{अथ द्विनवतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
प्रतिष्ठाविधिकथनं
ईश्वर उवाच
प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्क्षेपतो गुह ।
पीठं शक्तिं शिवो लिङ्गं तद्योगः सा शिवाणुभिः ॥००१॥
मूलम्

प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते ।
यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः ॥००२॥

स्थापनन्तु यथायोगं पीठ एव निवेशनं ।
प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते ॥००३॥

उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा ।
यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः ॥००४॥

:न्
[[२८८]]
विश्वास-प्रस्तुतिः
आथापनं तदुद्दिष्टं द्विधा विष्ण्वादिकस्य च1 ।
आसु सर्वासु चैतन्यं नियुञ्जीत परं शिवम् ॥००५॥

यदाधारादिभेदेन2 प्रासादेष्वपि पञ्चधा ।
परीक्षमथ मेदिन्याः कुर्यात्प्रासादकाम्यया ॥००६॥

शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी3 ।
पीता कृष्णा सुरागन्धा विप्रादीनां मही क्रमात् ॥००७॥

पूर्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते4 ।
आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत् ॥००८॥

उत्तमान्तां महीं विद्यात्तोयाद्यैर् वा समुक्षितां ।
अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः5 ॥००९॥

नगरग्रामदुर्गार्थं गृहप्रासादकारणं6 ।
खननैर् गोकुलावासैः कर्षणैर् वा मुहुर्मुहुः ॥०१०॥

मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं7 ।
कर्म निर्वर्त्याघोरास्त्रं सहस्रं8 विधिना यजेत् ॥०११॥

समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः ।
स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत9 प्रदक्षिणं ॥०१२॥

मध्यादीशानकोष्टस्थे पूर्णकुम्भे10 शिवं यजेत् ।
वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकं ॥०१३॥

[[२८९]]
विश्वास-प्रस्तुतिः
बाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलं क्षिपेत् ।
भूमिं संसिच्य संस्नाप्य1 कुद्दालाद्यं2 प्रपूजयेत् ॥०१४॥

अन्यं वस्त्रयुगच्छज्ञं कुम्भं स्कन्धे द्विजन्मनः ।
निधाय गीतवाद्यादिब्रह्मगोषसमाकुलं ॥०१५॥

पूजां कुम्भे समाहृत्य प्राप्ते लग्ने ऽग्निकोष्ठके ।
कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत् ॥०१६॥

नैरृत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् ।
पुरस्य पूर्वसीमन्तं3 नयेद् यावदभीप्सितं ॥०१७॥

अथ तत्र क्षणं स्थित्वा भ्रामयेत्4 परितः पुरं ।
सिञ्चन् सीमन्तचिह्नानि यावदीशानगोचरं ॥०१८॥

अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिब्रमात् ।
इत्थं परिग्रहं भूमेः कुर्वीत तदनन्तरं ॥०१९॥

कर्करान्तं जलान्तं वा शल्यदोषजिघांसया ।
खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत् ॥०२०॥

अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु5 ।
अग्नेर्ध्वजादिपातिताः स्वस्थाने शल्यमाख्यान्ति ॥०२१॥

कर्तुश्चाङ्गविकारेण जानीयात्तत्प्रमाणतः ।
पश्वादीनां प्रवेशेन कीर्तनैर् विरुतैर् दिशः ॥०२२॥

मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत् ।
शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः6 क्रमात् ॥०२३॥

[[२९०]]
विश्वास-प्रस्तुतिः
चवर्गे भस्म दक्षे स्याट् टवर्गे ऽस्थि च नैरृते ॥०२४॥

तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके ।
यवर्गे शवकीतादि शवर्गे लोहमादिशेत् ॥०२५॥

हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि ।
प्रीक्ष्यात्मभिः करापूरैर् अष्टाङ्गुलमृदन्तरैः ॥०२६॥

पादोनं खातमापूर्य सजलैर् मुद्गराहतैः1 ।
लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः ॥०२७॥

सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यामाणकं ।
तोरणद्वाःपतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत् ॥०२८॥

कुर्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं ।
कलसं वर्धनीसक्तं2 लोकपालशिवार्चनं ॥०२९॥

अग्नेर्जननपूजादि सर्वं पूर्ववदाचरेत् ।
यजमानान्वितो3 यायाच्छिलानां स्नानमण्डपं ॥०३०॥

शिलाः प्रासादलिङ्गस्य पादधर्मादिसञ्ज्ञकाः ।
अष्टाङ्गुलोच्छ्रिताः शस्ताश् चतुरस्राः करायताः ॥०३१॥

पाषाणानां शिलाः कार्या इष्टकानां तदर्धतः ।
प्रासादे ऽश्मशिलाः शैले इष्टका इष्टकामये ॥०३२॥

अङ्किता नववक्त्राद्यैः4 पङ्कजाः पङ्कजाङ्किताः ।
नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता5 ॥०३३॥

आसां पद्मो महापद्मः शङ्खो ऽथ मकरस् तथा ।
समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमाधः ॥०३४॥

[[२९१]]
विश्वास-प्रस्तुतिः
विजया मङ्गलाख्या च धरणी नवमी शिला ॥०३५॥
मूलम्
विजया मङ्गलाख्या च धरणी नवमी शिला ॥०३५॥
विश्वास-प्रस्तुतिः
सुभद्रश् च विभद्रश् च सुनन्दः पुष्पनन्दकः1 ।
जयो ऽथ विजयश् चैव कुम्भः पूर्णस्तथोत्तरः2 ॥०३६॥
विश्वास-प्रस्तुतिः
नवानान्तु यथासङ्ख्यं निधिकुम्भः पूर्णस्तथोत्तरः2 ।
आसनं प्रथमं दत्त्वा3 ताड्योल्लिख्य
शराणुना4॥०३७॥

