०९९ सूर्यप्रतिष्ठाविधिः

{अथोनशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

सूर्यप्रतिष्ठाकथनं

ईश्वर उवाच
वक्ष्ये सूर्यप्रतिष्ठाञ्च पूर्ववन्मण्डपादिकं ।
स्नानादिकञ्च सम्याद्य1 पूर्वोक्तविधिना ततः ॥००१॥

मूलम्

विद्यामासनशय्यायां साङ्गं विन्यस्य भास्करं ।
त्रितत्त्वं विन्यसेत्तत्र सस्वरं खादिपञ्चकं ॥००२॥

शुद्ध्यादि पूर्ववत् कृत्वा पिण्डीं संशोध्य पूर्ववत् ।
सदेशपदपर्यन्तं विन्यस्य तत्त्वपञ्चकं2 ॥००३॥

शक्त्या च सर्वतोमुख्या संस्थाप्य विधिवततः ।
स्वाणुना3 विधिवत् सूर्यं शक्त्यन्तं4 स्थापयेद्गुरुः ॥००४॥

स्वाम्यन्तमथवादित्यं पादान्तन्नाम धारयेत् ।
सूर्यमन्त्रास्तु5 पूर्वोक्ता द्रष्टव्याः स्थापनेपि च6 ॥००५॥

{इत्य् आग्नेये महापुराणे सूर्यप्रतिष्ठा नामैकोनशततमो ऽध्यायः ॥ }

:न्

[[३४१]]

  1. स्नानादिकं च सम्पूज्य इति ख॥ , छ॥ , च ↩︎ ↩︎

  2. विन्यस्य पदपञ्चकमिति छ॥ । विन्यस्य रत्नपञ्चकमिति ज॥ ↩︎ ↩︎

  3. आत्मनेति छ॥ ↩︎ ↩︎

  4. शक्त्यर्थमिति ङ॥ ↩︎ ↩︎

  5. सूर्यमन्त्राश्चेति छ॥ ↩︎ ↩︎

  6. स्थापनेपि वेति ज॥ ↩︎ ↩︎