०८२ संस्कारदीक्षा

{अथ द्व्यशीतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

संस्कारदीक्षाकथनं

ईश्वर उवाच
वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख ।
आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥००१॥

मूलम्

संस्कारदीक्षाकथनं

ईश्वर उवाच
वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख ।
आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥००१॥

विश्वास-प्रस्तुतिः

संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना ।
तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥००२॥

मूलम्

संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना ।
तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥००२॥

विश्वास-प्रस्तुतिः

कुसुमेनास्त्रलिप्तेन1 ताडयेत्तं हृदा शिशुं ।
प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् ॥००३॥

मूलम्

कुसुमेनास्त्रलिप्तेन1 ताडयेत्तं हृदा शिशुं ।
प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् ॥००३॥

:न्

[[२५३]]

विश्वास-प्रस्तुतिः

प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।
संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥००४॥

मूलम्

प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।
संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥००४॥

विश्वास-प्रस्तुतिः

ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।
हृत्सम्पुटितमन्त्रेण2 रेचकेन विनिक्षिपेत् ॥००५॥

मूलम्

ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।
हृत्सम्पुटितमन्त्रेण2 रेचकेन विनिक्षिपेत् ॥००५॥

विश्वास-प्रस्तुतिः

ॐ हां हां हां आत्मने नमः3
जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये ।
अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति ॥००६॥

मूलम्

ॐ हां हां हां आत्मने नमः3
जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये ।
अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति ॥००६॥

विश्वास-प्रस्तुतिः

स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यते ऽनलः ।
विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥००७॥

मूलम्

स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यते ऽनलः ।
विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥००७॥

विश्वास-प्रस्तुतिः

इत्येवमादिभिश्चिह्नैर् हुत्वा शिष्यस्य कल्मषं ।
पापभक्षणहोमेन1 दहेद्वा तं भवात्मना ॥००८॥

मूलम्

इत्येवमादिभिश्चिह्नैर् हुत्वा शिष्यस्य कल्मषं ।
पापभक्षणहोमेन1 दहेद्वा तं भवात्मना ॥००८॥

विश्वास-प्रस्तुतिः

द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।
आहारवीजसंशुद्धौ4 गर्भाधानाय संस्थितौ ॥००९॥

मूलम्

द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।
आहारवीजसंशुद्धौ4 गर्भाधानाय संस्थितौ ॥००९॥

विश्वास-प्रस्तुतिः

सीमन्ते जन्मतो नामकरणाय च होमयेत् ।
शतानि पञ्च मूलेन वौषडादिदशांशतः ॥०१०॥

मूलम्

सीमन्ते जन्मतो नामकरणाय च होमयेत् ।
शतानि पञ्च मूलेन वौषडादिदशांशतः ॥०१०॥

विश्वास-प्रस्तुतिः

शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् ।
आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते ॥०११॥

मूलम्

शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् ।
आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते ॥०११॥

विश्वास-प्रस्तुतिः

स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।
मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं ॥०१२॥

मूलम्

स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।
मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं ॥०१२॥

शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतं ।

:न्

[[२५४]]

विश्वास-प्रस्तुतिः

बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं2 ॥०१३॥

मूलम्

बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं2 ॥०१३॥

विश्वास-प्रस्तुतिः

संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।
विदधीत समादाय निजे हृदयपङ्कजे ॥०१४॥

मूलम्

संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।
विदधीत समादाय निजे हृदयपङ्कजे ॥०१४॥

विश्वास-प्रस्तुतिः

ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् ।
कुर्यात् समवशीभावं तदा च शिवयोर्हृदि ॥०१५॥

मूलम्

ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् ।
कुर्यात् समवशीभावं तदा च शिवयोर्हृदि ॥०१५॥

विश्वास-प्रस्तुतिः

ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।
नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥०१६॥

मूलम्

ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।
नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥०१६॥

विश्वास-प्रस्तुतिः

हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् ।
शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥०१७॥

मूलम्

हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् ।
शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥०१७॥

विश्वास-प्रस्तुतिः

पूजां शिवस्य वह्नेश् च गुरुः कुर्यात्तदोचितां ।
प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा ॥०१८॥

मूलम्

पूजां शिवस्य वह्नेश् च गुरुः कुर्यात्तदोचितां ।
प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा ॥०१८॥

विश्वास-प्रस्तुतिः

देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् ।
शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि ॥०१९॥

मूलम्

देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् ।
शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि ॥०१९॥

विश्वास-प्रस्तुतिः

बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां ।
यथाशक्ति ददीतार्थं3 समर्थस्य समग्रकान् ॥०२०॥

मूलम्

बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां ।
यथाशक्ति ददीतार्थं3 समर्थस्य समग्रकान् ॥०२०॥

विश्वास-प्रस्तुतिः

भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।
ईशानाद्यैर् हृदाद्यैर् वा परिजप्य यथाक्रमात् ॥०२१॥

मूलम्

भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।
ईशानाद्यैर् हृदाद्यैर् वा परिजप्य यथाक्रमात् ॥०२१॥

विश्वास-प्रस्तुतिः

स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् ।
सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥०२२॥

मूलम्

स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् ।
सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥०२२॥

विश्वास-प्रस्तुतिः

रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।
शिवादाज्ञां समादाय ददीत यतिने गुरुः ॥०२३॥

मूलम्

रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।
शिवादाज्ञां समादाय ददीत यतिने गुरुः ॥०२३॥

एवं समयदीक्षायां विशिष्टायां विशेषतः ।

:न्

[[२५५]]

विश्वास-प्रस्तुतिः

वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः ॥०२४॥

मूलम्

वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः ॥०२४॥

{इत्य् आदिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमो ऽध्यायः ॥ }


  1. कुसुमेनाष्टजप्तेनेति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. शिवहस्ते च स्थित्यर्थमिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. वीजसंसिद्धौ इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