{अथ नवतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अभिषेकादिकथनं
ईश्वर उवाच
शिवमभ्यर्च्याभिषेकं कुर्याच्छिष्यादिके श्रिये ।
कुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत् ॥००१॥
मूलम्

तेषु क्षारोदं क्षीरोदं दध्युदं घृतसागरं ।
इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्1 ॥००२॥

निवेशयेद् यथासङ्ख्यमष्टौ विद्येश्वरानथ ।
एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं ॥००३॥

त्रिमूर्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं ।
सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं ॥००४॥

मध्ये शिवं समुद्रञ्च शिवमन्त्रं च विन्यसेत् ।
यागालयान् दिगीशस्य रचिते स्नानमण्डपे ॥००५॥

कुर्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां ।
श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं ॥००६॥

शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ।
काञ्जिकौदनमृद्भस्मदूर्वागोमयगोलकैः ॥००७॥

सिद्धार्थदधितोयैश् च कुर्यान्निर्मञ्छनं ततः ।
क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरैः ॥००८॥

कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं ।
परिधाप्य सिते वस्त्रे निवेश्य शिवदक्षिणे ॥००९॥

पूर्वोदितासने शिष्यं पुनः पूर्ववदर्चयेत् ।
उष्णीषं योगपट्टञ्च मुकुटं कर्तरीं घटीं ॥०१०॥

:न्
[[२८५]]
विश्वास-प्रस्तुतिः
दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाद्यप्रभृति त्वया ॥०११॥

सुपरीक्ष्य1 विधातव्यमाज्ञां संश्रावयेदिति ।
अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं ॥०१२॥

विघ्नज्वालापनोदार्थं कुर्याद्विज्ञापनां यथा ।
अभिषेकार्थमादिष्टस्त्वयाहं गुरुमूर्तिना ॥०१३॥

संहितापारगः सो ऽयमभिषिक्तो मया शिव ।
तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत् ॥०१४॥

दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे ।
शिष्यदक्षिणपाणिस्था अङ्गुष्ठाद्यङ्गुलीः क्रमात् ॥०१५॥

लाञ्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः ।
कुसुमानि करे दत्वा प्रणामं कारयेदमुं ॥०१६॥

कुम्भे ऽनले शिवे स्वस्मिसंस्ततस्कृत्यमाविशेत् ।
अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः ॥०१७॥

भूपवन्मानवादीनामभिषेकादभीप्सितं ।
आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः ॥०१८॥

{इत्य् आदिमहापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमो ऽध्यायः ॥ }