{चतुरशीतितमो ऽध्यायः}
निर्वाणदीक्षाविधानं
ईश्वर उवाच
अथ प्रातः समुत्थाय कृतस्ननादिको गुरुः ।
दध्यार्द्रमांसमद्यादेः प्रशस्ताभ्यवहारिता ॥००१॥
गजाश्वरोहणं स्वप्ने शुभं शुक्लांशुकादिकं1 ।
तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये2 ॥००२॥
नित्यकर्मद्वयं कृत्वा प्रविश्य मखमण्डपं ।
स्वाचान्तो नित्यवत् कर्म कुर्यान्नैमित्तिके विधौ ॥००३॥
ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि ।
विन्यस्य कुम्भगं प्रार्च्य इन्द्रादीनामनुक्रमात् ॥००४॥
मण्डले स्थण्डिले वापि प्रकुर्वीत शिवर्चनं ।
तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणं ॥००५॥
दुःखप्रदोषमोषाय शस्त्रेणाष्टाधिकं शतं ।
हुत्वा हूं सम्पुटेनैव विदध्यात् मन्त्रदीपनं ॥००६॥
अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः ।
कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो वहिर्व्रजेत् ॥००७॥
कुर्यात्समयवत्तत्र मण्डलारोपणादिकं ।
सम्पातहोमं तन्नाडीरूपदर्भकरानुगं ॥००८॥
तत्सन्निधानाय तिस्त्रो हुत्वा मूलाणुना।अहुतीः ।
कुम्भस्थं शिवमभ्यर्च्य पाशसूत्रमुपाहरेत्3 ॥००९॥
:न्
[[२६२]]
स्वदक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्चितस्य च ।
तच्छिखायां निबध्नीयात् पादाङ्गुष्ठावलम्बितं ॥०१०॥
तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा ।
ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः ॥०११॥
कपालो ऽजश् च बुद्धश् च वज्रदेहः प्रमर्दनः1 ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥०१२॥
अग्नी रुद्रो हुताशो च पिङ्गलः खादको हरः ।
ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ ॥०१३॥
याम्यमृत्युहरो धाता विधाता कार्यरञ्जकः ।
कालो धर्मो ऽप्यधर्मश् च संयोक्ता च वियोगकः ॥०१४॥
नैरृतो मारणो2 हन्ता क्रूरदृष्टिर्भयानकः ।
ऊर्ध्वांशको विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ॥०१५॥
बलश्चातिबलश् चैव पाशहस्तो महाबलः ।
श्वेतश् च जयभद्रश् च दीर्घबाहुर्जलान्तकः3 ॥०१६॥
वडवास्यश् च भीमश् च दशैते वारुणाः स्मृताः ।
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षपान्तकः ॥०१७॥
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
जटामुकुटधारी च नानारत्नधरस् तथा ॥०१८॥
निधीशो रूपवान् धन्यो सौम्यदेहः प्रसादकृत् ।
प्रकाशो ऽप्यथ लक्ष्मीवान् कामरूपो दशोत्तरे ॥०१९॥
विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः ।
मातृवृत्तश् च पिङ्गाक्षो भूतपालो बलिप्रियः ॥०२०॥
:न्
[[२६३]]
सर्वविद्याविधता च सुखदुःखहरा दश ।
अनन्तः पालको धीरः1 पातालाधिपतिस् तथा ॥०२१॥
वृषो वृषधरो वीर्यो ग्रसनः2 सर्वतोमुखः ।
लोहितश् चैव विज्ञेया दश रुद्राः फणिस्थिताः ॥०२२॥
शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः ।
संहारश् च विहारश् च लाभो लिप्सुर्विचक्षणः ॥०२३॥
अत्ता कुहककालाग्निरुद्रो3 हाटक एव च ।
कुष्माण्डश् चैव सत्यश् च ब्रह्मा विष्णुश् च सप्तमः ॥०२४॥
रुद्रश्चाष्टाविमे रुद्राः कटाहाभ्यन्तरे स्थिताः ।
