{अथ षण्णवतितमो ऽध्यायः}
अधिवासनविधिः
ईश्वर उवाच
स्नात्वा नित्यद्वयं कृत्वा1 प्रणवार्घकरो गुरुः2 ।
सहायैर् मूर्तिपैर् विप्रैः3 सह गच्छेन्मखालयं ॥००१॥
क्षान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात् ।
प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् ॥००२॥
प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ4 ।
वारुणे वृषभस्कन्दौ देवीचण्डौ ततोत्तरे5 ॥००३॥
तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ।
पर्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ6 ॥००४॥
धनदश्रीप्रदौ7 द्वौ द्वौ पूजयेदनुपूर्वशः8 ।
स्वनामभिश् चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः ॥००५॥
लोकग्रहवसुद्वाःस्थस्रवन्तीनां6 द्वयं द्वयं ।
:न्
[[३१०]]
भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस् तथा1 ॥००६॥
इति देवामखागारे2 तिष्ठन्ति प्रतितोरणं ।
विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च ॥००७॥
वज्रं शक्तिं तथा दण्डं3 खड्गं3 पाशं ध्वजं
गदां ।
त्रिशूलं चक्रमम्भोजम्पताकास्वर्चयेत्4 क्रमात् ॥००८॥
ॐ ह्रूं फट् नमः । ॐ ह्रूं फट् द्वाःस्थशक्तये
ह्रूं फट् नमः5 इत्य् आदिमन्त्रैः
कुमुदः कुमुदाक्षश् च पुण्डरीकोथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः6 सुप्रतिष्ठितः ॥००९॥
ध्वजाष्टदेवताः7 पूज्याः पूर्वादौ8 भूतकोटिभिः ।
ॐ कौं कुमुदाय नम इत्य् आदिमन्त्रैः ॥०१०॥
हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं9 यमजिह्वकं10 ।
कालं करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकं ॥०११॥
तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात् ।
:न्
[[३११]]
बलिभिः कुसुमैर् धूपैः सन्तुष्टान् परिभावयेत्1 ॥०१२॥
कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात्2 ।
पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥०१३॥
सदाशिवपदव्यापि मण्डपं3 धाम शाङ्करं ।
पताकाशक्तिसंयुक्तं4 तत्त्वदृष्ट्यावलोकयेत्5 ॥०१४॥
दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य पूर्ववत् ।
प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत्6 ॥०१५॥
प्रदक्षिणक्रमाद्गत्वा निविष्टोवेदिदक्षिणे ।
उत्तराभिमुखः कुर्याद् भूतशुद्धिं यथा पुरा ॥०१६॥
अन्तर्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं ।
कुर्वीत आत्मनः7 पूजां पञ्चगव्यादि पूर्ववत् ॥०१७॥
साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं ।
विशेषाच्छिवतत्त्वाय तत्त्वत्रयमनुक्रमात् ॥०१८॥
ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं ।
रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः8 ॥०१९॥
:न्
[[३१२]]
ॐ हं हां1
मूर्तीस्तदीश्वरांस्तत्र पूर्ववद्विनिवेशयेत् ।
तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्धनि ॥०२०॥
ब्रह्मरन्ध्रप्रविष्टेन तेजसा वाह्यसान्तरं2 ।
तमःपटलमाधूय प्रद्योतितदिगन्तरं3 ॥०२१॥
