{अथोननवतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
एकतत्त्वदीक्षाकथनं
ईश्वर उवाच
अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते ।
सूत्रबन्धादि कुर्वीत यथायोगं निजात्मना ॥००१॥
मूलम्

कालाग्न्यादिशिवान्तानि तत्त्वानि परभावयेत् ।
समतत्त्वे समग्राणि सूत्रे मणिगणानिव ॥००२॥

आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत् ।
मूलेन किन्तु कुर्वीत सर्वशुल्कसमर्पणं ॥००३॥

प्रददीत ततः पूर्णां तत्त्ववातोपगर्भितां ।
एकयैव यया शिष्यो निर्वाणमधिगच्छति ॥००४॥

योजनायै शिवे चान्यां स्थिरत्वापादनाय च ।
दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं ॥००५॥

{इत्य् आदिमहपुराणे आग्नेये एकतत्त्वदीक्षाकथनं नाम ऊननवतितमो ऽध्यायः }
[[२८४]]