१०० द्वारप्रतिष्ठा

{अथ शततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

द्वारप्रतिष्ठाकथनं

ईश्वर उवाच
द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ ।
द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत् ॥००१॥

मूलम्

मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरं ।
विन्यस्य सन्निवेश्याथ1 हुत्वा जप्त्वात्र रूपतः2 ॥००२॥

द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रितः ।
रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च ॥००३॥

यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः ।
गोमृत्सर्षपरागेन्द्रमोहनीलक्षणामृताः ॥००४॥

रोचना रुग् वचो दूर्वा प्रासादधश् च पोटलीं ।
प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु ॥००५॥

द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत् ।
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः ॥००६॥

शिवमकाशदेशे च व्यापकं सर्वमङ्गले3
ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः ॥००७॥

:न्

[[३४२]]

विश्वास-प्रस्तुतिः

द्वाराश्रितांश् च तल्पादीन्1 कृतयुक्तैः2 स्वनामभिः ।
जुहुयाच्छतमर्धं वा द्विगुणं शक्तितोथवा3 ॥००८॥

न्यूनादिदोषमोषार्थं हेतितो जुहुयाच्च्छतं[^४] ।
दिग्बलिम्पूर्ववद्धुत्वा[^५] प्रदद्याद्दक्षिणादिकं ॥००९॥

{इत्य् आग्नेये महापुराणे द्वारप्रतिष्ठा नाम शततमो ऽध्यायः ॥ }

  1. विन्यस्य च निवेशयाथ इति ख॥ । विन्यस्य सन्निबोध्याथेति ज॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. अजप्त्वानुरूपत इति ग॥ ↩︎ ↩︎ ↩︎ ↩︎

  3. सर्वपुष्कलमिति ख॥ , घ॥ च ↩︎ ↩︎ ↩︎ ↩︎