०९६ शिवलिङ्गाधिवासनविधिः

{अथ षण्णवतितमो ऽध्यायः}

अधिवासनविधिः

ईश्वर उवाच
स्नात्वा नित्यद्वयं कृत्वा1 प्रणवार्घकरो गुरुः2
सहायैर् मूर्तिपैर् विप्रैः3 सह गच्छेन्मखालयं ॥००१॥
क्षान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात् ।
प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् ॥००२॥
प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ4
वारुणे वृषभस्कन्दौ देवीचण्डौ ततोत्तरे5 ॥००३॥
तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ।
पर्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ6 ॥००४॥
धनदश्रीप्रदौ7 द्वौ द्वौ पूजयेदनुपूर्वशः8
स्वनामभिश् चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः ॥००५॥
लोकग्रहवसुद्वाःस्थस्रवन्तीनां6 द्वयं द्वयं ।

:न्

[[३१०]]

भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस् तथा1 ॥००६॥
इति देवामखागारे2 तिष्ठन्ति प्रतितोरणं ।
विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च ॥००७॥
वज्रं शक्तिं तथा दण्डं3 खड्गं3 पाशं ध्वजं
गदां ।
त्रिशूलं चक्रमम्भोजम्पताकास्वर्चयेत्4 क्रमात् ॥००८॥

ॐ ह्रूं फट् नमः । ॐ ह्रूं फट् द्वाःस्थशक्तये
ह्रूं फट् नमः5 इत्य् आदिमन्त्रैः
कुमुदः कुमुदाक्षश् च पुण्डरीकोथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः6 सुप्रतिष्ठितः ॥००९॥
ध्वजाष्टदेवताः7 पूज्याः पूर्वादौ8 भूतकोटिभिः ।
ॐ कौं कुमुदाय नम इत्य् आदिमन्त्रैः ॥०१०॥
हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं9 यमजिह्वकं10
कालं करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकं ॥०११॥
तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात् ।

:न्

[[३११]]

बलिभिः कुसुमैर् धूपैः सन्तुष्टान् परिभावयेत्1 ॥०१२॥
कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात्2
पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥०१३॥
सदाशिवपदव्यापि मण्डपं3 धाम शाङ्करं ।
पताकाशक्तिसंयुक्तं4 तत्त्वदृष्ट्यावलोकयेत्5 ॥०१४॥
दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य पूर्ववत् ।
प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत्6 ॥०१५॥
प्रदक्षिणक्रमाद्गत्वा निविष्टोवेदिदक्षिणे ।
उत्तराभिमुखः कुर्याद् भूतशुद्धिं यथा पुरा ॥०१६॥
अन्तर्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं ।
कुर्वीत आत्मनः7 पूजां पञ्चगव्यादि पूर्ववत् ॥०१७॥
साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं ।
विशेषाच्छिवतत्त्वाय तत्त्वत्रयमनुक्रमात् ॥०१८॥
ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं ।
रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः8 ॥०१९॥

:न्

[[३१२]]

ॐ हं हां1
मूर्तीस्तदीश्वरांस्तत्र पूर्ववद्विनिवेशयेत् ।
तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्धनि ॥०२०॥
ब्रह्मरन्ध्रप्रविष्टेन तेजसा वाह्यसान्तरं2
तमःपटलमाधूय प्रद्योतितदिगन्तरं3 ॥०२१॥
आत्मानं मूर्तिपैः सार्धं स्रग्वस्त्रकुसुमादिभिः4
भूषयित्वा शिवोस्मीति ध्यात्वा बोघासिमुद्धरेत् ॥०२२॥
चतुष्पदान्तसंस्कारैः5 संस्कुर्यान्मखमण्डपं ।
विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्6 ॥०२३॥
आसनीकृत्य वर्धन्यां वास्त्वादीन् पूर्ववद्यजेत् ।
शिवकुम्भास्त्रवर्धन्यौ पूजयेच्च स्थिरासने7 ॥०२४॥
स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात् ।
वाहायुधादिसंयुक्तान् पूजयेद्विधिना यथा ॥०२५॥
ऐरावतगजारूढं स्वर्णवर्णं8 किरीटिनं ।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥०२६॥
सप्तार्चिषं च विभ्राणमक्षमालां कमण्डलुं ।
ज्वालामालाकुलं रक्तं9 शक्तिहस्तमजासनं ॥०२७॥