आत्मानं मूर्तिपैः सार्धं स्रग्वस्त्रकुसुमादिभिः4 ।
भूषयित्वा शिवोस्मीति ध्यात्वा बोघासिमुद्धरेत् ॥०२२॥
चतुष्पदान्तसंस्कारैः5 संस्कुर्यान्मखमण्डपं ।
विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्6 ॥०२३॥
आसनीकृत्य वर्धन्यां वास्त्वादीन् पूर्ववद्यजेत् ।
शिवकुम्भास्त्रवर्धन्यौ पूजयेच्च स्थिरासने7 ॥०२४॥
स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात् ।
वाहायुधादिसंयुक्तान् पूजयेद्विधिना यथा ॥०२५॥
ऐरावतगजारूढं स्वर्णवर्णं8 किरीटिनं ।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥०२६॥
सप्तार्चिषं च विभ्राणमक्षमालां कमण्डलुं ।
ज्वालामालाकुलं रक्तं9 शक्तिहस्तमजासनं ॥०२७॥
:न्
[[३१३]]
महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत् ।
रक्तनेत्रं स्वरारूढं1 खड्गहस्तञ्च नैरृतं ॥०२८॥
वरुणं मकरे श्वेतं नागपाशधरं स्मरेत् ।
वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं2 ॥०२९॥
त्रिशूलिनं वृषे चेशं कूर्मेनन्तन्तु चक्रिणं ।
ब्राह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं ॥०३०॥
स्तम्भमूलेषु कुम्भेषु वेद्यां धर्मादिकान्3 यजेत् ।
दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन ॥०३१॥
शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं4 ।
पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्धनीं ॥०३२॥
शिवं स्थिरासनं5 कुम्भे शस्त्रार्थञ्च6 ध्रुवासनं ।
पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया ॥०३३॥
निजयागं7 जगन्नाथ रक्ष भक्तानुकम्पया ।
एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्8 ॥०३४॥
दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डले ऽथवा ।
मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ ॥०३५॥
कुण्डनाभिं पुरस्कृत्य निनिष्ठा मूर्तिधारिणः ।
गुरोरादेशतः कुर्युर् निजकुण्डेषु9 संस्कृतिं ॥०३६॥
:न्
[[३१४]]
जपेयुर्जापिनः सङ्ख्यं1 मन्त्रमन्ये तु संहितां2 ।
पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः ॥०३७॥
श्रीसूक्तं पावमानीश् च3 मैत्रकञ्च वृषाकपिं ।
ऋग्वेदी सर्वदिग्भागे सर्वमेतत् समुच्चरेत्4 ॥०३८॥
देवव्रतन्तु भारुण्डं5 ज्येष्ठसाम रथन्तरं ।
पुरुषं गीतिमेतानि सामवेदी तु दक्षिणे ॥०३९॥
रुद्रं पुरुषसूक्तञ्च श्लोकाध्यायं विशेषतः ।
ब्राह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्6 ॥०४०॥
नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च ।
उत्तरे ऽथर्वशीर्षञ्च7 तत्परस्तु समुद्धरेत् ॥०४१॥
आचार्यश्चाग्निमुत्पाद्य प्रतिकुण्डं प्रदापयेत्8 ।
वह्नेः पूर्वादिकान् भागान्9 पूर्वकुण्डादितः10 क्रमात् ॥०४२॥
धूपदीपचरूणाञ्च ददीताग्निं समुद्धरेत्11 ।
पूर्ववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं ॥०४३॥
देशकालादिसम्पत्तौ12 दुर् निमित्तप्रशान्तये ।
:न्
[[३१५]]
होमङ्कृत्वा तु मन्त्रज्ञः पूर्णां दत्त्वा शुभावहां ॥०४४॥
पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत्1 ।
यजमानालङ्कृतास्तु व्रजेयुः स्नानमण्डपं ॥०४५॥
भद्रपीठे निधायेशं2 ताडयित्वावगुण्ठयेत् ।
स्नापयेत्3 पूजयित्वा तु मृदा काषायवारिणा ॥०४६॥
गोमूत्रैर् गोमयेनापि वारिणा चान्तरान्तरा ।
भस्मना गन्धतोयेन फडन्तास्त्रेण वारिणा ॥०४७॥
देशिको मूर्तिपैः सार्धं कृत्वा कारणशोधनं4 ।
धर्मजप्तेन सञ्छाट्य5 पीतवर्णेन वाससा ॥०४८॥
सम्पूज्य सितपुष्पैश् च6 नयेदुत्तरवेदिकां ।
तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च7 ॥०४९॥
कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत् ।
शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा8 ॥०५०॥
अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा ।
कृतकर्मा च शस्त्रेण लक्ष्मी शिल्पी समुत्क्षिपेत्9 ॥०५१॥
त्र्यंशादर्धोथ10 पादार्धादर्धाया ।
अर्धयोथवा11
:न्
[[३१६]]
सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं1 ॥०५२॥
लिङ्गदीर्घविकारांशे त्रिभक्तं भागवर्णनात्2 ।
विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य3 सर्वतः ॥०५३॥
यवस्य नवभक्तस्य भागैर् अष्टाभिरावृता6 ।
हस्तिके5 लक्ष्मरेखा च गाम्भीर्याद् विस्तरादपि7 ॥०५४॥
एवमष्टांशवृद्ध्या तु लिङ्गे सार्धकरादिके ।
भवेदष्टयवा8 पृथ्वी गम्भीरात्र च हास्तिके ॥०५५॥
एवमष्टाम्श वृद्ध्या तु लिङ्गे सार्धकरादिके ।
भवेदष्टयवा पृथ्वी गम्भीरान्नवहास्तिके6 ॥०५६॥
शाम्भवेषु10 च लिङ्गेषु पादवृद्धेषु सर्वतः11 ।
लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्धनात् ॥०५७॥
गम्भीरत्वष्टयुवाभ्यां रेखापि त्र्यंशवृद्धितः12 ।
सर्वेषु च भवेत् सूक्ष्मां लिङ्गमस्तकमस्तकं ॥०५८॥
:न्
[[३१७]]
लक्ष्मक्षेत्रेष्टधाभक्ते मूर्ध्निभागद्वये शुभे1 ।
षड्भागपरिवर्तनमुक्त्वा भागद्वयन्त्वधः2 ॥०५९॥
रेखात्रयेण सम्बद्धं3 कारयेत् पृष्टदेशगं ।
रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे ॥०६०॥
स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला ।
नयनोन्मीलनं वक्त्रे4 सान्निध्याय च लक्ष्म तत् ॥०६१॥
लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा ।
मृत्युञ्जयेन5 सम्पूज्य शिल्पिदोषनिवृत्तये ॥०६२॥
अर्चयेच्च6 ततो लिङ्गं स्नापयित्वा मृदादिभिः ।
शिल्पिनन्तोषयित्वा तु दद्याद्गां गुरवे ततः ॥०६३॥
लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रयः ।
सव्येन चापसव्येन सूत्रेणाथ कुशेन वा ॥०६४॥
स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं7 ।
गुडलवणधान्याकदानेन विसृजेच्च ताः ॥०६५॥
गुरुमूर्तिधरैः8 सार्धं हृदा वा प्रणवेन वा ।
मृत्स्नागोमयगोमूत्रभस्मभिः9 सलिलान्तरं ॥०६६॥
स्नापयेत् पञ्चगव्येन पञ्चामृतपुरःसरं10 ।
:न्
[[३१८]]
विरूक्षणं कषायैश् च सर्वौषधिजलेन वा ॥०६७॥
शुभ्रपुष्पफलस्वर्णरत्नशृङ्गयवोदकैः1 ।
तथा धारासहस्रेण दिव्यौषधिजलेन च2 ॥०६८॥
तीर्थोदकेन गाङ्गेन चन्दनेन च वारिणा ।
