{अथ सप्ताशीतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शान्तिशोधनकथनं
ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि ।
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥००१॥
मूलम्

:न्
[[२७५]]
विश्वास-प्रस्तुतिः
हकारश् च क्षकारश् च द्वौ वर्णौ परिकीर्तितौ ।
रुद्राः समाननामानो भुवनैः सह तद्यथा ॥००२॥

प्रभवः समयः क्षुद्रो विमलः शिव इत्य् अपि ।
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥००३॥

त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः ।
सूक्ष्माम्बुजेश्वरश्चेति1 रुद्राः शान्तौ प्रतिष्ठिताः ॥००४॥

व्योमव्यापिने व्योमव्याप्यरूपाय2 सर्वव्यापिने शिवाय अनन्ताय
विश्वास-प्रस्तुतिः
अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय
नित्ययोगिने ध्यानाहारायेति3 द्वादशपादानि
पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ ।
अलम्बुषायसानाड्यौ वायू कृकरकर्मकौ ॥००५॥

इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः ।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥००६॥

तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥००७॥

आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।
आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ॥००८॥

ईशं तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।
भव्यं त्वयानुकूलेन4 कुर्यात् विज्ञापनामिति ॥००९॥

[[२७६]]
विश्वास-प्रस्तुतिः
विधायादाय चैतन्यं विधिना।अत्मनि योजयेत् ॥०१०॥

पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया ।
हृत्सम्पुटात्मवीजेन देवीगर्भे नियोजयेत् ॥०११॥

देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।
शिखया वाधिकाराय भोगाय कवचाणुना ॥०१२॥
मूलम्
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।
शिखया वाधिकाराय भोगाय कवचाणुना ॥०१२॥
विश्वास-प्रस्तुतिः
लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च ।
तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानादि पूर्ववत् ॥०१३॥

वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।
मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं ॥०१४॥

एवं पाशवियोगे ऽपि1 ततः सप्तास्त्रजप्तया ।
छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा ॥०१५॥

ॐ हौं2 शान्तिकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥०१६॥

अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये ।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥०१७॥

ॐ हः अस्त्राय हूं फट्
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥०१८॥
मूलम्
ॐ हः अस्त्राय हूं फट्
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥०१८॥
विश्वास-प्रस्तुतिः
ॐ हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण
स्वाहा
निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥०१९॥

[[२७७]]
विश्वास-प्रस्तुतिः
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।
ईषच्चन्द्रमिवात्मानं विधिना।अत्मनि योजयेत् ॥०२०॥

सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥०२१॥

विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।
दद्यात् पूर्णां विधानज्ञो निःशेषविधिपूरणीं ॥०२२॥

अस्यामपि विधातव्यं पूर्ववत्ताडनादिअकं ।
स्ववीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता ॥०२३॥

{इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्तशीतितमो ऽध्यायः ॥ }