१०३ जीर्णशिवलिङ्गोद्धारः

{अथ त्र्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

जीर्णोद्धारः

ईश्वर उवाच
जीर्णादीनाञ्च लिङ्गानामुद्धारं विधिना वदे ।
लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा ॥००१॥

मूलम्

सम्पुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकं ।
इत्यादिदुष्टलिङ्गानां योज्या पिण्डी1 तथा वृषः ॥००२॥

चालितञ्चलितं लिङ्गमत्यर्थं2 विषमस्थितं ।
दिड्मूढं पातितं लिङ्गं मध्यस्थं पतितं तथा ॥००३॥

एवंविधञ्च संस्थाप्य3 निर्ब्रणञ्च भवेद्यदि ।
नद्यादिकप्रवाहेन तदपाक्रियते यदि ॥००४॥

ततो ऽन्यत्रापि संस्थाप्य विधिदृष्टेन कर्मणा ।

:न्

[[३४९]]

विश्वास-प्रस्तुतिः

सुस्थितं दुस्थितं वापि4 शिवलिङ्गं न चालयेत् ॥००५॥

शतेन स्थापनं कुर्यात् सहस्रेण तु चालनं5
पूजादिभिश् च संयुक्तं जीर्णाद्यमपि सुस्थितं1 ॥००६॥

याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणं ।
विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनं2 ॥००७॥

मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवातुं पूर्ववत् ।
दिग्बलिं च वहिर्दत्वा समाचम्य स्वयं गुरुः ॥००८॥

ब्राह्मणान् भोजयित्वा तु शम्भुं3 विज्ञापयेत्ततः ।
दुष्टलिङ्गमिदं शम्भोः शान्तिरुद्धारणस्य चेत्6 ॥००९॥

रुसिस्तवादिविधिना7 अधितिष्ठस्व मां शिव ।
एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् ॥०१०॥

मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतं ।
ततो लिङ्गं च संस्थाप्य पूजयेत् स्थिण्डिले8 तथा ॥०११॥

ॐ व्यापकेश्वरायेति नाट्यन्तं शिववादिना[^९] ।

:न्

[[३५०]]

विश्वास-प्रस्तुतिः

ॐ व्यापकं हृदयेश्वराय नमः4 । ॐ व्यापकेश्वराय
शिरसे नमः5 । इत्य् आद्यङ्गमन्त्राः1
ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमस्ततः2 ॥०१२॥

सत्त्वः कोपीह3 यः कोपिलिङ्गमाश्रित्य तिष्ठति ।
लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु ॥०१३॥

विद्याविद्येश्वरैर् युक्तः स भवोत्र6 भविष्यति ।
सहस्रं प्रतिभागे च ततः पाशुपताणुना7 ॥०१४॥

हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर् जपेत्ततः8
दत्वार्घं च विलोमेन तत्त्वतत्त्वाधिपांस् तथा ॥०१५॥

अष्टमूर्तीश्वरान् लिङ्ग9 पिण्डिकासंस्थितान् गुरुः ।
विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा ॥०१६॥

रज्वा वध्वा तया नीत्वा शिवमन्तं गृणन् जनैः ।
तज्जले निक्षिपेन् मन्त्री पुष्ठ्यर्थं जुहुयाच्छतं ॥०१७॥

तृप्तये दिक्पतीनाञ्च वास्तुशुद्धौ10 शतं शतं ।
रक्षां विधाय तद्धाम्नि महापाशुपता ततः ॥०१८॥

लिङ्गमन्यत्ततस्तत्र विधिवत् स्थापयेद् गुरुः ।
असुरैर् मुनिभिर्गोत्रस्तन्त्रविद्भिः11 प्रतिष्ठितं ॥०१९॥

[[३५१]]

विश्वास-प्रस्तुतिः

जीर्णं वाप्यथवा भग्नं4 विधिनापि नचालयेत् ।
एष एव विधिः कार्योजीर्णधामसमुद्धृतौ ॥०२०॥

खड्गे मन्त्रगणं न्यस्य कारयेत् मन्दिरान्तरं ।
सङ्कोचे मरणं प्रोक्तं विस्तारो तु धनक्षयः ॥०२१॥

तद्द्रव्यं श्रेष्ठद्रव्यं वा तत् सकार्यं
तत्प्रमाणकं

{इत्य् आग्नेये महपुराणे जीर्णोद्धारो नाम त्र्यधिकशततमो ऽध्यायः ॥ }

  1. त्याज्या पिण्डीति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. निम्नमित्यर्थमिति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. सन्त्याज्यमिति झ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. न्यूनादिदोषनाशार्थं कृत्वेति झ॥ । न्यूनादिदोषनाशाय
    हुत्वेति घ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. कर्तर्भोगवत इति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  6. शान्तिरुद्धरणे न्यसेदिति ख॥ , ग॥ , घ॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  7. रुचिस्तवास्ति विधिनेति ख॥ , ङ॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  8. स्थण्डिलमिति ख॥ , घ॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  9. ॐ व्यापकेश्वरायेति तत्त्वेनाभ्यन्तरादिने इति ख॥ । ॐ
    व्यापकेश्वरायेति नात्यन्तशिववाचिनेति घ॥ । ॐ व्यापकेश्वरायेति
    तत्त्वेनात्यन्तवादिने इति छ॥ ↩︎ ↩︎

  10. वास्तुमध्ये घ॥ ↩︎ ↩︎

  11. तत्त्वविद्भिरिति ख॥ , घ॥ , छ॥ , ज॥ च ↩︎ ↩︎