{अथाष्टाशीतितमो ऽध्यायः}
निर्वाणदीक्षाकथनं
ईश्वर उवाच
सन्धानं शान्त्यतीतायाः शान्त्या सार्धं विशुद्धया ।
कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तद् यथा ॥००१॥
ॐ हीं क्षौं हौं हां इति सन्धानानि
उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिद्धिकं ।
दीपकं रोचिकञ्चैव मोचकं चोर्ध्वगामि च ॥००२॥
व्योमरूपमनाथञ्च स्यादनाश्रितनष्टमं ।
ओङ्कारपदमीशाने मन्त्रो वर्णाश् च षोडश ॥००३॥
अकारादिविसर्गान्ता वीजेन देहकारकौ ।
कुहूश् च शङ्खिनी नाड्यौ देवदत्तधनञ्जयौ ॥००४॥
मरुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नभः ।
[[२७८]]
शब्दो गुणो ऽस्यावस्था तु तुर्यातीता तु पञ्चमी ॥००५॥
हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं ।
सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकं ॥००६॥
कलापाशं समाताड्य फडन्तेन विभिद्य च ।
प्रविश्यान्तर् नमो ऽन्तेन फडन्तेन वियोजयेत् ॥००७॥
शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया ।
पूरकेण समाकृष्य पाशं मस्तकसूत्रतः ॥००८॥
कुम्भकेन समादाय रेचकेनोद्भवाख्यया ।
हृत्सम्पुटनमो ऽन्तेन वह्निं कुण्डे निवेशयेत् ॥००९॥
अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत् ।
सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च ॥०१०॥
सदा ख्याते ऽधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।
भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति ॥०११॥
पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी ।
हृत्सम्पुटात्मवीजेन शिष्यं वक्षसि ताडयेत् ॥०१२॥
ॐ हां हूं हं फट्
प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः ।
शस्त्रेण पाशसंयुक्तं ज्येष्ठयाङ्कुशमुद्रया ॥०१३॥
ॐ हां हूं हं फट्1
स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना ।
गृहीत्वा तन्नमो ऽन्तेन निजात्मनि नियोजयेत् ॥०१४॥
ॐ हां हं हीं आत्मने नमः2
:न्
[[२७९]]
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया ।
वामया तदनेनैव1 देव्या गर्भे नियोजयेत् ॥०१५॥
गर्भाधानादिकं सर्वं पूर्वोक्तविधिना चरेत् ।
मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत् ॥०१६॥
मलशक्तितिरोधाने पाशानाञ्च वियोजने ।
पञ्चपञ्चाहुतीर्दद्यादायुधेन यथा पुरा ॥०१७॥
पाशानायुधमन्त्रेण सप्रवाराभिजप्तया ।
छिन्द्यादस्त्रेण कर्तर्या कलावीजयुजा यथा ॥०१८॥
ॐ हां शान्त्यतीतकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥०१९॥
अस्त्रेण जुहुयात् पज्च पाशाङ्कुशनिवृत्तये ।
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ॥०२०॥
सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे ।
पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ॥०२१॥
ॐ हां सदाशिव मनोविन्दु शुल्कं गृहाण स्वाहा
निःशेषदग्धपाशस्य पशोरस्य सदाशिव ।
बन्धाय न त्वया स्थेयं शिवाज्ञां श्रावयेदिति ॥०२२॥
मूलेन जुहुयात् पूर्णां विसृजेत्तु सदाशिवं ।
ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं ॥०२३॥
संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि ।
कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया ॥०२४॥
दद्यादाप्यायनायास्य मस्तके ऽर्घ्याम्बुविन्दुकं ।
क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा ॥०२५॥
:न्
[[२८०]]
खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां ।
कारुण्यनान्मोक्षयित्वा तद्व्रज त्वं स्थानमात्मनः ॥०२६॥
शिखामन्त्रितकर्तर्या बोधशक्तिस्वरूपिणीं ।
शिखां छिद्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां ॥०२७॥
ॐ क्लीं शिखायै हूं फट्1 ॐ हः अस्त्राय हूं
