०९२ पातालशिलान्यासः

{अथ द्विनवतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

प्रतिष्ठाविधिकथनं

ईश्वर उवाच
प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्क्षेपतो गुह ।
पीठं शक्तिं शिवो लिङ्गं तद्योगः सा शिवाणुभिः ॥००१॥

मूलम्

प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते ।
यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः ॥००२॥

स्थापनन्तु यथायोगं पीठ एव निवेशनं ।
प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते ॥००३॥

उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा ।
यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः ॥००४॥

:न्

[[२८८]]

विश्वास-प्रस्तुतिः

आथापनं तदुद्दिष्टं द्विधा विष्ण्वादिकस्य च1
आसु सर्वासु चैतन्यं नियुञ्जीत परं शिवम् ॥००५॥

यदाधारादिभेदेन2 प्रासादेष्वपि पञ्चधा ।
परीक्षमथ मेदिन्याः कुर्यात्प्रासादकाम्यया ॥००६॥

शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी3
पीता कृष्णा सुरागन्धा विप्रादीनां मही क्रमात् ॥००७॥

पूर्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते4
आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत् ॥००८॥

उत्तमान्तां महीं विद्यात्तोयाद्यैर् वा समुक्षितां ।
अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः5 ॥००९॥

नगरग्रामदुर्गार्थं गृहप्रासादकारणं6
खननैर् गोकुलावासैः कर्षणैर् वा मुहुर्मुहुः ॥०१०॥

मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं7
कर्म निर्वर्त्याघोरास्त्रं सहस्रं8 विधिना यजेत् ॥०११॥

समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः ।
स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत9 प्रदक्षिणं ॥०१२॥

मध्यादीशानकोष्टस्थे पूर्णकुम्भे10 शिवं यजेत् ।
वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकं ॥०१३॥

[[२८९]]

विश्वास-प्रस्तुतिः

बाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलं क्षिपेत् ।
भूमिं संसिच्य संस्नाप्य1 कुद्दालाद्यं2 प्रपूजयेत् ॥०१४॥

अन्यं वस्त्रयुगच्छज्ञं कुम्भं स्कन्धे द्विजन्मनः ।
निधाय गीतवाद्यादिब्रह्मगोषसमाकुलं ॥०१५॥

पूजां कुम्भे समाहृत्य प्राप्ते लग्ने ऽग्निकोष्ठके ।
कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत् ॥०१६॥

नैरृत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् ।
पुरस्य पूर्वसीमन्तं3 नयेद् यावदभीप्सितं ॥०१७॥

अथ तत्र क्षणं स्थित्वा भ्रामयेत्4 परितः पुरं ।
सिञ्चन् सीमन्तचिह्नानि यावदीशानगोचरं ॥०१८॥

अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिब्रमात् ।
इत्थं परिग्रहं भूमेः कुर्वीत तदनन्तरं ॥०१९॥

कर्करान्तं जलान्तं वा शल्यदोषजिघांसया ।
खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत् ॥०२०॥

अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु5
अग्नेर्ध्वजादिपातिताः स्वस्थाने शल्यमाख्यान्ति ॥०२१॥

कर्तुश्चाङ्गविकारेण जानीयात्तत्प्रमाणतः ।
पश्वादीनां प्रवेशेन कीर्तनैर् विरुतैर् दिशः ॥०२२॥

मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत् ।
शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः6 क्रमात् ॥०२३॥

अवर्गे चैव लोहन्तु कवर्गे ऽङ्गारमग्नितः ।

:न्

[[२९०]]

विश्वास-प्रस्तुतिः

चवर्गे भस्म दक्षे स्याट् टवर्गे ऽस्थि च नैरृते ॥०२४॥

तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके ।
यवर्गे शवकीतादि शवर्गे लोहमादिशेत् ॥०२५॥

हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि ।
प्रीक्ष्यात्मभिः करापूरैर् अष्टाङ्गुलमृदन्तरैः ॥०२६॥

पादोनं खातमापूर्य सजलैर् मुद्गराहतैः1
लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः ॥०२७॥

सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यामाणकं ।
तोरणद्वाःपतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत् ॥०२८॥

कुर्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं ।
कलसं वर्धनीसक्तं2 लोकपालशिवार्चनं ॥०२९॥

अग्नेर्जननपूजादि सर्वं पूर्ववदाचरेत् ।
यजमानान्वितो3 यायाच्छिलानां स्नानमण्डपं ॥०३०॥

शिलाः प्रासादलिङ्गस्य पादधर्मादिसञ्ज्ञकाः ।
अष्टाङ्गुलोच्छ्रिताः शस्ताश् चतुरस्राः करायताः ॥०३१॥

पाषाणानां शिलाः कार्या इष्टकानां तदर्धतः ।
प्रासादे ऽश्मशिलाः शैले इष्टका इष्टकामये ॥०३२॥

अङ्किता नववक्त्राद्यैः4 पङ्कजाः पङ्कजाङ्किताः ।
नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता5 ॥०३३॥

आसां पद्मो महापद्मः शङ्खो ऽथ मकरस् तथा ।
समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमाधः ॥०३४॥

नन्दा भद्रा जया पूर्णा अजिता चापराजिता ।

:न्

[[२९१]]

विश्वास-प्रस्तुतिः

विजया मङ्गलाख्या च धरणी नवमी शिला ॥०३५॥

मूलम्

विजया मङ्गलाख्या च धरणी नवमी शिला ॥०३५॥

विश्वास-प्रस्तुतिः

सुभद्रश् च विभद्रश् च सुनन्दः पुष्पनन्दकः1
जयो ऽथ विजयश् चैव कुम्भः पूर्णस्तथोत्तरः2 ॥०३६॥

