{अथैकाधिकशततमो ऽध्यायः ॥}
विश्वास-प्रस्तुतिः
प्रासादप्रतिष्ठा
ईअवर उवाच
प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः1 ।
शुकनाशासमाप्तौ तु पूर्ववेद्याश् च मध्यतः ॥००१॥
मूलम्
प्रासादप्रतिष्ठा
ईअवर उवाच
प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः1 ।
शुकनाशासमाप्तौ तु पूर्ववेद्याश् च मध्यतः ॥००१॥
विश्वास-प्रस्तुतिः
आधारशक्तितः पद्मे विन्यस्ते प्रणवेन च2 ।
स्वर्णाद्ये कतमोद्द्भतं पञ्चगव्येन संयुतं ॥००२॥
मूलम्
आधारशक्तितः पद्मे विन्यस्ते प्रणवेन च2 ।
स्वर्णाद्ये कतमोद्द्भतं पञ्चगव्येन संयुतं ॥००२॥
विश्वास-प्रस्तुतिः
मधुक्षीरयुतं कुम्भं न्यस्तरत्रादिपञ्चकं3 ।
स्रग्वस्त्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितं4 ॥००३॥
मूलम्
मधुक्षीरयुतं कुम्भं न्यस्तरत्रादिपञ्चकं3 ।
स्रग्वस्त्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितं4 ॥००३॥
:न्
[[३४३]]
विश्वास-प्रस्तुतिः
पूरकेण समादाय सकलीकृतविग्रहः ॥००४॥
मूलम्
पूरकेण समादाय सकलीकृतविग्रहः ॥००४॥
विश्वास-प्रस्तुतिः
सर्वात्मभिन्नात्मानं स्वाणुना5 स्वान्तमारुतः ।
आज्ञया बोधयेच्छम्भौ6 रेचकेन ततो गुरुः ॥००५॥
विश्वास-प्रस्तुतिः
द्वादशान्तात्7 समादाय स्फुरद्वह्निकणोपमं ।
निक्षिपेत् कुम्भगर्भे च न्यस्ततन्त्रातिवाहिकं8 ॥००६॥
मूलम्
द्वादशान्तात्7 समादाय स्फुरद्वह्निकणोपमं ।
निक्षिपेत् कुम्भगर्भे च न्यस्ततन्त्रातिवाहिकं8 ॥००६॥
विश्वास-प्रस्तुतिः
विग्रहन्तद्गुणानाञ्च बोधकञ्च कलादिकं ।
क्षान्तं वागीश्वरं9 तत्तु ब्रातं तत्र निवेशयेत् ॥००७॥
मूलम्
विग्रहन्तद्गुणानाञ्च बोधकञ्च कलादिकं ।
क्षान्तं वागीश्वरं9 तत्तु ब्रातं तत्र निवेशयेत् ॥००७॥
विश्वास-प्रस्तुतिः
दश नाडीर्दश प्राणानिन्द्रियाणि त्रयोदश ।
तदधिपांश् च संयोज्य प्रणवाद्यैः स्वनामभिः ॥००८॥
मूलम्
दश नाडीर्दश प्राणानिन्द्रियाणि त्रयोदश ।
तदधिपांश् च संयोज्य प्रणवाद्यैः स्वनामभिः ॥००८॥
विश्वास-प्रस्तुतिः
स्वकार्यकारणत्वेन1 मायाकाशनियामिकाः2 ।
विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसम्वरैः3 ॥००९॥
मूलम्
स्वकार्यकारणत्वेन1 मायाकाशनियामिकाः2 ।
विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसम्वरैः3 ॥००९॥
विश्वास-प्रस्तुतिः
अङ्गानि च4 विनिक्षिप्य निरुन्ध्याद्रोधमुद्रा10 ।
सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगं ॥०१०॥
मूलम्
अङ्गानि च4 विनिक्षिप्य निरुन्ध्याद्रोधमुद्रा10 ।
सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगं ॥०१०॥
विश्वास-प्रस्तुतिः
पञ्चगव्यकषायाद्यैः पूर्ववत् संस्कृतन्ततः ।
शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिं ॥०११॥
मूलम्
पञ्चगव्यकषायाद्यैः पूर्ववत् संस्कृतन्ततः ।
शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिं ॥०११॥
:न्
[[३४४]]
विश्वास-प्रस्तुतिः
तस्मिंश् च शिवमन्त्रेण व्यापकत्वेन वियसेत् ।
सन्निधानाय होमञ्च प्रओक्षणं स्पर्शनं जपं ॥०१२॥
मूलम्
तस्मिंश् च शिवमन्त्रेण व्यापकत्वेन वियसेत् ।
सन्निधानाय होमञ्च प्रओक्षणं स्पर्शनं जपं ॥०१२॥
विश्वास-प्रस्तुतिः
सान्निध्याबोधनं5 सर्वम्भागत्रयविभागतः ।
विधायैवं6 प्रकृत्यन्ते7 कुम्भे तं विनिवेशयेत् ॥०१३॥
{इत्य् आग्नेये महापुराणे प्रासादकृत्यप्रतिष्ठा नामैकाधिकशततमो ऽध्यायः }
-
तच्चैतन्यञ्च योगत इति ग॥ । तच्चैतन्यस्वयोगत इति छ॥ ↩︎ ↩︎ ↩︎ ↩︎
-
विन्यस्ते प्रणवेन तु इति ख॥ , छ॥ , ज॥ , झ॥ च । विन्यसेत् प्रणवेन तु इति
ग॥ ↩︎ ↩︎ ↩︎ ↩︎ -
भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ॥ पुस्तके
नास्ति । अत्र कतिपयश्लोकाधिको ऽध्यायत्रयात्मकः पाठः
पतितोस्ति ↩︎ ↩︎ -
वह्निकृत पद्मं विन्यसेदिति ख॥ । वह्निकूपं यवं न्यसेदिति ग॥ ।
वह्निकूपेषु च न्यसेदिति ज॥ ↩︎ ↩︎