फट्
स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यगां2 ।
संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत् ॥०२८॥
ॐ हौं हः अस्त्राय हूं फट्
प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं ।
योजनिकास्थानमात्मानं शस्त्रमन्त्रेण ताडयेत् ॥०२९॥
वियोज्याकृष्य सम्पूज्य3 पूर्ववद् द्वादशान्ततः ।
आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत् ॥०३०॥
पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा ।
नित्योक्तविधिना।अदाय शङ्खसन्निभमुद्रया ॥०३१॥
प्रसारितशिरोग्रीवो नादोच्चारानुसारतः ।
समदृष्टिशिवश्चान्तः परभावसमन्वितः ॥०३२॥
कुम्भमण्डलवह्निभ्यः4 शिष्यादपि निजात्मनः ।
गृहीत्वा षड्विधविधानं श्रुगग्रे प्राणनाडिकं ॥०३३॥
सञ्चिन्त्य विन्दुवद् ध्यात्वा क्रमशः सप्तधा यथा ।
प्रथमं प्राणसंयोगस्वरूपमपरन्ततः ॥०३४॥
:न्
[[२८१]]
हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं ।
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ॥०३५॥
सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं ।
सप्तमे कारणे त्यागात्प्रशान्तविखरं लयः ॥०३६॥
शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविखरं मतं ।
प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं ॥०३७॥
तत्कालविखरं षष्ठं शक्त्यतीतञ्च सप्तमं ।
तदेतद् योजनास्थानं विखरन्तत्त्वसञ्ज्ञकं ॥०३८॥
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ।
शनैर् उदीरयन् मूलं कृत्वा शिष्यात्मनो लयं ॥०३९॥
हकारे तडिदाकारे षडध्वजप्राणरूपिणि ।
उकारं परतो नाभेर्वितस्तिं व्याप्य संस्थितं ॥०४०॥
ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं ।
ओङ्कारं वाचकं विष्णोस्ततो ऽष्टाङ्गुलकण्ठकं ॥०४१॥
चतुरङ्गुलतालुस्थं मकारं रुद्रवाचकं ।
तद्वल्ललाटमध्यस्थं विन्दुमीश्वरवाचकं ॥०४२॥
नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं ।
शक्तिं च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात् ॥०४३॥
दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च ।
द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे ॥०४४॥
भावशून्ये मनो ऽतीते शिवे नित्यगुणोदये ।
विलीय मानसे तस्मिन् शिष्यात्मानं विभावयेत् ॥०४५॥
विमुञ्चन् सर्पिषो धारां ज्वालान्ते ऽपि परे शिवे ।
योजनिकास्थिरत्वाय वौषडन्तशिवाणुना1 ॥०४६॥
:न्
[[२८२]]
दत्वा पूर्णां विधानेन गुणापदानमचरेत् ।
ॐ हां आत्मने1 सर्वज्ञो भव स्वाहा । ॐ हां आत्मने2
परितृप्तो भव स्वाहा । ॐ ह्रूं आत्मने3 अनादिबोधो भव स्वाहा । ॐ हौं आत्मने4 स्वतन्त्रो भव स्वाहा । ॐ हौं आत्मन्5
अलुप्तशक्तिर्भव स्वाहा । ॐ हः आत्मने[^६] अनन्तशक्तिर्भव
स्वाहा
इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् ॥०४७॥
विधिना भावनोपेतः शिष्यदेहे नियोजयेत् ।
तीव्राणुशक्तिसम्पातजनितश्रमशान्तये ॥०४८॥
शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतविन्दुकं ।
प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डले6 ॥०४९॥
सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः ।
त्वयैवानुगृहीतो ऽयं मूर्तिमास्थाय मामकीं ॥०५०॥
देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्धय7 ।
इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं ॥०५१॥
:न्
[[२८३]]
श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्यमादरात् ।
ततः परमया भक्त्या दत्वा देवे ऽष्टपुष्पिकां ।०५२।
पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं ॥०५२॥
{इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमो ऽध्यायः ॥ }