:न्

[[३१३]]

महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत् ।
रक्तनेत्रं स्वरारूढं1 खड्गहस्तञ्च नैरृतं ॥०२८॥
वरुणं मकरे श्वेतं नागपाशधरं स्मरेत् ।
वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं2 ॥०२९॥
त्रिशूलिनं वृषे चेशं कूर्मेनन्तन्तु चक्रिणं ।
ब्राह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं ॥०३०॥
स्तम्भमूलेषु कुम्भेषु वेद्यां धर्मादिकान्3 यजेत् ।
दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन ॥०३१॥
शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं4
पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्धनीं ॥०३२॥
शिवं स्थिरासनं5 कुम्भे शस्त्रार्थञ्च6 ध्रुवासनं ।
पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया ॥०३३॥
निजयागं7 जगन्नाथ रक्ष भक्तानुकम्पया ।
एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्8 ॥०३४॥
दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डले ऽथवा ।
मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ ॥०३५॥
कुण्डनाभिं पुरस्कृत्य निनिष्ठा मूर्तिधारिणः ।
गुरोरादेशतः कुर्युर् निजकुण्डेषु9 संस्कृतिं ॥०३६॥

:न्

[[३१४]]

जपेयुर्जापिनः सङ्ख्यं1 मन्त्रमन्ये तु संहितां2
पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः ॥०३७॥
श्रीसूक्तं पावमानीश् च3 मैत्रकञ्च वृषाकपिं ।
ऋग्वेदी सर्वदिग्भागे सर्वमेतत् समुच्चरेत्4 ॥०३८॥
देवव्रतन्तु भारुण्डं5 ज्येष्ठसाम रथन्तरं ।
पुरुषं गीतिमेतानि सामवेदी तु दक्षिणे ॥०३९॥
रुद्रं पुरुषसूक्तञ्च श्लोकाध्यायं विशेषतः ।
ब्राह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्6 ॥०४०॥
नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च ।
उत्तरे ऽथर्वशीर्षञ्च7 तत्परस्तु समुद्धरेत् ॥०४१॥
आचार्यश्चाग्निमुत्पाद्य प्रतिकुण्डं प्रदापयेत्8
वह्नेः पूर्वादिकान् भागान्9 पूर्वकुण्डादितः10 क्रमात् ॥०४२॥
धूपदीपचरूणाञ्च ददीताग्निं समुद्धरेत्11
पूर्ववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं ॥०४३॥
देशकालादिसम्पत्तौ12 दुर् निमित्तप्रशान्तये ।

:न्

[[३१५]]

होमङ्कृत्वा तु मन्त्रज्ञः पूर्णां दत्त्वा शुभावहां ॥०४४॥
पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत्1
यजमानालङ्कृतास्तु व्रजेयुः स्नानमण्डपं ॥०४५॥
भद्रपीठे निधायेशं2 ताडयित्वावगुण्ठयेत् ।
स्नापयेत्3 पूजयित्वा तु मृदा काषायवारिणा ॥०४६॥
गोमूत्रैर् गोमयेनापि वारिणा चान्तरान्तरा ।
भस्मना गन्धतोयेन फडन्तास्त्रेण वारिणा ॥०४७॥
देशिको मूर्तिपैः सार्धं कृत्वा कारणशोधनं4
धर्मजप्तेन सञ्छाट्य5 पीतवर्णेन वाससा ॥०४८॥
सम्पूज्य सितपुष्पैश् च6 नयेदुत्तरवेदिकां ।
तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च7 ॥०४९॥
कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत् ।
शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा8 ॥०५०॥
अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा ।
कृतकर्मा च शस्त्रेण लक्ष्मी शिल्पी समुत्क्षिपेत्9 ॥०५१॥
त्र्यंशादर्धोथ10 पादार्धादर्धाया ।