क्षीरार्णवादिभिः3 कुम्भैः शिवकुम्भजलेन च4 ॥०६९॥
विरूक्षणं विलेपञ्च5 सुगन्धैश् चन्दनादिभिः ।
सम्पूज्य ब्रह्मभिः6 पुष्पैर् वर्मणा रक्तचीवरैः7 ॥०७०॥
रक्तरूपेण8 नीराज्य रक्षातिलकपूर्वकं ।
घृतौषधैर् जलदुग्धैश् च कुशाद्यैर् अर्घ्यसूचितैः ॥०७१॥
द्रव्यैः स्तुत्यादिभिस्तुष्टमर्चयेत्9 पुरुषाणुना10 ।
समाचम्य11 हृदा देवं ब्रूयादुत्थीयतां प्रभो ॥०७२॥
देवं ब्रह्मरथेनैव क्षिप्रं द्रव्याणि तन्नयेत्12 ।
मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत् ॥०७३॥
शक्त्यादिशक्तिपर्यन्ते12 विन्यसेदासने शुभे ।
:न्
[[३१९]]
पश्चिमे पिण्डिकान्तस्य न्यसेद्ब्रह्मशलान्तदा1 ॥०७४॥
शस्त्रमस्त्र2 शतालब्धनिद्राकुम्भध्रुवासनं3 ।
प्रकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ॥०७५॥
उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं ।
समारोप्य न्यसेत्तस्मिन्4 सृष्ट्या धर्मादिवन्दनं5 ॥०७६॥
दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा ।
गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः6 ॥०७७॥
घृतक्षौद्रयुतं पात्रमभ्यङ्गाय पदान्तिके ।
देशिकश् च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं7 ॥०७८॥
शक्त्यादिभूमिपर्यन्तं स्वतत्त्वाधिपसंयुतं ।
विन्यस्य पुष्पमालाभिस्त्रिखण्डं8 परिकल्पयेत् ॥०७९॥
मायापदेशशक्त्यन्तन्तुर्याशाष्टांशवर्तुलं9 ।
तत्रात्मतत्त्वविद्याख्यं10 शिवं सृष्टिक्रमण तु11 ॥०८०॥
एकशः प्रतिभागेषु ब्रह्मविष्णुहराधिपान् ।
विन्यस्य मूर्तिमूर्तीशान् पूर्वादिक्रमतो यथा ॥०८१॥
क्ष्मावह्निर्यजमानार्कजलवायुनिशाकरान् ।
:न्
[[३२०]]
आकाशमूर्तिरूपांस्तान् न्यसेत्तदधिनायकान् ॥०८२॥
सर्वं पशुपतिं1 चोग्रं रुद्रं भवमखेश्वरं2 ।
महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे ॥०८३॥
लवशषचयसाश् च हकारश् च त्रिमात्रिकः ।
प्रणवो हृदयार्णुर्वा मूलमन्त्रो ऽथवा क्वचित् ॥०८४॥
पञ्चकुण्डात्मके यागे3 मूर्तीः पञ्चाथवा न्यसेत् ।
पृथिवीजलतेजांसि वायुमाकाशमेव च ॥०८५॥
क्रमात्तदधिपान् पञ्च4 ब्रह्माणं धरणोधरं ।
रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित्5 ॥०८६॥
मुमुक्षोर्वा निवृत्ताद्याः6 अजाताद्यास्तदीश्वराः7 ।
त्रितत्त्वं वाथ8 सर्वत्र न्यसेद्व्याप्त्यात्मकारणं9 ॥०८७॥
शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः ।
द्रष्टव्या मूर्तिपाश् चैव भोगिनी मन्त्रनायकाः ॥०८८॥
पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं ।
एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो10 यथा ॥०८९॥
ॐ हां शक्तितत्त्वाय नम इत्य् आदि11 । ॐ हां
शक्तितत्त्वाधिपाय12 नम इत्य् आदि । ॐ हां क्ष्मामूर्तये
नमः । ॐ हां क्ष्मामूर्त्यधीशाय13
:न्
[[३२१]]
शिवाय नम इत्य् आदि । ॐ हां पृथिवीमूर्तये नमः । ॐ
हां मूर्त्यधिपाय1 ब्रह्मणे नम इत्य् आदि । ॐ हां
शिवतत्त्वाधिपाय2 रुद्राय नम इत्य् आदि
नाभिकन्दात्समुच्चार्य घण्टानादविसर्पणं3 ।
ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रितं ॥०९०॥
मन्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं ।
द्वादशान्तात्समानीय निष्कलं4 व्यापकं शिवं ॥०९१॥
अष्टत्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलं ।
सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे5 निवेशयेत् ॥०९२॥
जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ।
पिण्डिकादिषु तु न्यासः6 प्रोच्यते साम्प्रतं यथा ॥०९३॥
पिण्डिकाञ्च कृतस्नानां7 विलिप्ताञ्चन्दनादिभिः ।
सद्वस्त्रैश् च समाच्छाद्य8 रन्ध्रे च भगलक्षणे ॥०९४॥
पञ्चरत्नादिसंयुक्तां9 लिङ्गस्योत्तरतः स्थितां ।
लिङ्गवत्कृतविन्यासां10 विधिवत्सम्प्रपूजयेत् ॥०९५॥
कृतस्नानादिकान्तत्र लिङ्गमूले शिलां11 न्यसेत् ।
कृतस्नानादिसंस्कारं शक्त्यन्तं वृषभं तथा ॥०९६॥
:न्
[[३२२]]
प्रणवपूर्वं हुं पूं ह्रीं1 मध्यादन्यतमेन च ।
क्रियाशक्तियुतां पिण्डीं शिलामाधररूपिणीं ॥०९७॥
भस्मदर्भतिलैः कुर्यात् प्राकारत्रितयन्ततः ।
रक्षायै लोकपालांश् च सायुधान्याजयेद्वहिः2 ॥०९८॥
ॐ हूं ह्रं3 क्रियाशक्तये नमः । ॐ हूं ह्रां
हः4 महागौरी रुद्रदयिते स्वाहेति च5 पिण्डिकायां । ॐ
हां6 आधारशक्तये नमः । ॐ हां वृषभाय
नमः
धारिकां दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः ।
तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः ॥०९९॥
वामा ज्येष्ठा क्रिया ज्ञाना7 बेधा तिस्रीथवा न्यसेत् ।
क्रियाज्ञाना तथेच्छा च8 पूर्ववच्छान्तिमूर्तिषु ॥१००॥
तमो मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः9 ।
पञ्च चाथ महामोहा घोरा च त्रितयज्वरा ॥१०१॥
:न्
[[३२३]]
तिस्रोथवा क्रियाज्ञाना1 तथा बाधाधिनायिका ।
आत्मादित्रिषु2 तत्त्वेषु तीव्रमूर्तिषु विन्यसेत् ॥०१०२॥
अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि ।
गौर्यादिसंवरैर् एव3 पूर्ववत् सर्वमाचरेत्4 ॥०१०३॥
एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः ।
कुण्डमध्ये महेशानं मेखलासु महेश्वरं ॥०१०४॥
क्रियाशक्तिं तथान्यासु नादमोष्ठे च5 विन्यसेत् ।
घटं स्थण्डिलवह्नीशैः6 नाडीसन्धानकन्ततः7 ॥०१०५॥
पद्मतन्तुसमां शक्तिमुद्वातेन समुद्यतां8 ।
विशन्ती सूर्यमार्गेण निःसरन्तीं समुद्गतां9 ॥०१०६॥
पुनश् च शून्यमार्गेण10 विशतीं स्वस्य चिन्तयेत् ।
एवं सर्वत्र सन्धेयं मूर्तिपैश् च परस्परं ॥०१०७॥
सम्पूज्य धारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात् ।
तत्त्वतत्त्वेश्वरा मुर्तीर्मूर्तीर्शांश् च11 घृतादिभिः12 ॥०१०८॥
सम्पूज्य तर्पयित्वा तु सन्निधौ संहिताणुभिः13 ।
:न्
[[३२४]]
शतं सहस्रमर्धं वा पूर्णया सह होमयेत्1 ॥१०९॥
तत्त्वतत्त्वेश्वरा मूर्तिर्मूर्तीशांश् च करेणुकान्2 ।
तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्तिपा अपि ॥११०॥
ततो ब्रह्मभिरङ्गैश् च3 द्रव्यकालानुरोधतः ।
सन्तर्प्य शक्तिं कुम्भाम्भःप्रोक्षिते4 कुशमूलतः ॥१११॥
