०९५ शिवलिङ्गप्रतिष्ठासामग्री

{अथ पञ्चनवतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

प्रतिष्ठा सामग्रीविधानं

ईश्वर उवाच
वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां ।
ताश् चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति ॥००१॥

मूलम्

विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके ।

:न्

[[३०२]]

विश्वास-प्रस्तुतिः

गुरुशुक्रोदये कार्या प्रथमे करणेत्रये ॥००२॥

शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं1
चतुर्थीं नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं ॥००३॥

शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः ।
शतभिषा धनिष्ठार्द्रा अनुरोधोत्तरत्रयं2 ॥००४॥

रोहिणी श्रवणश्चेति3 स्थिरारम्भे महोदयाः ।
लग्नञ्च कुम्भसिंहालितुलास्त्रीवृषधन्विनां ॥००५॥

शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा ।
बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुं4 शितः ॥००६॥

सप्तर्तुत्रिदशादिस्थः5 शशाङ्कोबलदः सदा6
रविर्दशत्रिषट्संस्थो राहुस्त्रिदशषड्गतः ॥००७॥

षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः ।
शुभ्राः क्रूरश् च पापाश् च सर्व एकादशस्थिताः ॥००८॥

एषां दृष्टिर्मुनौ पूर्णा7 त्वार्धिकी ग्रहभूतयोः ।
पादिकी रामदिक्स्थाने चतुरष्टौ8 पादवर्जिता ॥००९॥

पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः ।
वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः ॥०१०॥

मकरो मिथुनं पञ्च चापालिहरिकर्कटाः ।
पादीनाः षट् तुलाकन्ये घटिकाः सार्धपञ्च च ॥०११॥

[[३०३]]

विश्वास-प्रस्तुतिः

केशरी वृषभः कुम्भः स्थिराः स्युः सिद्धिदायकाः ।
चरा धनुस्तुलामेषा द्विःस्वभावास्तृतीयकाः1 ॥०१२॥

शुभः2 शुभग्रहैर् दृष्टः शस्तो लग्नः
शुभाश्रितः3
गुरुशुक्रबुधे युक्तो लग्नो दद्याद्बलायुधी4 ॥०१३॥

राज्यं शौर्यं5 बलं पुत्रान् यशोधर्मादिकं बहु ।
प्रथमः सप्तमस्तुर्यो दशमः केन्द्र उच्यते ॥०१४॥

गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रसादकाः ।
त्र्येकादशचतुर्थस्था6 लग्नात् पापग्रहाः शुभाः ॥०१५॥

अतोप्यनीचकर्माथं7 योज्यास्तिथ्यादयो बुधैः ।
धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां8 ॥०१६॥

हस्ताद् द्वादशसोपानात्9 कुर्यान्मण्डमग्रतः ।
चतुरस्रं चतुर्द्वारं स्नानार्थन्तु10 तदर्धतः ॥०१७॥

एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा11
हास्तिको दशहस्तो वै मण्डपोर्ककरो ऽथवा ॥०१८॥

द्विहस्तोत्तरया वृद्ध्या[^१२] शेषं स्यान्मण्डपाष्टकं ।

:न्

[[३०४]]

विश्वास-प्रस्तुतिः

वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता1 ॥०१९॥

वेदीपादान्तरं त्यक्त्वा2 कुण्डानि नव पञ्च वा ।
एकं वा शिवकाष्ठायां3 प्राच्यां वा तद्गुरोः परं ॥०२०॥

मुष्टिमात्रं शतार्धे स्याच्छते चारत्रिमात्रकं4
हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं5 ॥०२१॥

लक्षे चतुष्कारं कुण्डं कोटिहोमे ऽष्टहस्तकं ।
भगाभमग्नौ6 खण्डेन्दु दक्षे त्र्यस्रञ्च नैरृते ॥०२२॥

षडस्रं वायवे पद्मं7 सौम्ये चाष्टास्रकं शिवे ।
तिर्यक्पातशिवं खातमूर्ध्वं8 मेखलया सह ॥०२३॥

तद्वहिर्मेखलास्तिस्रो वेदवह्नियमाङ्गुलैः9
अङ्गुलैः षड्भिरेका वा कुण्डाकारास्तु मेखलाः ॥०२४॥

तासामुपरि योनिः स्यान्मध्ये ऽश्वत्थदलाकृतिः ।
उच्छ्रायेणाङ्गुलं तस्माद्विस्तारेणाङ्गुलाष्टकं10 ॥०२५॥

