०९३ वास्तुपूजा

{अथ त्रिनवतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

वास्तुपूजादिविधानम्

ईश्वर उवाच
ततः प्रासादमासूत्र्य वर्तयेद्वास्तुमण्डपं1
कुर्यात् कोष्ठचतुःषष्टिं क्षेत्रे वेदास्रके समे ॥००१॥

मूलम्

कोणेषु विन्यसेद् वंशौ[^६] रज्जवो ऽष्टौ विकोणगाः ।

:न्

[[२९५]]

विश्वास-प्रस्तुतिः

द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्चयेद् यथा ॥००२॥

आकुञ्चितकचं2 वास्तुमुत्तानमसुराकृतिं3
स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननं ॥००३॥

जानुनी कूर्परौ शक्थि दिशि वातहुताशयोः ।
पैत्र्यां पादपुटे रौद्र्यां शिरो ऽस्य हृदये ऽञ्जलिः ॥००४॥

अस्य देहे समारूढा देवताः पूजिताः शुभाः ।
अष्टौ कोणाधिपास्तत्र कोणार्धेष्वष्टसु स्थिताः4 ॥००५॥

षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात् ।
मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः5 स्मृताः ॥००६॥

समस्तनाडीसंयोगे महामर्मानुजं फलं ।
त्रिशूलं स्वस्तिकं वज्रं1 महास्वस्तिकसम्पुटौ ॥००७॥

त्रिकुटुं6 मणिबन्धं च सुविशुद्धं पदं तथा ।
इति द्वादश मर्माणि वास्तोर्भित्त्यादिषु त्यजेत् ॥००८॥

साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं ।
ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलां7 ॥००९॥

रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं ।
सत्याय घृतगोधूममाज्यभक्तं भृशाय च ॥०१०॥

विमांसमन्तरीक्षाय शुक्तुन्तेभ्यस्तु पूर्वतः ।
मधुक्षीराज्यसम्पूर्णां प्रदद्याद्वह्नये श्रुचं ॥०११॥

लाजान् पूर्णं सुवर्णाम्बु वितथाय निवेदयेत् ।

:न्

[[२९६]]

विश्वास-प्रस्तुतिः

दद्याद् गृहक्षते क्षौद्रं2 यमराजे पलौदनं3 ॥०१२॥

गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणः ।
मृगाय पद्मपर्णानि4 याम्यामित्यष्टदेवताः5 ॥०१३॥

पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं ।
दौवारिकाय देवाय प्रदद्याद् धेनुमुद्रया1 ॥०१४॥

सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्भकं ।
रक्तं प्रचेतसे पद्ममसुराय8 सुरासवं ॥०१५॥

घृतं गुडौदनं शेषे रोगाय घृतमण्डकान् ।
लाजान् वा पश्चिमाशायां देवाष्टकमितीरितं ॥०१६॥

मारुताय ध्वजं पीतं नागाय नागकेशरं ।
मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतं ॥०१७॥

सोमाय पायसं साज्यं शालूकमूषये7 दिशेत् ।
लोपीमदितये दित्यै पुरीमित्युत्तराष्टकं9 ॥०१८॥

मोदकान् ब्रह्मणः प्राच्यां षट्पादाय मरीचये ।
सवित्रे रक्तपुष्पाणि वह्न्यधःकोणकोष्ठके ॥०१९॥

तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकं6
दक्षिणे चन्दनं10 रक्तं षट्पदाय विवस्वते ॥०२०॥

हरिद्रौदनमिन्द्राय रक्षोधःक्रीणकोष्ठके ।

:न्

[[२९७]]

विश्वास-प्रस्तुतिः

इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत् ॥०२१॥

वरुण्यां षट्पदासीने मित्रे सङुडमोदनं ।
रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे ॥०२२॥

तदधो रुद्रदासाय मासं मार्गमथोत्तरे ।
ददीत माषनैवेद्यं2 षट्पदस्थे धराधरे3 ॥०२३॥

आपाय शिवकोणाधः तद्वत्साय च तत्स्थले4
क्रमाद्दद्याद्दधिक्षीरं पूजयित्वा विधानतः ॥०२४॥

