{अथाष्टनवतितमो ऽध्यायः ॥ }
गौरीप्रतिष्ठाकथनं
ईश्वर उवाच
वक्ष्ये गौरीप्रतिष्ठाञ्च पूजया सहितां शृणु ।
मण्डपाद्यं पुरो यच्च1 संस्थाप्य चाधिरोपयेत् ॥००१॥
शय्यायान्तांश् च विन्यस्य मन्त्रान्मूर्त्यादिकान् गुह ।
आत्मविद्याशिवान्तञ्च2 कुर्यादीशनिवेशनं ॥००२॥
शक्तिं परां ततो3 न्यस्य हुत्वा4 जप्त्वा च पूर्ववत् ।
सन्धाय च तथा पिण्डीं5 क्रियाशक्तिस्वरूपिणीं ॥००३॥
सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा ।
एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत् ॥००४॥
परशक्तिस्वरूपान्तां स्वाणुना6 शक्तियोगतः ।
ततो न्यसेत् क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे ॥००५॥
ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत् ।
अम्बिकां शिवनाम्नीञ्च समालभ्य7 प्रपूजयेत् ॥००६॥
ॐ आधारशक्तये नमः । ॐ कूर्माय नमः । ॐ स्कन्दाय च
तथा नमः । ॐ ह्रीं नारायणाय नमः । ॐ ऐश्वर्याय
नमः
:न्
[[३३९]]
ॐ अं अधश्छदनाय नमः । ॐ पद्मासनाय नमः । ॐ
ऊर्ध्वच्छदनाय नमः । ॐ पद्मासनाय नमः । अथ
सम्पूज्याः केशवास् तथा । ॐ ह्रीं कर्णिकाय नमः । ॐ
क्षं पुष्कराक्षेभ्य1 इहार्चयेत् । ॐ हां पुष्ट्यै ह्रीं
च ज्ञानायै ह्रूं क्रियायै ततो नमः । ॐ नालाय नमः । रुं
धर्माय नमः2 । रुं ज्ञानाय वै नमः3 । ॐ वैराग्याय
वै नमः । ॐ वै अधर्माय नमः4 । ॐ रुं अज्ञानाय वै
नमः । ॐ अवैराग्याय वै नमः । अं अनैश्वर्याय नमः ।
हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः । ॐ ह्रौं
शमायै5 च नमः । ह्रुं ज्येष्ठायै ततो नमः । ॐ ह्रौं
रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च । गौं
गौरीमूर्तये नमः । गौर्या मूलमथोच्यते । ॐ ह्रीं सः6
महागौरि रुद्रदयिते स्वाहा । गौर्यै नमः । गां ह्रूं ह्रीं
शिवो गूं स्यात् शिवायै कवचाय च । गों नेत्राय च गों अस्त्राय ॐ
गौं विज्ञानशक्तये, ॐ गूं क्रियाशक्तये नमः7 । पूर्वादौ
शाक्रादिकान् । ॐ सुं सुभागायै नमः । ह्रीं वीजललिता
ततः । ॐ ह्रीं कामिन्यै च नमः । ॐ ह्रूं स्यात्
कामशालिनीमन्त्रैर् गौरीं प्रतिष्ठाप्य प्रार्च्य जप्त्वाथ
सर्वभाक्8 ॥
{इत्य् आग्नेये महापुराणे गौरीप्रतिष्ठा नामाष्टनवतितमो ऽध्यायः }
:न्
[[३४०]]