{अथ सप्तनवतितमो ऽध्यायः}
शिवप्रतिष्ठाकथनं
ईश्वर उवाच
1प्रातर् नित्पविधिं कृत्वा द्वारपालप्रपूजनं ।
प्रविश्य प्रग्विधानेन देहशुद्ध्यादिमाचरेत् ॥००१॥
दिक्पतींश् च समभ्यर्च्य शिवकुम्भञ्च वर्धनीं ।
:न्
[[३२७]]
अष्टमुष्टिकया2 लिङ्गं वह्निं सन्पर्प्य च क्रमात् ॥००२॥
शिवाज्ञातस्ततो गच्छेत् प्रासादं शस्त्रमुच्चरन्3 ।
तद्गतान् प्रक्षिपेद्विघ्नान् हुम्फडन्तशराणुना1 ॥००३॥
न मध्ये स्थापयेल्लिङ्गं बेधदोषविशङ्कया ।
तस्मान् मध्यं परित्यज्य यवार्धेन यवेन वा ॥००४॥
किञ्चिदीशानमाश्रित्य शिलां मध्ये निवेशयेत् ।
मूलेन तामनन्ताख्यां सर्वाधारस्वरूपिणीं4 ॥००५॥
सर्वगां सृष्टियोगेन विन्यसेदचलां शिलां ।
अथवानेन मन्त्रेण शिवस्यासनरूपिणीं ॥००६॥
ॐ नमो व्यापिनि भगवति स्थिरे ऽचले ध्रुवे ।
ह्रं लं ह्रीं स्वाहा5
त्वया शिवाज्ञया शक्ते स्थातव्यमिह सन्ततं ॥००७॥
इत्युक्त्वा च समभ्यर्च्य6 निरुध्याद्रौद्रमुद्रया7 ।
वज्रादीनि च रत्नानि तथोशीरादिकौषधीः ॥००८॥
लोहान् हेमादिकांस्यन्तान् हरितालादिकांस् तथा ।
धान्यप्रभृतिशस्त्रांश् च पूर्वमुक्ताननुक्रमात् ॥००९॥
प्रभारागत्वदेहत्ववीर्यशक्तिमयानिमान्8 ।
भावयेन्नेकचित्तस्तु लोकपालेशसंवरैः9 ॥०१०॥
पूर्वादिषु च गर्तेषु10 न्यसेदेकैकशः क्रमात्11 ।
:न्
[[३२८]]
हेमजं तारजं कूर्मं वृषं वा द्वारसम्मुखं2 ॥०११॥
सरित्तटमृदा युक्तं पर्वताग्रमृदाथवा3 ।
प्रक्षिपेन्मध्यगर्तादौ1 यद्वा मेरुं सुवर्णजं ॥०१२॥
मधूकाक्षतसंयुक्तमञ्जनेन समन्वितं ।
पृथिवीं राजतीं यद्वा यद्वा हेमसमुद्भवां ॥०१३॥
सर्ववीजसुवर्णाभ्यां समायुक्तां विनिक्षिपेत्4 ।
स्वर्णजं राजतं वापि सर्वलोहसमुद्भवं5 ॥०१४॥
सुवर्णं कृशरायुक्तं पद्मनालं6 ततो न्यसेत् ।
देवदेवस्य शक्त्यादिमूर्तिपर्यन्तमासनं ॥०१५॥
प्रकल्प्य पायसेनाथ लिप्त्वा7 गुग्गुलुनाथवा ।
श्वभ्रमाच्छाद्य वस्त्रेण तनुत्रेणास्त्ररक्षितं8 ॥०१६॥
दिक्पतिभ्यो बलिं9 दत्वा समाचान्तो ऽथ देशिकः ।
शेवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये10 ॥०१७॥
शस्त्रेण वा शतं सम्यग् जुहुयात् पूर्णया सह ।
:न्
[[३२९]]
एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः ॥०१८॥
समुत्थाप्य हृदादेवमासनं मङ्गलादिभिः ।
गुरुर्देवाग्रतो गच्छेन्मूर्तिपैश् च दिशि स्थितैः2 ॥०१९॥
