{अथ त्र्यशीतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
निर्वाणदीक्षाकथनं
ईश्वर उवाच
अथ निर्वाणदीक्षायां कुर्यान्मूलादिदीपनं ।
पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा ॥००१॥
मूलम्

एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा ।
वीजगर्भशिखार्धन्तु हूं फडन्तध्रुवादिना ॥००२॥

ॐ ह्रूं ह्रौं हौं ह्रूं फडिति1 मूलमन्त्रस्य दीपनं ।
ॐ ह्रूं हौं हौं ह्रूं फडिति2 हृदय एवं शिरोमुखे ॥००३॥

प्रत्येकं दीपनं कुर्यात् सर्वस्मिन् क्रूरकर्मणि ।
शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना3 ॥००४॥

वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः ।
हवनं संवरैः कुर्यात् सर्वत्राप्यायनादिषु ॥००५॥

:न्
[[२५६]]
विश्वास-प्रस्तुतिः
शिष्यं सम्पूज्य तत् सूत्रं सुषुम्णेति विभावितं ॥००६॥

मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् ।
संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके ॥००७॥

पुंसस्तु दक्षिणे भागे वामे नार्या नियोजयेत् ।
शक्तिं च शक्तिमन्त्रेण पूजितान्तस्य मस्तके ॥००८॥

संहारमुद्रया।अदाय सूत्रं तेनैव योजयेत् ।
नाडीन्त्वादाय मूलेन सूत्रे न्यस्य हृदार्चयेत् ॥००९॥

अवगुण्ठ्य तु रुद्रेण हृदयेनाहुतित्रयं ।
प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव हि ॥०१०॥

ॐ हां वर्णाध्वने नमो हां भवनाध्वने नमः ।
ॐ हां कालाध्वने नमः4 शोध्याध्वानं हि सूत्रके ॥०११॥

न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च ।
पुष्पेण हृदि सन्ताड्य शिष्यदेहे प्रविश्य च ॥०१२॥

गुरुश् च तत्र हूङ्कारयुक्तं रेचकयोगतः ।
चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना ॥०१३॥

ॐ हौं हूं फट्1
आछिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना ।
संहारमुद्रया सूत्रे नाडीभूते नियोजयेत् ॥०१४॥

ॐ हां हं हां आत्मने नमः
व्यापकं भावयेदेनं तनुत्राणावगुण्ठयेत्2 ।
:न्
[[२५७]]
विश्वास-प्रस्तुतिः
आहुतित्रितयं दद्यात् हृदा सन्निधिहेतवे ॥०१५॥

विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं ।
तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् ॥०१६॥

ॐ हां हौं शान्त्यतीतकलापाशाय4 नम इत्य्
अनेनावलोकयेत्
हे तत्त्वे मन्त्रमप्येकं पदं वर्णाश् च षोडश ।
तथाष्टौ भुवनान्यस्यां वीजनाडीकथद्वयं ॥०१७॥

विषयञ्च गुणञ्चैकं कारणं च सदा शिवं ।
सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत् ॥०१८॥

ॐ हौं शान्त्यतीतकलापाशाय हूं फट्
संहारमुद्रया।अदाय विदध्यात् सूत्रमस्तके ।
पूजयेदाहुतींस्तिस्रो दद्यात् सन्निधिहेतवे ॥०१९॥

तत्त्वे द्वे अक्षरे द्वे च वीजनाडीकथद्वयं ।
गुणौ मन्त्रौ तथाब्जस्थमेकं कारणमीश्वरं ॥०२०॥

पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च ।
एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत् ॥०२१॥

ताडयित्वा समादाय मुखसूत्रे नियोजयेत् ।
जुहुयान्निजवीजेन सान्निध्यायाहुतित्रयं ॥०२२॥

विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं ।
षड् वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं ॥०२३॥

गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं ।
अन्तर्भाव्यातिरिक्तायां जीवनाडीकथद्वयं ॥०२४॥

अस्त्रमादाय दध्याच्च पदं द्व्यधिकविंशतिं ।
लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयं ॥०२५॥

[[२५८]]
विश्वास-प्रस्तुतिः
मन्त्राणां त्रयमेकञ्च विषयं कारणं हरिं ।
अन्तर्भाव्य प्रतिष्ठायां शुक्लयान्ताडनादिकं ॥०२६॥