सर्वासामविशेषेण तनुत्रेणावगुण्ठनं5 ।
मृद्भिर्गोमययोगामूत्रकषायैर् गन्धवारिणा ॥०३८॥

अस्त्रेण हूं फडन्तेन6 मलस्नानं समाचरेत् ।
विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च ॥०३९॥

गन्धतोयान्तरं कुर्यान्निजनामाङ्किताणुना7 ।
फलरत्नसुवर्णानां गोशृङ्गसलिलैस्ततः ॥०४०॥

चन्दनेन समालभ्य8 वस्त्रैर् आच्छादयेच्छिलां ।
स्वर्णोत्थमासनं दत्वा नीत्वा यागं प्रदक्षिणं ॥०४१॥

शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्9 ।
सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं ॥०४२॥

त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत् ।
बुद्ध्यादौ चित्तपर्यन्ते चिन्तातन्मात्रकावधौ10 ॥०४३॥

[[२९२]]
विश्वास-प्रस्तुतिः
तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः ।
तत्त्वानि निजमन्त्रेण तत्त्वेशांश् च हृदार्चयेत् ॥०४४॥

ॐ हूं1 शिवतत्त्वाय नमः । ॐ हूं2 शिवतत्त्वाधिपतये
विश्वास-प्रस्तुतिः
रुद्राय नमः । ॐ हां विद्यातत्त्वाय नमः । ॐ हां3
विद्यातत्त्वाधिपाय4 विष्णवे नमः । ॐ हां आत्मतत्त्वाय
नमः । ॐ हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः5
क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च ॥०४५॥

प्रतितत्त्वं न्यसेदष्टौ मूर्तीः प्रतिशिलां शिलां ।
सर्वं पशुपतिं चोग्रं6 रुद्रं भवमथेश्वरं7 ॥०४६॥

महादेवं च भीमं च मूर्तीशांश् च यथाक्रमात् ।
ॐ धरामूर्तये नमः, ॐ धराधिपतये नमः,
इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः8 ॥०४७॥

विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर् वा निजाणुभिः9 ।
इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु ॥०४८॥

लूं रूं शूं पूं वूं यूं मूं हूं
क्षूमिति10
उक्तो नवशिलापक्षः शिला पञ्चपदा तथा ।
:न्
१,२ ॐ ह्रं इति ग॥ , घ॥ च
८,९ निजात्मभिरिति ख॥ , ग॥ । विन्यस्येत्यर्धश्लोको ग॥ पुस्तके नास्ति
[[२९३]]
विश्वास-प्रस्तुतिः
प्रतितत्त्वं न्यसेन्मूर्तीः सृष्ट्या पञ्च धरादिकाः ॥०४९॥

ब्रह्मा विष्णुस् तथा रुद्र ईश्वरश् च सदाशिवः ।
एते च पञ्च मूर्तीशा यष्टव्यास्तासु1 पूर्ववत् ॥०५०॥

ॐ पृथ्वीमूर्तये नमः । ॐ पृथ्वीमूर्त्यधिपतये
ब्रह्मणे नमः । इत्य् आदि मन्त्राः
सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः ।
निरुन्धीत2 विधानेन न्यासो मध्यशिलाक्रमात् ॥०५१॥

कुर्यात् प्राकारमन्त्रेण भूतिदर्भैस्ततः ।
कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् ॥०५२॥

तत्त्वतत्त्वाधिपान् मूर्तीर्मूर्तीशांश् च3 घृतादिभिः ।
ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात् ॥०५३॥

कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः
शिलाः4 ।
पूजयेच्च कुशैः स्पृष्ट्वा प्रतितत्त्वमनुक्रमात् ॥०५४॥

सान्निध्यमथ सन्धानं कृत्वा शुद्धं5 पुनर्न्यसेत्6 ।
एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् ॥०५५॥

[[२९४]]
विश्वास-प्रस्तुतिः
संस्पृशेद् दर्भमूलाद्यैर् ब्रह्माङ्गादित्रयं क्रमात् ।
कुर्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः ॥०५६॥

ॐ हां उं1 विद्यातत्त्वशिवतत्त्वाभ्यां नमः ।
घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् ।०५७।
पञ्चगव्यार्घ्यर्ससिक्तान्2 लोकपालाधिदैवतान् ॥०५७॥

पूजयित्वा निजैर् मन्त्रैः सन्निधौ होममाचरेत् ।
शिलानामथ सर्वासां संस्मरेदधिदैवताः ॥०५८॥

विद्यारूपाः कृतस्नाना हेमवार्णाः शिलाम्बराः ।
न्यूनादिदोषमोषार्थं3 वास्तुभूमेश् च शुद्धये ।०५९।
यजेदस्त्रेण मूर्धान्तमाहुतीनां4 शतं शतं ॥०५९॥

{इत्य् आदिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमो ऽध्यायः ॥ }
-
तथा क्षौ ह्रौ मन्त्राः सूर्यस्येति ग, घ,
चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
यथाधाराभिभेदेनेति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
रक्तगन्धानुगन्धीति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
नगरग्रामेत्यर्धश्लोको घ। पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
मन्त्रदीप्त्यवसानकमिति ग॥ । मन्त्रभूम्यवसानकमिति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
स्वर्णकुण्डे इति ग॥ । स्वर्णकुम्भे इति घ॥ , ङ॥ , च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