चतुर्भिः सह कर्तव्या देवयज्ञस्य3 पृष्ठतः ।
प्रासादादि1 परिभ्रम्य भद्राख्यद्वारसम्मुखं ॥०२०॥
लिङ्गं संस्थाप्य दत्वार्घ्यं प्रासादं सन्निवेशयेत्4 ।
द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला ॥०२१॥
द्वारबन्धे शिखाशून्ये तदर्धेनाथ तदृते5 ।
वर्जयन्6 द्वारसंस्पर्शं द्वारेणैव महेश्वरं ॥०२२॥
देवगृहसमारम्भे कोणेनापि प्रवेशयेत् ।
अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गे ऽपि सर्वतः ॥०२३॥
गृहे प्रवेशनं द्वारे लोकैर् अपि समीरितं ।
अपद्वारप्रवेशेन विदुर्गोत्रक्षयं गृहं7 ॥०२४॥
अथ पीठे8 च संस्थाप्य लिङ्गं द्वारस्य सम्मुखं ।
तूर्यमङ्गलनिर्घेषैर् दूर्वाक्षतसमन्वितं ॥०२५॥
समुत्तिष्ठं हृदेत्युक्त्वा महापाशुपतं पठेत् ।
:न्
[[३३०]]
अपनीय घटं श्वभ्राद्2 देशिको मूर्तिपैः सह ॥०२६॥
मन्त्रं सन्धारयित्वा तु3 विलिप्तं1 कुङ्कुमादिभिः ।
शक्तिशक्तिमतोरैक्यं ध्यात्वा चैव तु रक्षितं4 ॥०२७॥
लयान्तं5 मूलमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत्5 ।
अंशेन ब्रह्मभागस्य यद्वा अंशद्वयेन च ॥०२८॥
अर्धेन वाष्टमांशेन सर्वस्याथ प्रवेशनं7 ।
विधाय सीसकं नाभिदीर्घाभिः8 सुसमाहितः ॥०२९॥
श्वभ्रं9 वालुकयापुर्य ब्रूयात् स्थिरीभवेति च10 ।
ततो लिङ्गे स्थिरीभूते ध्यात्वा11 सकलरूपिणं ॥०३०॥
मूलमुच्चार्य शक्त्यन्तं सृष्ट्या च निष्कलं12 न्यसेत् ।
स्थाप्यमानं यदा लिङ्गं याम्यां दिशमथाश्रयेत्13 ॥०३१॥
तत्तद्दिगीशमन्त्रेण पूर्णान्तं दक्षिणान्वितं ।
:न्
[[३३१]]
सव्ये स्थाने च वक्रे च2 चलिते स्फुटितेपि वा ॥०३२॥
जुहुयान् मूलमन्त्रेण बहुरूपेण3 वा शतं ।
कुञ्चान्येष्वपि दोषेषु शिवशान्तिं समाश्रयेत्1 ॥०३३॥
युक्तं न्यासादिभिर्लिङ्गं4 कुर्वन्नेवं न दोषभाक् ।
पीठबन्धमतः कृत्वा लक्षणस्यांशलक्षणं5 ॥०३४॥
गौरीमन्त्रं लयं नीत्वा सृष्ट्या पिण्डीञ्च विन्यसेत् ।
सम्पूर्य पार्श्वसंसिद्धिं वालुकावज्रलेपनं6 ॥०३५॥
ततो मूर्तिधरैः सार्धं गुरुः शान्तिं घटोर्ध्वतः ।
संस्थाप्य कलशैर् अन्यैस्तद्वत्7 पञ्चामृतादिभिः ॥०३६॥
विलिप्य चन्दनाद्यैश् च8 सम्पूज्य जगदीश्वरं ।
उमामहेशमन्त्राभ्यां तौ स्पृशेल्लिङ्गमुद्रया ॥०३७॥
ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरं9 ।
कृत्वा मूर्तिं तदीशानामङ्गानां ब्रह्मणामथ ॥०३८॥