चतुष्पदे निविष्टाय ब्रह्मणे मध्मदेशतः ।
पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत् ॥०२५॥

ईशादिवायुपर्यन्तकोणेष्वथ यथाक्रमं ।
वास्तुवाह्ये चरक्याद्याश् चतस्रः पूजयेद् यथा ॥०२६॥

चरक्यै5 सघृतं मांसं विदार्यै1 दधिपङ्कजे ।
पूतनायै पलं पित्तं रुधिरं च निवेदयेत् ॥०२७॥

अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च ।
ततो माषौदनं8 प्राच्यां स्कन्दाय विनिवेदयेत् ॥०२८॥

अर्यम्णे दक्षिणाशायां पूपान् कृसरया युतान् ।
जम्भकाय7 च वारुण्यामामिषं रुधिरान्वितं ॥०२९॥

उदीच्यां पिलिपिञ्जाय9 रक्तान्नं कुसुमानि च ।
यजेद्वा सकलं वास्तुं कुशदध्यक्षतेर्जलैः ॥०३०॥

[[२९८]]

विश्वास-प्रस्तुतिः

गृहे च नगरादौ च एकाशीतिपदैर् यजेत् ।
त्रिपदा रज्जवः कार्याः षट्पदाश् च विकोणके ॥०३१॥

ईशाद्याः पादिकास्तस्मिन्नागद्याश् च द्विकोष्ठगाः2
षट्पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः ॥०३२॥

नगरग्रामखेटादौ वास्तुः शतपदो ऽपि3 वा ।
वंशद्वयं कोणगतं दुर्जयं दुर्धरं सदा ॥०३३॥

यथा देवालये न्यसस् तथा शतपदे हितः ।
ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश् चैव षट्पदाः ॥०३४॥

चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत् ।
देशसंस्थापने4 वास्तु चतुस्त्रिंशच्छतं5 भवेत् ॥०३५॥

चतुःषष्टिपदो1 ब्रह्मा मरीच्याद्याश् च देवताः ।
चतुःपञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः ॥०३६॥

ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः8 स्मृताः ।
चरक्याद्यास्तद्वदेव रज्जुवंशादि पूर्ववत्7 ॥०३७॥

ज्ञेयो वंशसहस्रैस्तु वास्तुमण्डलगः पदैः ।
न्यासो नवगुणस्तत्र कर्तव्यो देशवास्तुवित् ॥०३८॥

पञ्चचिंशत्पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः ।
अन्यो नवपदो वास्तुः षोडशाङ्घ्रिस् तथापरः ॥०३९॥

षडस्रत्र्यस्रवृत्तादेर्मध्ये स्याच्चतुरस्रकं ।

:न्

[[२९९]]

विश्वास-प्रस्तुतिः

खाते वास्तोः समं पृष्ठे2 न्यासे ब्रह्मशिलात्मके ॥०४०॥

शाषाकस्य निवेशे च3 मूर्तिसंस्थापने तथा ।
पायसेन तु नैवेद्यं सर्वेषां वा प्रदापयेत् ॥०४१॥

उक्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः ।
गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा5 ॥०४२॥

{इत्य् आदिमहपुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमो ऽध्यायः ॥ }

  1. वास्तुमण्डलमिति ग। ङ॥ । तत इति श्लोकार्धं घ॥ पुस्तके
    नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. ॐ इं उं इति घ॥ , ङ्। च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. पञ्चगव्येन संसिक्तान् इति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. न्यूनादिदोषनाशार्थमिति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. यजेदस्रेण शुद्ध्यर्थमाहुतीनामिति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. सवित्रे च कुशोदकमिति ग॥ ↩︎ ↩︎ ↩︎ ↩︎

  7. ददीतेति अर्धश्लोको ग॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. विन्यसेद्वंशमिति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. पुरीमित्यवराष्टकमिति ग॥ ↩︎ ↩︎ ↩︎ ↩︎

  10. सावित्र्यै चन्दनमिति ग॥ ↩︎ ↩︎