१०२ ध्वजारोहणम्

{अथ द्व्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

ध्वजारोपणं

ईश्वर उवाच
चूलके ध्वजदण्डे च1 ध्वजे देवकुले तथा ।
प्रतिष्ठा च यथोद्दिष्टा2 तथा स्कन्द वदामि ते3 ॥००१॥

मूलम्

तडागार्धप्रवेशाद्वा यद्वा सवार्धवेशनात् ।
ऐष्टके दारुजः4 शूलः शैलजे धाम्नि शैलजः5 ॥००२॥

वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्तिमानतः ।
स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः6 ॥००३॥

:न्

[[३४५]]

विश्वास-प्रस्तुतिः

ईशशूलः7 समाख्यातो मूर्ध्नि लिङ्गसमन्वितः ।
वीजपूरकयुक्तो वा शिवशास्त्रेषु तद्विधः ॥००४॥

चित्रो ध्वजश् च जङ्घातो यथा जङ्गार्धतो भवेत्8
भवेद्वा दण्डमानस्तु यदि वा तद्यदृच्छया9 ॥००५॥

महाध्वजः समाख्यातो यस्तु पीठस्य वेष्टकः1
शक्रैर् ग्रहै रसैवापि हस्तैर् दण्डस्तु सम्भितः ॥००६॥

उत्तमादिक्रमेणैव विज्ञेयः शूरिभिस्ततः ।
वंशजः शालजातिर्वा स दण्डः सर्वकामदः ॥००७॥

अयमारोप्यमाणस्तु भङ्गमायाति वै यदि ।
राज्ञोनिष्टं2 विजानीयाद्यजमानस्य वा तथा3 ॥००८॥

मन्त्रेण बहुरूपेण पूर्ववच्छान्तिमाचरेत् ।
द्वारपालादिपूजाञ्च मन्त्राणान्तर्प्यणन्तथा ॥००९॥

विधाय चूलकं4 दण्डं स्नापयेदस्त्रमन्त्रतः ।
अनेनैव तु मन्त्रेण ध्वजं सम्प्रोक्ष्य देशिकः ॥०१०॥

मृदु कषायादिभिः5 स्नानं प्रासादङ्कारयेत्ततः ।
विलिप्य रसमाच्छाद्य6 शय्यायां न्यस्य पूर्ववत् ॥०११॥

चूडके[^२०] लिङ्गवणन्यासो न च ज्ञानं न च क्रिया ।

:न्

[[३४६]]

विश्वास-प्रस्तुतिः

विशेषार्था7 चतुर्थी च न कुण्डस्य8 कल्पना ॥०१२॥

दण्डे तयार्थतत्त्वञ्च9 विद्यातत्त्वं द्वितीयकं ।
सद्योजातानि वक्राणि1 शिवतत्त्वं पुनर्ध्वजे ॥०१३॥

निष्कलञ्च शिवन्तत्र न्यस्याङ्गानि प्रपूजयेत् ।
चूडके च1 ततो मन्त्रो सान्निध्ये सहिताणुभिः3 ॥०१४॥

होमयेत् प्रतिभागञ्च ध्वजे तैस्तु फडन्तिकैः4
अन्यथापि कृतं यच्च ध्वजसंस्कारणं5 क्वचित् ॥०१५॥

अस्त्रयागविधावेवं6 तत्सर्वमुपदर्शितं ।
प्रासादे कारिते स्थाने10 स्रग्वस्त्रादिविभूषिते ॥०१६॥

जङ्घा वेदी तदूर्ध्वे तु त्रितत्त्वादि निवेश्य च ।
होमादिकं विधायाथ शिवं सम्पूज्य पूर्ववत् ॥०१७॥

सर्वतत्त्वमयं ध्यात्वा शिवञ्च व्यापकं न्यसेत् ।
अनन्तं कालरुद्रञ्च विभाव्य च पदाम्बुजे ॥०१८॥

कुष्माण्डहाटकौ पीठे पातालनरकैः11 सह ।
भुवनैर् लोकपालैश् च शतरुद्रादिभिर्वृतं ॥०१९॥

ब्रह्माण्दकमिदं ध्यात्वा जङ्घाताञ्च विभावयेत् ।
वारितेजोनिलव्योमपञ्चाष्टकसमन्वितं12 ॥०२०॥

[[३४७]]

विश्वास-प्रस्तुतिः

सर्वावरणसञ्ज्ञञ्च वृद्धयोन्यवृकान्वितं7
योगाष्टकसमायुक्तं8 नाशाविधि गुणत्रयं ॥०२१॥

पटस्थं पुरुषं सिंहं वामञ्च9 परिभावयेत् ।
मञ्जरीवेदिकायाञ्च विद्यादिकचतुष्टयं ॥०२२॥

कण्ठे मायां सरुद्राञ्च1 विद्याश्चामलसारके2
कलसे चेश्वरं विन्दुं विद्येश्वरसमन्वितं3 ॥०२३॥

जटाजूटञ्च तं विद्याच्छूलं चन्द्रार्धरूपकं ।
शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च ॥०२४॥

ध्वजे च कुण्डलीं शक्तिमिति धाम्नि विभावयेत् ।
जगत्या वाथ सन्धाय लिङ्गं पिण्डिकयाथवा4 ॥०२५॥

समुत्थाप्य सुमन्त्रैश् च5 विन्यस्ते शक्तिपङ्कजे ।
न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत् ॥०२६॥

यजमानो ध्वजे लग्ने बन्धुमित्रादिभिः सह ।
धाम प्रदक्षिणीकृत्य लभते फलमीहितं6 ॥०२७॥

गुरुः पाशुपतं ध्यायन्10 स्थिरमन्त्राधिपैर् युतं11
अधिपान् शस्त्रयुक्तांश् च रक्षणाय निबोधयेत्12 ॥०२८॥

[[३४८]]

विश्वास-प्रस्तुतिः

न्यूनादिदोषशान्त्यर्थं हुत्वा7 दत्वा च दिग्बलिं ।
गुरवे दक्षिणां दद्याद् यजमानो दिवं व्रजेत् ॥०२९॥

प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ।
तावद्युगसहस्राणि कर्तुर्भोगभुजः8 फलं ॥०३०॥

{इत्य् आग्नेये महापुराणे ध्वजारोहणादिविधिर्नाम द्व्यधिकशततमो ऽध्यायः }

  1. चूडके ध्वजदण्डे वा इति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. यथादिष्टा इति झ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. तथा ह्य् अहं वदामि ते इति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. ऐष्टे दारुभव इति घ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. तडागार्धेत्यादिः, शैलज इत्य् अन्तः पाठो झ॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. अग्रं चूडाभिधो मत इति घ॥ । अस्रचूलादिदोषत इति छ॥ ।
    गृहचूडाभिधो मत इति ङ॥ । अग्रं चूडादिदोषत इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. सन्निध्याबोधनमिति ख॥ , छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. विधायैवेति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. प्रकृत्या तु इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. चूलके इति घ॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  11. पातालनवकैर् इति ङ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  12. पञ्चाग्गकसमन्वितमिति ग॥ ↩︎ ↩︎ ↩︎ ↩︎