दैर्घ्यं कुण्डार्धमानेन कुण्डकण्ठसमो ऽधरः ।
पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना ॥०२६॥

पूर्वानना तु शेषाणामैशान्ये ऽन्यतरा तयोः ।

:न्

[[३०५]]

विश्वास-प्रस्तुतिः

कुण्डानां यश् चतुर्विंशो भागः सोङ्गुल इत्य् अतः ॥०२७॥

प्लक्षोदुम्वरकाश्वत्थवटजास्तोरणाः क्रमात् ।
शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात् ॥०२८॥

पञ्चषट्सप्तहस्तानि हस्तखातस्थितानि च ।
तदर्धविस्तराणि स्युर्युतान्याम्रदलादिभिः ॥०२९॥

इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा ।
शुक्लाभा1 हेमवर्णा च पताका स्फाटिकोपमा ॥०३०॥

पूर्वादितोब्जजे2 रक्ता नीलानन्तस्य3 नैरृते ।
पञ्चहस्तास्तदर्धाश् च ध्वजा दीर्घाश् च विस्तराः ॥०३१॥

हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः ।
वल्मीकाद्दन्तिदन्ताग्रात्तथा4 वृषभशृङ्गतः ॥०३२॥

पद्मषण्डाद्वराहाञ्च गोष्ठादपि चतुष्पथात् ।
मृत्तिका द्वादश ग्राह्या वैकुण्ठेष्टौ पिनाकिनि ॥०३३॥

न्यग्रोधोदुम्वराश्वत्थचूतजम्वुत्वगुद्भवं ।
कषायपञ्चकं ग्राह्यमार्तवञ्च फलाष्टकं ॥०३४॥

तीर्थाम्भांसि सुगन्धीनि5 तथा सर्वौषधीजलं ।
शस्तं पुष्पफलं वक्ष्ये रत्नगोशृङ्गवारि6 च ॥०३५॥

स्नानायापाहरेत्7 पञ्च पञ्चगव्यामृतं तथा ।
पिष्टनिर्मितवस्त्रादिद्रव्यं निर्मञ्जनाय8 च ॥०३६॥

[[३०६]]

विश्वास-प्रस्तुतिः

सहस्रशुषिरं कुम्भं मण्डलाय च रोचना1
शतमोषधिमूलानां विजया लक्ष्मणा बला ॥०३७॥

मूलम्

सहस्रशुषिरं कुम्भं मण्डलाय च रोचना1
शतमोषधिमूलानां विजया लक्ष्मणा बला ॥०३७॥

विश्वास-प्रस्तुतिः

गुडूच्यतिबला पाठा सहदेवा शतावरी ।
ऋद्धिः2 सुवर्चसा3 वृद्धिः स्नाने प्रोक्ता पृथक् पृथक् ॥०३८॥

रक्षायै तिलदर्भौघो4 भस्मस्नानन्तु केवलं ।
यवगोधूमविल्वानां5 चूर्णानि च विचक्षणः ॥०३९॥

विलेपनं6 सकर्पूरं स्नानार्थं कुम्भगण्डकान्7
खट्वाञ्च तूलिकायुग्मं सोपधानं सवस्त्रकं ॥०४०॥

कुर्याद्वित्तानुसारेण शयने लक्ष्यकल्पने8
घृतक्षौद्रयुतं पात्रं कुर्यात् स्वर्णशलाकिकां ॥०४१॥

वर्धनीं शिवकुम्भञ्च लोकपालघटानपि ।
एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्ख्यया9 ॥०४२॥

द्वारपालादिधर्मादिप्रशान्तादिघटानपि ।
वस्तुलक्ष्मीगणेशानां कलशानपरानपि ॥०४३॥

मूलम्

द्वारपालादिधर्मादिप्रशान्तादिघटानपि ।
वस्तुलक्ष्मीगणेशानां कलशानपरानपि ॥०४३॥

धान्यपुञ्जकृताधारान् सवस्त्रान्[^१०] स्रग्विभूषितान् ।

:न्

कुम्भसण्डकानिति छ॥ । कुम्भखण्डकानिति ज॥

[[३०७]]