लिङ्गमूलं च संस्पृश्य5 जपेयुर्होमसङ्ख्यया ।
सन्निधानं हृदा कुर्युर्वर्मणा चावगुण्ठनं ॥११२॥
एवं संशोध्य ब्रह्मादि6 विष्ण्वन्तादि विशुद्धये ।
विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम् ॥११३॥
कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत् ।
यथा यथा च सन्धानं तदिदानीमिहोच्यते ॥११४॥
ॐ हां हं ॐ ॐ ॐ एं ॐ भूं भूं वाह्यमूर्तये
नमः7
:न्
[[३२५]]
ओ हां वां आं ॐ आं षां ॐ भूं भूं वा1
वह्निमूर्तये नमः
एवञ्च यजमानादिमूर्तिभिरभिसन्धेयं2 ।
पञ्चमूर्त्यात्मकेप्येवं सन्धानं हृदयादिभिः ॥११५॥
मूलेन स्वीयवीजैर् वा ज्ञेयन्तत्त्वत्रयात्मके3 ।
शिलापिण्डो वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः4 ॥११६॥
भागाभागविशुद्ध्यर्थं होमं कुर्याच्छतादिकं5 ।
न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं ॥११७॥
हुत्वाथ6 यत् कृतं कर्म शिवश्रोत्रे7 निवेदयेत् ।
एतत्समन्वितं8 कर्म त्वच्छक्तौ च मया प्रभो ॥११८॥
ॐ नमः भगवते रुद्राय रुद्र नमोस्तु ते9।
विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य10 गृह्यतां ॥११९॥
ॐ ह्रीं11 शाङ्करि पूरय12 स्वाहा इति पिण्डिकायां ।
अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे ॥१२०॥
आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि ।
निबध्य13 सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं ॥१२१॥
:न्
[[३२६]]
एकरात्रमथो वापि यद्वा सद्योधिवासनं1 ।
विनाधिवासनं यागः कृतो ऽपि फलप्रदः ॥१२२॥
स्वमन्त्रैः प्रत्यहं देयमाहुतीनां शतं शतं ।
शिवकुम्भादिपूजाञ्च दिग्बिलञ्च निवेदयेत् ॥१२३॥
गुर्वादिसहितो वासो2 रात्रौ नियमपूर्वकम् ।
अधिवासः स वसतेवधेर्भावः समीरितः ॥१२४॥
{इत्य् आग्नेये महापुराणे अधिवासनविधिर्नाम षण्णवतितमो ऽध्यायः }
-
नित्यक्रियां कृत्वेति ङ्। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
प्रणवार्घ्यकरो मुनिरिति ग॥ । पुनरर्घ्यकरो मुनिरिति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
सहायैर् ऋत्विग्विप्रैश्चेति ख॥ , घ॥ च । सहायैर् भूपतिविप्रैर् इति
ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
भृङ्गविनायकाविति छ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
वृषोत्तरे इति ग॥ , घ॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
भूतसञ्जीवनासुतौ इति छ॥ । भूतसञ्जीवनामृतौ इति ख॥ , ज॥
च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
धनदद्विपदौ इति ख॥ । धनदौ द्विपदौ इति घ॥ । धनदश्चापदौ इति
ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
पूजयेदथ पूर्वश इति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
लोकग्रहवसुद्वाःस्थहस्तादीनामिति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
आचार्यश्चाग्निमुत्पाद्येत्यादिः ददीताग्निं समुद्धरेदित्यन्तः
पाठो ग॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