नवानान्तु यथासङ्ख्यं निधिकुम्भः पूर्णस्तथोत्तरः2
आसनं प्रथमं दत्त्वा3 ताड्योल्लिख्य
शराणुना4॥०३७॥

सर्वासामविशेषेण तनुत्रेणावगुण्ठनं5
मृद्भिर्गोमययोगामूत्रकषायैर् गन्धवारिणा ॥०३८॥

अस्त्रेण हूं फडन्तेन6 मलस्नानं समाचरेत् ।
विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च ॥०३९॥

गन्धतोयान्तरं कुर्यान्निजनामाङ्किताणुना7
फलरत्नसुवर्णानां गोशृङ्गसलिलैस्ततः ॥०४०॥

चन्दनेन समालभ्य8 वस्त्रैर् आच्छादयेच्छिलां ।
स्वर्णोत्थमासनं दत्वा नीत्वा यागं प्रदक्षिणं ॥०४१॥

शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्9
सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं ॥०४२॥

त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत् ।
बुद्ध्यादौ चित्तपर्यन्ते चिन्तातन्मात्रकावधौ10 ॥०४३॥

[[२९२]]

विश्वास-प्रस्तुतिः

तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः ।
तत्त्वानि निजमन्त्रेण तत्त्वेशांश् च हृदार्चयेत् ॥०४४॥

स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं ।

ॐ हूं1 शिवतत्त्वाय नमः । ॐ हूं2 शिवतत्त्वाधिपतये

विश्वास-प्रस्तुतिः

रुद्राय नमः । ॐ हां विद्यातत्त्वाय नमः । ॐ हां3
विद्यातत्त्वाधिपाय4 विष्णवे नमः । ॐ हां आत्मतत्त्वाय
नमः । ॐ हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः5
क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च ॥०४५॥

प्रतितत्त्वं न्यसेदष्टौ मूर्तीः प्रतिशिलां शिलां ।
सर्वं पशुपतिं चोग्रं6 रुद्रं भवमथेश्वरं7 ॥०४६॥

महादेवं च भीमं च मूर्तीशांश् च यथाक्रमात् ।
ॐ धरामूर्तये नमः, ॐ धराधिपतये नमः,
इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः8 ॥०४७॥

विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर् वा निजाणुभिः9
इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु ॥०४८॥

लूं रूं शूं पूं वूं यूं मूं हूं
क्षूमिति10
उक्तो नवशिलापक्षः शिला पञ्चपदा तथा ।

:न्

१,२ ॐ ह्रं इति ग॥ , घ॥ च

८,९ निजात्मभिरिति ख॥ , ग॥ । विन्यस्येत्यर्धश्लोको ग॥ पुस्तके नास्ति

[[२९३]]

विश्वास-प्रस्तुतिः

प्रतितत्त्वं न्यसेन्मूर्तीः सृष्ट्या पञ्च धरादिकाः ॥०४९॥

ब्रह्मा विष्णुस् तथा रुद्र ईश्वरश् च सदाशिवः ।
एते च पञ्च मूर्तीशा यष्टव्यास्तासु1 पूर्ववत् ॥०५०॥

ॐ पृथ्वीमूर्तये नमः । ॐ पृथ्वीमूर्त्यधिपतये
ब्रह्मणे नमः । इत्य् आदि मन्त्राः
सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः ।
निरुन्धीत2 विधानेन न्यासो मध्यशिलाक्रमात् ॥०५१॥

कुर्यात् प्राकारमन्त्रेण भूतिदर्भैस्ततः ।
कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् ॥०५२॥

तत्त्वतत्त्वाधिपान् मूर्तीर्मूर्तीशांश् च3 घृतादिभिः ।
ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात् ॥०५३॥

कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः
शिलाः4
पूजयेच्च कुशैः स्पृष्ट्वा प्रतितत्त्वमनुक्रमात् ॥०५४॥

सान्निध्यमथ सन्धानं कृत्वा शुद्धं5 पुनर्न्यसेत्6
एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् ॥०५५॥

ॐ आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः[^७] इति ।

:न्

[[२९४]]

विश्वास-प्रस्तुतिः

संस्पृशेद् दर्भमूलाद्यैर् ब्रह्माङ्गादित्रयं क्रमात् ।
कुर्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः ॥०५६॥

ॐ हां उं1 विद्यातत्त्वशिवतत्त्वाभ्यां नमः ।
घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् ।०५७।
पञ्चगव्यार्घ्यर्ससिक्तान्2 लोकपालाधिदैवतान् ॥०५७॥

पूजयित्वा निजैर् मन्त्रैः सन्निधौ होममाचरेत् ।
शिलानामथ सर्वासां संस्मरेदधिदैवताः ॥०५८॥

विद्यारूपाः कृतस्नाना हेमवार्णाः शिलाम्बराः ।
न्यूनादिदोषमोषार्थं3 वास्तुभूमेश् च शुद्धये ।०५९।
यजेदस्त्रेण मूर्धान्तमाहुतीनां4 शतं शतं ॥०५९॥

{इत्य् आदिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमो ऽध्यायः ॥ }

  1. तथा क्षौ ह्रौ मन्त्राः सूर्यस्येति ग, घ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. यथाधाराभिभेदेनेति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. रक्तगन्धानुगन्धीति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. प्रशस्यते इति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. शोधयेत्ध्रुवमिति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. नगरग्रामेत्यर्धश्लोको घ। पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. मन्त्रदीप्त्यवसानकमिति ग॥ । मन्त्रभूम्यवसानकमिति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. निर्वर्त्य घोरास्त्रं महास्त्रमिति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. रेखां प्रकुर्वीतेति ख॥ ,ग॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. स्वर्णकुण्डे इति ग॥ । स्वर्णकुम्भे इति घ॥ , ङ॥ , च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