ह्रीं भुवनानां4 शतं साग्रं
पदानामष्टविंशतिं1 ।०२७।
वीजनाडीसमीराणां द्वयोरिन्द्रिययोरपि ।
वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं ॥०२८॥

हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणां चतुष्टयं ।
निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत् ॥०२९॥

आदौ यत्तत्त्वभागान्ते2 सूत्रे विन्यस्यपूजयेत् ।
जुहुयादाहुतीस्तिस्रः सन्निधाय पावके ॥०३०॥

इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात् ।
सवीजायान्तु दीक्षायां समयाचारयागतः ॥०३१॥

देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि ।
इष्टापूर्तादिधर्मार्थं व्यतिरिक्तं प्रबन्धकं ॥०३२॥

चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत् ।
अमुनैव क्रमेणाथ कुर्यात्तर्पणदीपने ॥०३३॥

ॐ हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं
ॐ हां हं हां3 शान्त्यतीतकलापाशाय
हूम्फडित्यादिदीपनं
तत् सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु ॥०३४॥

[[२५९]]
विश्वास-प्रस्तुतिः
सङ्गृह्य कुङ्कुमाज्येन4 तत्र साङ्गं शिवं यजेत् ।
हूम्फडन्तैः कलामन्त्रैर् भित्त्वा पाशाननुक्रमात् ॥०३५॥

ॐ हूं हां हौं हां हूं फट् शान्त्यतीतकलां
गृह्णामि बध्नामि चेत्यादिमन्त्रैः कलानां
ग्रहणबन्धनादिप्रयोगः
पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः ॥०३६॥

पुरुषं प्रति निःशेषव्यापारप्रतिपत्तये ।
उपवेश्याथ तत् सूत्रं शिष्यस्कन्धे निवेशयेत् ॥०३७॥

विस्तृताघप्रमोषाय शतं मूलेन होमयेत् ।
शरावसम्पुटे पुंसः स्त्रियाश् च प्रणितोदरे ॥०३८॥

हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्चयेद्धृदा1 ।
सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं ॥०३९॥

निदध्यात् कलशस्याधो रक्षां विज्ञापयेदिति ।
शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं ॥०४०॥

प्रणमय्य वहिर्यायाद् यागमन्दिरमध्यतः ।
मण्डलत्रितयं कृत्वा मुमुक्ष्वनुत्तराननान् ॥०४१॥

भुक्तये पूर्ववक्त्रांश् च शिष्यांस्तत्र निवेशयेत् ।
प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं ॥०४२॥

पाणिना कुशयुक्तेन अर्चितानन्तरान्तरं ।
चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं ॥०४३॥

अष्टग्रासप्रमाणं वा दशनस्पर्शवर्जितं ।
पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके ॥०४४॥

[[२६०]]
विश्वास-प्रस्तुतिः
हृदा सम्भोजनं दत्वा पूतैर् आचामयेज्जलैः ।
दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभं ॥०४५॥

न्यूनादिदोषमोषाय मूलेनाष्टोत्तरं शतं ।
विधाय स्थिण्डिलेशाय सर्वकर्मसमर्पणं ॥०४६॥

पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं ।
निर्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः ॥०४७॥

कलशं लोकपलांश् च पूजयित्वा विसृज्य च ।
विसृजेद्गणमग्निञ्च रक्षितं यदि वाह्यतः ॥०४८॥

वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं ।
भस्मना शुद्धतोयैर् वा स्नात्वा या गालयं विशेत्4 ॥०४९॥

गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान् ।
हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान् ॥०५०॥

शिखाबद्धसिखानस्त्रसप्तमाणवकान्वितान् ।
विज्ञाय स्नापयेच्छिष्यांस्ततो यायात् पुनर्वहिः ॥०५१॥

ॐ हिलि हिलि त्रिशूलपाणये स्वाहा
पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं ।
समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं1 ॥०५२॥

दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद्गुरुः ।
इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने ॥०५३॥

{इत्य् आदिमाहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमो ऽध्यायः ॥ }
:न्
[[२६१]]
-
ॐ हूं हौं हौं हूं फडिति ख, चिह्नितपुस्तकपाठः ।
ॐ हूं हों हूं फडिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
ॐ हूं हां हां हूं फडिति ख, चिह्नितपुस्तकपाठः ।
ॐ ह्रं ह्रीं ह्रं ह्रं फडिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
ह्रीं फडन्तध्रुवादिना इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