ज्ञानी लिङ्गे10 क्रियापीठे विनास्य स्नापयेत्ततः ।
गन्धैर् विलिप्य सन्धूप्य व्यापित्वे शिवे न्यसेत् ॥०३९॥
स्रग्धूपदीपनैवेद्यैर् हृदयेन फलानि च ।
:न्
[[३३२]]
विनिवेद्य यथाशक्ति समाचम्य महेश्वरं ॥०४०॥
दत्वार्घं च जपं कृत्वा2 निवेद्य वरदे करे3 ।
चन्द्रार्कतारकं यावन् मन्त्रेण शैवमूर्तिपैः1 ॥०४१॥
स्वेच्छयैव त्वया नाथ स्थातव्यमिह मन्दिरे ।
प्रणम्येव वहिर्गत्वा4 हृदा वा प्रणवेन वा ॥०४२॥
संस्थाप्य वृषभं पश्चात् पूर्ववद्वलिमाचरेत् ।
न्यूनादिदोषमोषाय5 ततो मृत्युजिता शतं ॥०४३॥
शिवेन सशिवो हुत्वा शान्त्यर्थं पायसेन च ।
ज्ञानाज्ञानकृतं यच्च तत् पूरय महाविभो6 ॥०४४॥
हिरण्यपशुभूम्यादि7 गीतवाद्यादिहेतवे ।
अम्बिकेशाय तद् भक्त्या शक्त्या सर्वं निवेदयेत् ॥०४५॥
दानं महोत्सवं पश्चात् कुर्याद्दिनचतुष्टयं ।
त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेन् मूर्तिपैः सह ॥०४६॥
चतुर्थेहनि पूर्णाञ्च चरुकं बहुरूपिणा ।
निवेद्य सर्वकुण्डेषु सम्पाताहुतिसोधितम्8 ॥०४७॥
दिनचतुष्टयं यावत्तन्निर्माल्यन्तदूर्धतः ।
निर्माल्यापनयं कृत्वा स्नापयित्वा तु9 पूजयेत् ॥०४८॥
पूजा सामान्यलिङ्गेषु कार्या साधारणाणुभिः10 ।
:न्
[[३३३]]
विहाय लिङ्गचैतन्यं कुर्यात् स्थाणुविसर्जनं ॥०४९॥
असाधारणलिङ्गेषु क्षमस्वेति विसर्जनं ।
आवाहनमभिव्यक्तिर्विसर्गः शक्तिरूपता ॥०५०॥
प्रतिष्ठान्ते क्वचित् प्रोक्तं स्थिराद्याहुतिसप्तकं ।
स्थिरस् तथाप्रमेयश्चानादिबोधस्तथैव च ॥०५१॥
नित्योथ सर्वगश् चैवाविनाशी दृष्ट एव च2 ।
एते गुणा महेशस्य सन्निधानाय कीर्तिताः3 ॥०५२॥
ॐ नमः शिवाय स्थिरो भवेत्याहुतीनां क्रमः ।
एवमेतञ्च सम्पाद्य विधाय शिवकुम्भवत्1 ॥०५३॥
कुम्भद्वयञ्च तन्मध्यादेककुम्भाम्भसा भवं ।
संस्नाप्य तद् द्वितीयन्तु कर्तृस्नानाय धारयेत् ॥०५४॥
दत्वा बलिं समाचम्य वहिर्गच्छेत् शिवाज्ञया4 ।
जगतीवाह्यतश् चण्डमैशान्यान्दिशि मन्दिरे ॥०५५॥
धामगर्भप्रमाणे च5 सुपीठे6 कल्पितासने ।
पूर्ववन् न्यासहोमादि विधाय ध्यानपूर्वकं ॥०५६॥
संस्थाप्य विधिवत्तत्र ब्रह्माङ्गैः7 पूजयेत्ततः ।
अङ्गानि पूर्वयुक्तानि8 ब्रह्माणी त्वर्चना यथा9 ॥०५७॥
:न्
[[३३४]]
एवं सद्योजाताय ॐ ह्रूं फट्2 नमः । ॐ विं
वामदेवाय ह्रूं फट् नमः । ॐ बुं3 अघोराय ह्रूं
फट् नमः । ॐ1 तत्पुरुषाय वौमीशानाय च ह्रूं फट् ॥