एतेषामेव नामानि भुवनानामपि स्मरेत् ॥०२५॥
भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः ।
सर्वसान्निध्यकृद् ब्रह्मविष्णुरुद्रशरार्चितः ॥०२६॥
संस्तुत पूर्वस्थित ॐ साक्षिन् ॐ रुद्रान्तक ॐ पतङ्ग ॐ
शब्द ॐ सूक्ष्म ॐ शिव सर्वसर्वद सर्वसान्निध्यकर
ब्रह्मविष्णुरुद्रकर ॐ नमः शिवाय ॐ नमो नमः4
अष्टाविंशति पादानि व्योमव्यापि मनो गुह ।
सद्योहृदस्त्रनेत्राणि मन्त्रवर्णाष्टको मतः ॥०२७॥
:न्
[[२६४]]
वीजाकारो मकारश् च1 नाड्याविडापिङ्गलाह्वये ।
प्राणापानावुभौ वायू घ्राणोपस्थौ तथेन्द्रिये ॥०२८॥
गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चके ।
पार्थिवं मण्डलं पीतं वज्राङ्गं चतुरस्रकं ॥०२९॥
विस्तारो योजनानान्तु कोटिरस्य शताहता ।
अत्रैवान्तर्गता ज्ञेया योनयो ऽपि चतुर्दश ॥०३०॥
प्रथमा सर्वदेवानां मन्वाद्या देवयोनयः ।
मृगपक्षी च पशवश् चतुर्धा तु सरीसृपाः ॥०३१॥
स्थावरं पञ्चमं सर्वं योनिः षष्ठी अमानुषी2 ।
पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च ॥०३२॥
सौम्यं प्राणेश्वरं3 ब्राह्ममष्टमं परिकीर्तितं ।
अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं मतं ॥०३३॥
लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणं ।
ततो जाग्रदवस्थानैः समस्तैर् भुवनादिभिः ॥०३४॥
निवृत्तिं गर्भितां ध्यात्वा स्वमन्त्रेण नियोज्य च ।
ॐ हां ह्रूं हां4 निवृत्तिकलापाशाय हूं फट् तत
ॐ हां हां5 निवृत्तिकलापाशाय
स्वाहेत्यनेनाङ्कुशमुद्रया पूरकेणाकृष्य ॐ ह्रूं
ह्रां ह्रूं6 निवृत्तिकलापाशाय हूं फडित्यनेन
संहारमुद्रया कुम्भकेनाधः-[!!!]
:न्
[[२६५]]
स्थानादादाय ॐ ॐ ह्रां हां1 निवृत्तिकलापाशाय नम
इत्य् अनेनोद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ॐ हां
निवृत्तिकलापाशाय नम इत्य् अनेनार्घ्यं दत्वा सम्पूज्य विमुखेनैव
स्वाहान्तेनै सन्निधानायाहुतित्रयं सन्तर्पणाहुतित्रयं च दत्वा
ॐ हां ब्रह्मणे नम इति ब्रह्माणमावाह्य सम्पूज्य च
स्वाहान्तेन सन्तर्प्य
ब्रह्मन् तवाधिकारे ऽस्मिन् मुमुक्षुं दोक्ष्ययाम्यहं ॥०३५॥
भाव्यं त्वयानुकूलेन विधिं विज्ञापयेदिति ।
आवाहयेत्ततो देवीं रक्षां वागीश्वरीं हृदा ॥०३६॥
इच्छाज्ञानक्रियारूपां षड्विधां ह्य् एककारणं ।
पूजयेत्तर्पयेद्देवीं प्रकारेणामुना ततः ॥०३७॥
वागीश्वरीं विनिःशेषयोनिविक्षोभकारणं ।
हृत्सम्पुटार्थवीजादिहूं फडन्तशराणुना ॥०३८॥
ताडयेद्धृदये तस्य प्रविशेत्स2 विधानवित् ।
ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमं ॥०३९॥
निवृत्तिस्थं युतं पाशैर् ज्येष्ठया विभजेद्यथा ।
ॐ हां हूं हः हूं फट्
ॐ हां स्वाहेत्यनेनाथ पूरकेणाङ्कुशमुद्रया ॥०४०॥
तदाकृष्य स्वमन्त्रेण गृहीत्वा।अत्मनि योजयेत् ।
ॐ हां ह्रूं हां3 आत्मने नमः
पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत् ॥०४१॥
ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदं ।
:न्
[[२६६]]
गर्भाधानार्थमादाय युगपत् सर्वयोनिषु ॥०४२॥
क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया ।
ॐ हां हां हां आत्मने नमः1
पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा ॥०४३॥
अन्ययोनिषु सर्वासु देहशुद्धिं हृदा चरेत् ।
नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात् ॥०४४॥
सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत् ।
शिरसा जन्म कुर्वीत जुगुप्सन् सर्वदेहिनां ॥०४५॥
तथैव भावयेदेषामधिकारं शिवाणुना2 ।
भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना ॥०४६॥
मोहरूपमभेदश् च लयसज्ञं विभावयेत् ।
शिवेन श्रोतसां शुद्धिं हृदा तत्त्वविशोधनं ॥०४७॥
पञ्च पञ्चाहुतीः कुर्यात्3 गर्भाधानादिषु क्रमात् ।
मायया मलकर्मादिपाशबन्धनिवृत्तये ॥०४८॥
निष्कृत्यैव हृदा पश्चाद् यजेत शतमाहुतीः ।
मलशक्तिनिरोधेन पाशानाञ्च वियोजनं ॥०४९॥
स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत् ।
मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया ॥०५०॥
कर्तर्या छेदनं कुर्यात् कल्पशस्त्रेण तद्यथा ।
ॐ हूं निवृत्तिकलापाशाय हूं फट्
:न्
[[२६७]]
बन्धकत्वञ्च निर्वर्त्य हस्ताभ्याञ्च शराणुना1 ॥०५१॥
विसृज्य वर्तुलीकृत्य घृतपूर्णे स्रुवे धरेत् ।
दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात् ॥०५२॥
कुर्यात् पञ्चाहुतीर्दत्वा पाशाङ्कुशनिवृत्तये ।
ॐ हः अस्त्राय हूं फट्
प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः ॥०५३॥
अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा ।
तत ॐ हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण
स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत्
दग्धनिःशेषपापस्य2 ब्रह्मन्नस्य पशोस्त्वया ॥०५४॥
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ।
ततो विसृज्य धातारं नाड्या दक्षिणया शनैः ॥०५५॥
संहारमुद्रयात्मानं कुम्भकेन निजात्मना ।
राहुयुक्तैकदेशेन चन्द्रविम्बेन सन्निभं ॥०५६॥
आदाय योजयेत् सूत्रे रेचकेनोद्भवाख्यया ।
पूजयित्वार्घ्यपात्रस्थतोयविन्दुसुधोपमं ॥०५७॥
विसृज्य पितरौ दद्याद्वौषडन्तशिवाणुना ।
पूरणाय विधिः पूर्णा निवृत्तिरिति शोधिता ॥०५८॥
{इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां निवृत्तिकलाशोधनं नाम चतुरशीतितमो ऽध्यायः ॥ }
:न्
[[२६८]]
-
शुक्लाम्बरादिकमिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
अस्मल्लब्धपञ्चपुस्तकेषु दध्यार्द्रमांसमद्यादेरित्यारभ्य होमो
घोरेण शान्तये इत्य् अन्तः पाठः पूर्वेणानन्वित इव
प्रतिभाति ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
अनर्चित संस्तुत पूर्वस्थित साक्षिन् तुङ्ग २ पतङ्ग २ ज्ञान २
शब्द सूक्ष्म शिव सर्वद सर्वाध्यक्षकर ब्रह्मविष्णुरुद्र ॐ
नमः शिवाय ॐ नमो नमः ॐ नमः शिवाय ॐ नमो
नमः इति । अनर्चित संस्तुत पूर्वविन्द ॐ साक्षिण ॐ रुद्रान्तक
ॐ पतङ्ग ॐ ज्ञान ॐ शब्द ॐ सूक्ष्म ॐ शिव ॐ सर्व
ॐ सर्वद ॐ सर्वसान्निध्यकर ब्रह्मविष्णु रुद्रकर ॐ नमः
शिवाय ॐ नमो नम इति च, चिह्नितपुस्तकपाठः ↩︎ ↩︎ -
तत ॐ हां हां हामिति ख, चिह्नितपुस्तकपाठः ↩︎
-
ॐ हूं ह्रूं हूमिति ख, चिह्नितपुस्तकपाठः ↩︎