अर्धयोथवा11

:न्

[[३१६]]

सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं1 ॥०५२॥
लिङ्गदीर्घविकारांशे त्रिभक्तं भागवर्णनात्2
विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य3 सर्वतः ॥०५३॥
यवस्य नवभक्तस्य भागैर् अष्टाभिरावृता6
हस्तिके5 लक्ष्मरेखा च गाम्भीर्याद् विस्तरादपि7 ॥०५४॥
एवमष्टांशवृद्ध्या तु लिङ्गे सार्धकरादिके ।
भवेदष्टयवा8 पृथ्वी गम्भीरात्र च हास्तिके ॥०५५॥
एवमष्टाम्श वृद्ध्या तु लिङ्गे सार्धकरादिके ।
भवेदष्टयवा पृथ्वी गम्भीरान्नवहास्तिके6 ॥०५६॥
शाम्भवेषु10 च लिङ्गेषु पादवृद्धेषु सर्वतः11
लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्धनात् ॥०५७॥
गम्भीरत्वष्टयुवाभ्यां रेखापि त्र्यंशवृद्धितः12
सर्वेषु च भवेत् सूक्ष्मां लिङ्गमस्तकमस्तकं ॥०५८॥

:न्

[[३१७]]

लक्ष्मक्षेत्रेष्टधाभक्ते मूर्ध्निभागद्वये शुभे1
षड्भागपरिवर्तनमुक्त्वा भागद्वयन्त्वधः2 ॥०५९॥
रेखात्रयेण सम्बद्धं3 कारयेत् पृष्टदेशगं ।
रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे ॥०६०॥
स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला ।
नयनोन्मीलनं वक्त्रे4 सान्निध्याय च लक्ष्म तत् ॥०६१॥
लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा ।
मृत्युञ्जयेन5 सम्पूज्य शिल्पिदोषनिवृत्तये ॥०६२॥
अर्चयेच्च6 ततो लिङ्गं स्नापयित्वा मृदादिभिः ।
शिल्पिनन्तोषयित्वा तु दद्याद्गां गुरवे ततः ॥०६३॥
लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रयः ।
सव्येन चापसव्येन सूत्रेणाथ कुशेन वा ॥०६४॥
स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं7
गुडलवणधान्याकदानेन विसृजेच्च ताः ॥०६५॥
गुरुमूर्तिधरैः8 सार्धं हृदा वा प्रणवेन वा ।
मृत्स्नागोमयगोमूत्रभस्मभिः9 सलिलान्तरं ॥०६६॥
स्नापयेत् पञ्चगव्येन पञ्चामृतपुरःसरं10

:न्

[[३१८]]

विरूक्षणं कषायैश् च सर्वौषधिजलेन वा ॥०६७॥
शुभ्रपुष्पफलस्वर्णरत्नशृङ्गयवोदकैः1
तथा धारासहस्रेण दिव्यौषधिजलेन च2 ॥०६८॥
तीर्थोदकेन गाङ्गेन चन्दनेन च वारिणा ।
क्षीरार्णवादिभिः3 कुम्भैः शिवकुम्भजलेन च4 ॥०६९॥
विरूक्षणं विलेपञ्च5 सुगन्धैश् चन्दनादिभिः ।
सम्पूज्य ब्रह्मभिः6 पुष्पैर् वर्मणा रक्तचीवरैः7 ॥०७०॥
रक्तरूपेण8 नीराज्य रक्षातिलकपूर्वकं ।
घृतौषधैर् जलदुग्धैश् च कुशाद्यैर् अर्घ्यसूचितैः ॥०७१॥
द्रव्यैः स्तुत्यादिभिस्तुष्टमर्चयेत्9 पुरुषाणुना10
समाचम्य11 हृदा देवं ब्रूयादुत्थीयतां प्रभो ॥०७२॥
देवं ब्रह्मरथेनैव क्षिप्रं द्रव्याणि तन्नयेत्12
मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत् ॥०७३॥
शक्त्यादिशक्तिपर्यन्ते12 विन्यसेदासने शुभे ।

