०९४ प्रासादशिलान्यासः

{अथ चतुर्णवतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

शिलाविन्यासविधानं

ईश्वर उवाच
ईशादिषु चरक्याद्याः1 पूर्ववत् पूजयेद्वहिः ।
आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात् ॥००२॥

मूलम्

दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् ।
मध्यसूत्रे2 न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं3 ॥००३॥

नकारारूढमूलेन कुम्भे ऽस्मिन् धारयेच्छिलां ।
कुम्भानष्टौ सभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ॥००४॥

लोकपालाणुभिर्न्यस्य[^८] श्वभ्रेषु[^६] न्यस्तशक्तिषु ।

:न्

[[३००]]

विश्वास-प्रस्तुतिः

शिलास्तेष्वथ4 नन्दाद्याः क्रमेण5 विनियोजयेत् ॥००५॥

शम्बरैर् मूर्तिनाथानां6 यथा स्युर्भित्तिमध्यतः ।
तासु धर्मादिकानष्टौ7 कोणात् कोणं विभागशः1 ॥००६॥

सुभद्रादिषु नन्दाद्याश् चतस्रो ऽग्न्यादिकोणगाः ।
अजिताद्याश् च पूर्वादिजयादिष्वथ2 विन्यसेत् ॥००७॥

ब्रह्माणं चोपरि मस्य3 व्यापकं च महेश्वरं ।
चिन्तयेदेषु चाधानं व्योमप्रसादमध्यगं ॥००८॥

बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं8
शिलापञ्चकपक्षे ऽपि मनागुद्दिश्यते यथा ॥००९॥

मध्ये पूर्णशिलान्यासः9 सुभद्रकलशे ऽर्धतः ।
पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् ॥०१०॥

मध्यभावे10 चतस्रो ऽपि मातृवद्भावसम्मताः ।
ॐ पूर्णे त्वं महाविश्वे11 सर्वसन्दोहलक्षणे ॥०११॥

सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।
ॐ नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ॥०१२॥

प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं ।
आयुः कामं श्रियन्नन्दे देहि वासिष्ठ देहिनां12 ॥०१३॥

[[३०१]]

विश्वास-प्रस्तुतिः

अस्मिन् रक्षा सदा4 कार्या प्रासादे यत्नतस्त्वया ।
ॐ भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ॥०१४॥

आयुर्दा कामदा देवि5 श्रीप्रदा च सदा भव ।
ॐ जये ऽत्र सर्वदा देवि श्रीदा।अयुर्दा च सदा भव6 ॥०१५॥

ॐ जये ऽत्र सर्वदा7 देवि तिष्ठ त्वं स्थापिता मय1
नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ॥०१६॥

ॐ रिक्ते ऽतिरिक्तदोषघ्ने2 सिद्धिमुक्तिप्रदे शुभं ।
सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि3 ॥०१७॥

गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं8 न्यसेत् ।
प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ॥०१८॥

{इत्य् आदिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमो ऽध्यायः ॥ }

  1. ईशाद्यादिषु ब्रह्माद्या इति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. मध्ये श्वभ्र इति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. कुम्भञ्चानन्तमन्तिकमिति घ॥ , छ॥ च । कुम्भञ्चानन्तमन्तिममिति
    ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. खातारम्भे समं पृष्ठे इति ङ॥ । खातो बालोः समः
    पृष्ठे इति छ॥ ↩︎ ↩︎ ↩︎ ↩︎

  5. निवेशेनेति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  6. परं हस्तप्रमानत इति छ॥ ↩︎ ↩︎ ↩︎ ↩︎

  7. सर्वद इति ख॥ , घ॥ , छ॥ च । सर्वश इति ग॥ , च ↩︎ ↩︎ ↩︎ ↩︎

  8. लोकपालात्मभिर्न्यस्येदिति ख॥ , छ॥ च । लोकपालाणुभिर्न्यस्येदिति
    ङ॥ ↩︎ ↩︎ ↩︎ ↩︎

  9. सूत्रेष्विति क॥ । कुम्भेष्विति ग॥ ↩︎ ↩︎

  10. मध्याभावे इति ख॥ , ग॥ च ↩︎ ↩︎

  11. महाभागे इति ग॥ ↩︎ ↩︎

  12. देहि मामिति ख॥ , छ॥ च । देहि न इति घ॥ ↩︎ ↩︎