस्तवादिविधिना7 अधितिष्ठस्व मां शिव ।
एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् ॥०१०॥

मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतं ।
ततो लिङ्गं च संस्थाप्य पूजयेत् स्थिण्डिले8 तथा ॥०११॥

[[३५०]]
विश्वास-प्रस्तुतिः
ॐ व्यापकं हृदयेश्वराय नमः4 । ॐ व्यापकेश्वराय
शिरसे नमः5 । इत्य् आद्यङ्गमन्त्राः1
ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमस्ततः2 ॥०१२॥

सत्त्वः कोपीह3 यः कोपिलिङ्गमाश्रित्य तिष्ठति ।
लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु ॥०१३॥

विद्याविद्येश्वरैर् युक्तः स भवोत्र6 भविष्यति ।
सहस्रं प्रतिभागे च ततः पाशुपताणुना7 ॥०१४॥
विश्वास-प्रस्तुतिः
हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर् जपेत्ततः8 ।
दत्वार्घं च विलोमेन तत्त्वतत्त्वाधिपांस् तथा ॥०१५॥

अष्टमूर्तीश्वरान् लिङ्ग9 पिण्डिकासंस्थितान् गुरुः ।
विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा ॥०१६॥

रज्वा वध्वा तया नीत्वा शिवमन्तं गृणन् जनैः ।
तज्जले निक्षिपेन् मन्त्री पुष्ठ्यर्थं जुहुयाच्छतं ॥०१७॥

तृप्तये दिक्पतीनाञ्च वास्तुशुद्धौ10 शतं शतं ।
रक्षां विधाय तद्धाम्नि महापाशुपता ततः ॥०१८॥

लिङ्गमन्यत्ततस्तत्र विधिवत् स्थापयेद् गुरुः ।
असुरैर् मुनिभिर्गोत्रस्तन्त्रविद्भिः11 प्रतिष्ठितं ॥०१९॥

[[३५१]]
विश्वास-प्रस्तुतिः
जीर्णं वाप्यथवा भग्नं4 विधिनापि नचालयेत् ।
एष एव विधिः कार्योजीर्णधामसमुद्धृतौ ॥०२०॥

खड्गे मन्त्रगणं न्यस्य कारयेत् मन्दिरान्तरं ।
सङ्कोचे मरणं प्रोक्तं विस्तारो तु धनक्षयः ॥०२१॥

तद्द्रव्यं श्रेष्ठद्रव्यं वा तत् सकार्यं
तत्प्रमाणकं
{इत्य् आग्नेये महपुराणे जीर्णोद्धारो नाम त्र्यधिकशततमो ऽध्यायः ॥ }