:न्

[[३१९]]

पश्चिमे पिण्डिकान्तस्य न्यसेद्ब्रह्मशलान्तदा1 ॥०७४॥
शस्त्रमस्त्र2 शतालब्धनिद्राकुम्भध्रुवासनं3
प्रकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ॥०७५॥
उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं ।
समारोप्य न्यसेत्तस्मिन्4 सृष्ट्या धर्मादिवन्दनं5 ॥०७६॥
दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा ।
गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः6 ॥०७७॥
घृतक्षौद्रयुतं पात्रमभ्यङ्गाय पदान्तिके ।
देशिकश् च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं7 ॥०७८॥
शक्त्यादिभूमिपर्यन्तं स्वतत्त्वाधिपसंयुतं ।
विन्यस्य पुष्पमालाभिस्त्रिखण्डं8 परिकल्पयेत् ॥०७९॥
मायापदेशशक्त्यन्तन्तुर्याशाष्टांशवर्तुलं9
तत्रात्मतत्त्वविद्याख्यं10 शिवं सृष्टिक्रमण तु11 ॥०८०॥
एकशः प्रतिभागेषु ब्रह्मविष्णुहराधिपान् ।
विन्यस्य मूर्तिमूर्तीशान् पूर्वादिक्रमतो यथा ॥०८१॥
क्ष्मावह्निर्यजमानार्कजलवायुनिशाकरान् ।

:न्

[[३२०]]

आकाशमूर्तिरूपांस्तान् न्यसेत्तदधिनायकान् ॥०८२॥
सर्वं पशुपतिं1 चोग्रं रुद्रं भवमखेश्वरं2
महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे ॥०८३॥
लवशषचयसाश् च हकारश् च त्रिमात्रिकः ।
प्रणवो हृदयार्णुर्वा मूलमन्त्रो ऽथवा क्वचित् ॥०८४॥
पञ्चकुण्डात्मके यागे3 मूर्तीः पञ्चाथवा न्यसेत् ।
पृथिवीजलतेजांसि वायुमाकाशमेव च ॥०८५॥
क्रमात्तदधिपान् पञ्च4 ब्रह्माणं धरणोधरं ।
रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित्5 ॥०८६॥
मुमुक्षोर्वा निवृत्ताद्याः6 अजाताद्यास्तदीश्वराः7
त्रितत्त्वं वाथ8 सर्वत्र न्यसेद्व्याप्त्यात्मकारणं9 ॥०८७॥
शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः ।
द्रष्टव्या मूर्तिपाश् चैव भोगिनी मन्त्रनायकाः ॥०८८॥
पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं ।
एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो10 यथा ॥०८९॥
ॐ हां शक्तितत्त्वाय नम इत्य् आदि11 । ॐ हां
शक्तितत्त्वाधिपाय12 नम इत्य् आदि । ॐ हां क्ष्मामूर्तये
नमः । ॐ हां क्ष्मामूर्त्यधीशाय13

:न्

[[३२१]]

