{अथैकनवतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
विविधमन्त्रादिकथनं
ईश्वर उवाच
अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान् ।
शङ्खभेर्यादिनिर्घोषैः स्नापयेत् पञ्चगव्यकैः ॥००१॥
मूलम्

:न्
[[२८६]]
विश्वास-प्रस्तुतिः
यो देवान्देवलोकं स याति स्वकुलमुद्धरन् ।
वर्षकोटिसहस्रेषु यत् पापं स्मुपार्जितं ॥००२॥

घृताभ्यङ्गेन देवानां भस्मीभवति पावके ।
आढकेन घृताद्यैश् च देवान् स्नाप्य सुरो भवेत् ॥००३॥

चन्दनेनानुलिप्याथ गन्धाद्यैः पूजयेत्तथा ।
अल्पायासनं स्तुतिभिस्तुता देवास्तु सर्वदा ॥००४॥

अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः ।
गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं ॥००५॥

त्रिभिर्जीवो मूलधातुश् चतुर्भिर्ब्राह्मणादिधीः ।
यञ्चादौ भूततत्त्वादि शेषे चैवं जपादिकं ॥००६॥

एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके ।
अशुभं मध्यमं मध्येष्विन्द्रस्त्रिषु नृपः शुभः ॥००७॥

सङ्ख्यावृन्दे जीविताब्दं यमो ऽब्ददशहा ध्रुवं ।
सूर्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर् लिखेत् कजे ॥००८॥

कठिन्या जप्तया स्पृष्टे गोमूत्राकृतिरेखया ।
आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं ॥००९॥

मरुद् व्योम मरुद्वीजैश् चतुःषष्टिपदे तथा ।
अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकं ॥०१०॥

एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा ।
ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः1 ॥०११॥

आइपल्लवितैः काद्यैः षोडशस्वरपूर्वगैः ।
आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः ॥०१२॥

ह्रीं वीजाः प्रणवाद्याःस्पुर् नमो ऽन्ता यत्र पूजने ।
मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यधिकं ततः ॥०१३॥

[[२८७]]
विश्वास-प्रस्तुतिः
आं ह्रीं मन्त्राः सरस्वत्याश् चण्डिकायास्तथैव च ।
तथा गौर्याश् च दुर्गाया आं श्रीं मन्त्राः श्रियस् तथा ॥०१४॥

तथाक्षौं क्रौं मन्त्राः सूर्यस्य1 आं हौं मन्त्राः
शिवस्य च ।
आं गं मन्त्रा गणेशस्य आं मन्त्राश् च तथा हरेः ॥०१५॥

शतार्धैकाधिकैः काद्यैस् तथा षोडशभिः खरैः ।
काद्यैस्तैः सस्वरैसाद्यैः कान्तैर् मन्त्रास् तथाखिलाः ॥०१६॥

रवीशदेवीविष्णूनां स्वाब्धिदेवेन्द्रवर्तनात् ।
शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात् ।०१७।
अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः ॥०१७॥

{इत्य् आदिमहापुराणे आग्नेये नानामन्त्रादिकथनं नाम एकनवतितमो ऽध्यायः ॥ }