विश्वास-प्रस्तुतिः

सहिरण्यान् समालब्धान् गन्धपानीयपूरितान् ॥०४४॥

पूर्णपात्रफलाधारान्1 पल्लवाद्यान्2 सलक्षणान् ।
वस्त्रैर् आच्छादयेत् कुम्भानाहरेद्गौरसर्षपान् ॥०४५॥

विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत् ।
सापिधानां चरुस्थालीं दर्वीं च ताम्रनिर्मितां3 ॥०४६॥

घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा ।
विष्टरांस्त्रिशतादर्भदलैर् बाहुप्रमाणकान्4 ॥०४७॥

चतुरश् चतुरस्तद्वत् पालाशान् परिधीनपि ।
तिलपात्रं हविःपात्रमर्धपात्रं पवित्रकं ॥०४८॥

फलविंशाष्टमानानि घटो धूपप्रदानकं5
श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं ॥०४९॥

पुष्पं पत्रं गुग्ग्लञ्च घृतैर् दौपांश् च धूपकं ।
अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान् ॥०५०॥

कुशाः शान्त्यै त्रिमधुरं समिधो दशपर्विकाः ।
बाहुमात्रश्रुवं हस्तम्6 अर्कादिग्रहशान्तये ॥०५१॥

समिधो ऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः7
उदुम्वरशमीदूर्वाकुशोत्थाः शतमष्ट च ॥०५२॥

तदभावे यवतिला गृहोपकरणं तथा ।
स्थालीदर्वीपिधानादि देवादिभ्यो ऽंशुकद्वयं ॥०५३॥

मुद्रामुकुटवासांसि हारकुण्डलकङ्कणान् ।

:न्

[[३०८]]

विश्वास-प्रस्तुतिः

कुर्यादाचार्यपूजार्थं1 वित्तशाठ्यं विवर्जयेत् ॥०५४॥

तत्पादपादहीना च मूर्तिभृदस्त्रजापिनां2
पूजा स्याज्जापिभिस्तुल्या3 विप्रदैवज्ञशिल्पिनां ॥०५५॥

वज्रार्कशान्तौ4 नीलातिनीलमुक्ताफलानि च5
पुष्पपद्मादिरागञ्च वैदूर्यं रत्नमष्टमं6 ॥०५६॥

उषीरमाधवक्रान्तारक्तचन्दनकागुरुं ।
श्रीखण्डं सारिकङ्कुष्ठं7 शङ्क्षिनी ह्य्
ओषधीगुणः8 ॥०५७॥

मूलम्

उषीरमाधवक्रान्तारक्तचन्दनकागुरुं ।
श्रीखण्डं सारिकङ्कुष्ठं7 शङ्क्षिनी ह्य्
ओषधीगुणः8 ॥०५७॥

विश्वास-प्रस्तुतिः

हेमताम्रमयं रक्तं राजतञ्च9 सकांस्यकं ।
शीसकञ्चेति लोहानि हरितालं मनःशिला ॥०५८॥

मूलम्

हेमताम्रमयं रक्तं राजतञ्च9 सकांस्यकं ।
शीसकञ्चेति लोहानि हरितालं मनःशिला ॥०५८॥

विश्वास-प्रस्तुतिः

गैरिकं हेममाक्षीकं पारदो10 वह्निगैरिकं ।
गन्धकाभ्रकमित्यष्टौ11 धातवो ब्रीहयस् तथा ॥०५९॥

गोधूमान् सतिलान्माषान्मुद्गानप्याहरेद्यवान् ।
नीवारान् श्यामकानेवं ब्रीहयो ऽप्यष्ट कीर्तिताः ॥०६०॥

{इत्य् आग्नेये महापुराणे प्रतिष्ठासामग्री नाम पञ्चनवतितमो ऽध्यायः ॥ }

:न्

[[३०९]]

  1. मुदा इति ख॥ छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. कामदे देवीति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. जयेत्रेत्यर्धश्लोकः छ॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. ॐ जय एनं सदेति ख॥ छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. मम इति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. रक्तातिरक्तदोषघ्न इति छ॥ । रक्तात्रिरक्तदोषघ्ने इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. सन्तिष्ठास्मिन्नीशरूपिणीति घ॥ । शर्परूपिणीति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. तत्त्वे तत्त्वत्रयमिति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. सर्वदा मुक्तौ देवादेवे ग्रहे सतीति घ॥ । सर्वदा मुक्त्यै भुक्त्यै
    दैवदिने सतीति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. स्नानार्हं चेति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  11. प्राच्युतरे तथेति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