शिवाय नम इत्य् आदि । ॐ हां पृथिवीमूर्तये नमः । ॐ
हां मूर्त्यधिपाय1 ब्रह्मणे नम इत्य् आदि । ॐ हां
शिवतत्त्वाधिपाय2 रुद्राय नम इत्य् आदि
नाभिकन्दात्समुच्चार्य घण्टानादविसर्पणं3
ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रितं ॥०९०॥
मन्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं ।
द्वादशान्तात्समानीय निष्कलं4 व्यापकं शिवं ॥०९१॥
अष्टत्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलं ।
सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे5 निवेशयेत् ॥०९२॥
जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ।
पिण्डिकादिषु तु न्यासः6 प्रोच्यते साम्प्रतं यथा ॥०९३॥
पिण्डिकाञ्च कृतस्नानां7 विलिप्ताञ्चन्दनादिभिः ।
सद्वस्त्रैश् च समाच्छाद्य8 रन्ध्रे च भगलक्षणे ॥०९४॥
पञ्चरत्नादिसंयुक्तां9 लिङ्गस्योत्तरतः स्थितां ।
लिङ्गवत्कृतविन्यासां10 विधिवत्सम्प्रपूजयेत् ॥०९५॥
कृतस्नानादिकान्तत्र लिङ्गमूले शिलां11 न्यसेत् ।
कृतस्नानादिसंस्कारं शक्त्यन्तं वृषभं तथा ॥०९६॥

:न्

[[३२२]]

प्रणवपूर्वं हुं पूं ह्रीं1 मध्यादन्यतमेन च ।
क्रियाशक्तियुतां पिण्डीं शिलामाधररूपिणीं ॥०९७॥
भस्मदर्भतिलैः कुर्यात् प्राकारत्रितयन्ततः ।
रक्षायै लोकपालांश् च सायुधान्याजयेद्वहिः2 ॥०९८॥

ॐ हूं ह्रं3 क्रियाशक्तये नमः । ॐ हूं ह्रां
हः4 महागौरी रुद्रदयिते स्वाहेति च5 पिण्डिकायां । ॐ
हां6 आधारशक्तये नमः । ॐ हां वृषभाय
नमः
धारिकां दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः ।
तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः ॥०९९॥
वामा ज्येष्ठा क्रिया ज्ञाना7 बेधा तिस्रीथवा न्यसेत् ।
क्रियाज्ञाना तथेच्छा च8 पूर्ववच्छान्तिमूर्तिषु ॥१००॥
तमो मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः9
पञ्च चाथ महामोहा घोरा च त्रितयज्वरा ॥१०१॥

:न्

[[३२३]]

तिस्रोथवा क्रियाज्ञाना1 तथा बाधाधिनायिका ।
आत्मादित्रिषु2 तत्त्वेषु तीव्रमूर्तिषु विन्यसेत् ॥०१०२॥
अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि ।
गौर्यादिसंवरैर् एव3 पूर्ववत् सर्वमाचरेत्4 ॥०१०३॥
एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः ।
कुण्डमध्ये महेशानं मेखलासु महेश्वरं ॥०१०४॥
क्रियाशक्तिं तथान्यासु नादमोष्ठे च5 विन्यसेत् ।
घटं स्थण्डिलवह्नीशैः6 नाडीसन्धानकन्ततः7 ॥०१०५॥
पद्मतन्तुसमां शक्तिमुद्वातेन समुद्यतां8
विशन्ती सूर्यमार्गेण निःसरन्तीं समुद्गतां9 ॥०१०६॥
पुनश् च शून्यमार्गेण10 विशतीं स्वस्य चिन्तयेत् ।
एवं सर्वत्र सन्धेयं मूर्तिपैश् च परस्परं ॥०१०७॥
सम्पूज्य धारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात् ।
तत्त्वतत्त्वेश्वरा मुर्तीर्मूर्तीर्शांश् च11 घृतादिभिः12 ॥०१०८॥
सम्पूज्य तर्पयित्वा तु सन्निधौ संहिताणुभिः13

:न्

[[३२४]]