जपं विवेद्य4 सन्तर्प्य विज्ञाप्य नतिपूर्वकं ।
देवः सन्निहितो यावत्तावत्त्वं सन्निधो भव ॥०५८॥
न्यूनाधिकञ्च यत्किञ्चित् कृतमज्ञानतो मया5 ।
तवत्प्रसादेन चण्डेश तत् सर्वं परिपूरय ॥०५९॥
वाणलिङ्गे वाणरोहे6 सिद्धलिङ्गे स्वयम्भुवि ।
प्रतिमासु च सर्वासु न चण्डो ऽधिकृतो भवेत् ॥०६०॥
अद्वैतभावनायुक्ते स्थण्डिलेशविधावपि7 ।
अभ्यर्च्य चण्डं ससुतं यजमानं हि भार्यया ॥०६१॥
पूर्वस्थापितकुम्भे न स्नापयेत् स्नापकः8 स्वयं ।
स्थापकं यजमानोपि सम्पूज्य च9 महेशवत्10 ॥०६२॥
वित्तशाठ्यं विना दद्याद् भूहिरण्यादि11 दक्षिणां ।
:न्
[[३३५]]
मूर्तिमान् विधिवत् पश्चात् जापकान् ब्राह्मणांस् तथा ॥०६३॥
देवज्ञं शिल्पिनं प्रार्च्य दीनानाथादि2 भोजयेत् ।
यदत्र सम्मुखीभावे स्वेदितो भगवन्मया ॥०६४॥
क्षमस्व नाथ तत् सर्वं कारुण्याम्बुनिधं मम3 ।
इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः ॥०६५॥
प्रतिष्ठापुण्यसद्भावं1 स्फुरत्तारकसप्रभं4 ।
कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत् ॥०६६॥
ततः पाशपतोपेतं5 प्रणम्य परमेश्वरं ।
ततो ऽपि बलिभिर्भूतान् सन्निधाय निबोधयेत् ॥०६७॥
स्थातव्यं भवता तावद् यावत् सन्निहितो हरः6 ।
गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपं ॥०६८॥
सर्वोपकरणं शिल्पी तथा स्नापनमण्डपं7 ।
अन्ये देवादयः स्थाप्या मन्त्रैर् आगमसम्भवैः ॥०६९॥
आदिवर्णस्य भेदाद्वा8 सुतत्त्वव्याप्तिभाविताः9 ।
साध्य10 प्रमुखदेवाश् च सरिदोषधयस् तथा ॥०७०॥
क्षेत्रपाः किन्नराद्याश् च पृथिवीतत्त्वमाश्रिताः ।
:न्
[[३३६]]
स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि क्वचित् ॥०७१॥
भुवनाधिपतीनाञ्च स्थानं यत्र व्यवस्थितिः ।
अण्डवृद्धिप्रधानान्तं त्रितत्त्वं ब्रह्मणः पदं ॥०७२॥
तन्मात्रादिप्रधानान्तं2 पदमेतत् त्रिकं हरेः3 ।
नाट्येशगणमातॄणां यक्षेशशरजन्मनां ॥०७३॥
अण्डजाः शुद्धविद्यान्तं पदं गणपतेस् तथा ।
मायांशदेशशक्त्यनतं शिवा शिवोप्तरोचिषां1 ॥०७४॥
पदमीश्वरपर्यन्तं व्यक्तार्चासु च कीर्तितं ।
कूर्माद्यं कीर्तितं यच्च यच्च रत्नादिपञ्चकं4 ॥०७५॥
प्रतिक्षिपेत् पीठगर्ते च पञ्चब्रह्मशिलां विना ।
षड्भिर्विभाजिते गर्ते5 त्यक्त्वा भावञ्च पृष्ठतः ॥०७६॥
स्थापनं पञ्चमांशे च यदि वा वसुभाजिते ।
