{अथ षडशीतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
विद्याविशोधनविधानं
ईश्वर उवाच
सन्धानमथ विद्यायाः प्राचीनकलया सह ।
कुर्वीत पूर्ववत् कृत्वा1 तत्त्वं वर्णय तद्यथा ॥००१॥
मूलम्

ॐ हों क्षीमिति सन्धानं
राग्श् च शुद्धविद्या च नियतिः कलया सह ।
कालो मया तथाविद्या तत्त्वानामिति सप्तकं ॥००२॥

रलवाः शषसाः वर्णाः षड् विद्यायां प्रकीर्तिताः ।
पदानि प्रणवादीनि एकविंशतिसङ्ख्यया ॥००३॥

ॐ नमः शिवाय सर्वप्रभवे हं शिवाय2 ईशानमूर्धाय
तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय3
सद्योजातमूर्तये4 ॐ नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधाय
सर्वाधिपाय5 ज्योतिरूपाय प्रमेश्वाराय भवेन ॐ व्योम
:न्
[[२७३]]
विश्वास-प्रस्तुतिः
ॐ रुद्राणां भुवनानाञ्च स्वरूपमथ कश्यपे ।
प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः ॥००४॥

वज्रदेहः प्रभुर्धाता क्रविक्रमसुप्रभाः ।
वटुः1 प्रशान्तनामा च परमाक्षरसञ्ज्ञकः ॥००५॥

शिवश् च सशिवो बभ्रुरक्षयः शम्भुरेव च ।
अदृष्टरूपनामानौ तथान्यो रूपवर्धनः ॥००६॥
मूलम्
शिवश् च सशिवो बभ्रुरक्षयः शम्भुरेव च ।
अदृष्टरूपनामानौ तथान्यो रूपवर्धनः ॥००६॥
विश्वास-प्रस्तुतिः
मनोन्मनो महावीर्यश्चित्राङ्गस्तदनन्तरं ।
कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया ॥००७॥

मन्त्रो घोरामरौ वीजे नाड्यौ द्वे तत्र ते यथा ।
पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ ॥००८॥

विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी ।
शब्दः स्पर्शश् च रूपञ्च त्रय एते गुणाः स्मृताः ॥००९॥

अवस्थात्र षुप्तिश् च रुद्रो देवस्तु कारणं ।
विद्यामध्यगतं सर्वं भावयेद्भवनादिकं ॥०१०॥

ताडनं छेदनं तत्र प्रवेशञ्चापि योजनं ।
आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः ॥०११॥

आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ।
रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति ॥०१२॥

पित्रोरावहनं कृत्वा2 हृदये ताडयेच्छिशुं ।
प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत् ॥०१३॥

आकृष्यादाय पूर्वोक्तविधिना।अत्मनि योजयेत् ।
वामया योजयेत् योनौ गृहीत्वा द्वादशान्ततः ॥०१४॥

[[२७४]]
विश्वास-प्रस्तुतिः
कुर्वीत देहसम्पत्तिं जन्माधिकारमेव च ।
भोगं लयन्तथा श्रोतःशुद्धितत्त्वविशोधनं ॥०१५॥

निःशेषमलकर्मादिपाशबन्धनिवृत्तये ।
निष्कृत्यैव विधानेन यजेत शतमाहुतीः ॥०१६॥

अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां ।
छेदनं मर्दनं तेषां वर्तुलीकरणं तथा1 ॥०१७॥

दाहं तदक्षराभावं प्रायश्चित्तमथोदितं ।
रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं ॥०१८॥

ॐ ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा
संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं ।
विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत् ॥०१९॥

विन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः ।
दद्यात् पूर्णां विधानेन समस्तविधिपूरणीं ॥०२०॥

पूर्वोक्तविधिना कार्यं विद्यायां ताडनादिकं ।
स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता ॥०२१॥

{इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां विद्याविशोधनं नाम षडशीतितमो ऽध्यायः ॥ }