शतं सहस्रमर्धं वा पूर्णया सह होमयेत्1 ॥१०९॥
तत्त्वतत्त्वेश्वरा मूर्तिर्मूर्तीशांश् च करेणुकान्2
तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्तिपा अपि ॥११०॥
ततो ब्रह्मभिरङ्गैश् च3 द्रव्यकालानुरोधतः ।
सन्तर्प्य शक्तिं कुम्भाम्भःप्रोक्षिते4 कुशमूलतः ॥१११॥
लिङ्गमूलं च संस्पृश्य5 जपेयुर्होमसङ्ख्यया ।
सन्निधानं हृदा कुर्युर्वर्मणा चावगुण्ठनं ॥११२॥
एवं संशोध्य ब्रह्मादि6 विष्ण्वन्तादि विशुद्धये ।
विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम् ॥११३॥
कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत् ।
यथा यथा च सन्धानं तदिदानीमिहोच्यते ॥११४॥

ॐ हां हं ॐ ॐ ॐ एं ॐ भूं भूं वाह्यमूर्तये
नमः7

:न्

[[३२५]]

ओ हां वां आं ॐ आं षां ॐ भूं भूं वा1
वह्निमूर्तये नमः
एवञ्च यजमानादिमूर्तिभिरभिसन्धेयं2
पञ्चमूर्त्यात्मकेप्येवं सन्धानं हृदयादिभिः ॥११५॥
मूलेन स्वीयवीजैर् वा ज्ञेयन्तत्त्वत्रयात्मके3
शिलापिण्डो वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः4 ॥११६॥
भागाभागविशुद्ध्यर्थं होमं कुर्याच्छतादिकं5
न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं ॥११७॥
हुत्वाथ6 यत् कृतं कर्म शिवश्रोत्रे7 निवेदयेत् ।
एतत्समन्वितं8 कर्म त्वच्छक्तौ च मया प्रभो ॥११८॥
ॐ नमः भगवते रुद्राय रुद्र नमोस्तु ते9
विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य10 गृह्यतां ॥११९॥
ॐ ह्रीं11 शाङ्करि पूरय12 स्वाहा इति पिण्डिकायां ।
अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे ॥१२०॥
आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि ।
निबध्य13 सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं ॥१२१॥

:न्

[[३२६]]

एकरात्रमथो वापि यद्वा सद्योधिवासनं1
विनाधिवासनं यागः कृतो ऽपि फलप्रदः ॥१२२॥
स्वमन्त्रैः प्रत्यहं देयमाहुतीनां शतं शतं ।
शिवकुम्भादिपूजाञ्च दिग्बिलञ्च निवेदयेत् ॥१२३॥
गुर्वादिसहितो वासो2 रात्रौ नियमपूर्वकम् ।
अधिवासः स वसतेवधेर्भावः समीरितः ॥१२४॥

{इत्य् आग्नेये महापुराणे अधिवासनविधिर्नाम षण्णवतितमो ऽध्यायः }


  1. नित्यक्रियां कृत्वेति ङ्। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. प्रणवार्घ्यकरो मुनिरिति ग॥ । पुनरर्घ्यकरो मुनिरिति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. सहायैर् ऋत्विग्विप्रैश्चेति ख॥ , घ॥ च । सहायैर् भूपतिविप्रैर् इति
    ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. भृङ्गविनायकाविति छ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. वृषोत्तरे इति ग॥ , घ॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. भूतसञ्जीवनासुतौ इति छ॥ । भूतसञ्जीवनामृतौ इति ख॥ , ज॥
    च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. धनदद्विपदौ इति ख॥ । धनदौ द्विपदौ इति घ॥ । धनदश्चापदौ इति
    ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. पूजयेदथ पूर्वश इति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. लोकग्रहवसुद्वाःस्थहस्तादीनामिति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. अजजिह्वकमिति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  11. आचार्यश्चाग्निमुत्पाद्येत्यादिः ददीताग्निं समुद्धरेदित्यन्तः
    पाठो ग॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  12. देशकालादिसङ्ख्याप्तौ इति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  13. शक्त्यादिमूर्तिपर्यन्ते इति ख॥ , घ॥ , ज॥ च ↩︎ ↩︎ ↩︎