स्थापनं सप्तमे भागे प्रतिमासु सुखावहं ॥०७७॥
धारणाभिर्विशुद्धिः स्यात् स्थापने लेपचित्रयोः ।
स्नानादि मानसन्तत्र शिलारत्नादिवेशनं6 ॥०७८॥
नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनं ।
पूजा निरम्बुभिः पुष्पैर् यथा चित्रं न दुष्यति ॥०७९॥
विधिस्तु चललिङ्गेषु सम्प्रत्येव निगद्यते ।
:न्
[[३३७]]
पञ्चभिर्वा त्रिभिर्वापि पृथक् कुर्याद्2 विभाजिते3 ॥०८०॥
भगत्रयेण भागांशो भवेद्भागद्वयेन वा ।
स्वपीठेष्वपि1 तद्वत् स्याल्लिङ्गेषु तत्त्वभेदतः ॥०८१॥
सृष्टिमन्त्रेण संस्कारो विधिवत् स्फाटिकादिषु ।
किञ्च ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनं4 ॥०८२॥
योजनं पिण्डिकायाश् च मनसा परिकल्पयेत् ।
स्वयम्भूवाणलिङ्गादौ5 संस्कृतौ नियमो न हि ॥०८३॥
स्नापनं संहितामन्त्रैर् न्यासं होमञ्च कारयेत् ।
नदीसमुद्ररोहाणां स्थापनं पूर्ववन् मतं ॥०८४॥
ऐहिकम् मृण्मयं लिङ्गं पिष्टकादि च तक्षणात्6 ।
कृत्वा सम्पूजयेच्छुद्धं सीक्षणादिविधानतः7 ॥०८५॥
समादाय ततो मन्त्रानात्मानं सन्निधाय च ।
तज्जले प्रक्षिपेल्लिङ्गं वत्सरात् कामदं भवेत् ॥०८६॥
विष्ण्वादिस्थापनं चैव पृयङ्मन्त्रैः समाचरेत् ।
{इत्य् आग्नेये महापुराणे शिवप्रतिष्ठा8 नाम सप्तनवतितमो ऽध्यायः ॥ }
:न्
[[३३८]]
-
वासुदेव दयाशील लीलया मां समुद्धर । घरोद्धारे समर्थोसि
ममोद्धारे कियञ्छ्रमः ॥ इति श्लोको ख॥ , छ॥ पुस्तकेधिकोत्रास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
दीक्षान्तञ्च समभ्यर्च्येति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
ह्रं लं ह्रं स्वाहेति ख॥ , छ॥ , च । ॐ ह्रां लं हां स्वाहेति
ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
इत्य् उक्त्वा तं समभ्यर्च्येति ख॥ , छ॥ च । इत्य् उन्मूलं समभ्यर्चेति ग॥ ।
इत्य् उच्चार्य समभ्यर्च्येति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
विरुन्ध्याद्रोधमुद्रयेति ख॥ , ग॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
प्रभारागेत्यादिः न्यसेदेकैकशः क्रमादिति पाठः,
छपुस्तके नास्ति ↩︎ ↩︎ ↩︎ -
सृष्ट्यादिविकलमिति झ॥ । सृष्ट्यादिनिष्फलमिति ख॥ , घ॥ , च । सृष्ट्यादि निष्फलमिति ग॥ , ड॥ च ↩︎
-
ततो लिङ्गे इत्य् आदिः, दिशमथाश्रयेदित्यन्तः पाठो ज॥ पुस्तके
नास्ति ↩︎