{अथैकाशीतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
समयदीक्षाविधानं
ईश्वर उवाच
वाक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं ।
मलमायादिपाशानां विश्लेषः क्रियते यया ॥००१॥
मूलम्

ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा ।
विज्ञातकलनामैको द्वितीयः प्रलयाकलः1 ॥००२॥

तृतीयः सकलः शास्त्रे ऽनुग्राह्यस्त्रिविधो मतः ।
तत्राद्यो मलमात्रेण मुक्तो ऽन्यो मलकर्मभिः ॥००३॥

कलादिभूमिपर्यन्तं स्तवैस्तु सकलो यतः ।
निराधाराथ साधारा दीक्षापि द्विविधा मता ॥००४॥

निराधारा द्वयोस्तेषां साधारा सकलस्य तु ।
आधारनिरपेक्षेण क्रियते शम्भुचर्यया ॥००५॥

तीव्रशक्तिनिपातेन निराधारेति सा स्मृता ।
आचार्यमूर्तिमास्थाय मायातीव्रादिभेदया ॥००६॥

:न्
[[२४४]]
विश्वास-प्रस्तुतिः
इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता ॥००७॥

साधिकारानधिकारा यथा तदभिधीयते ।
समयाचारसंयुक्ता सवीजा जायते नृणां ॥००८॥
मूलम्
साधिकारानधिकारा यथा तदभिधीयते ।
समयाचारसंयुक्ता सवीजा जायते नृणां ॥००८॥
विश्वास-प्रस्तुतिः
निर्वीजा त्वसमर्थानां समयाचारवर्जिता ।
नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता ॥००९॥

साधिकारा भवेद्दीक्षा साधकाचार्ययोरतः ।
निर्वीजा दीक्षितानान्तु यदास मम पुत्रयोः ॥०१०॥

नित्यमात्राधिकारत्वद्दीक्षा निरधिकारिका ।
द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते ॥०११॥

एका क्रियावती तत्र कुण्डमण्डलपूर्विका ।
मनोव्यापारमात्रेण या सा ज्ञानवती मता ॥०१२॥

इत्थं लब्धाधिकारेण दीक्षा।अचार्येण साध्यते ।
स्कन्ददीक्षां गुरुः कुर्यात् कृत्वा नित्यक्रियां ततः1 ॥०१३॥

प्रणवार्ग्यकराम्भोजकृतद्वाराधिपार्चणः ।
विघ्नानुत्सार्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः ॥०१४॥

कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितं ।
तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकं ॥०१५॥

सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः ।
तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः ॥०१६॥

पूजनं मन्त्रशिद्धिञ्च पञ्चगव्यञ्च पूर्ववत् ।
लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं2 कुशान् ॥०१७॥

[[२४५]]
विश्वास-प्रस्तुतिः
शस्त्राम्बु1प्रोक्षितानेतान् कवचेनावगुण्ठितान् ॥०१८॥

नानाग्रहणाकारान् विघ्नौघविनिवारकान् ।
दर्भाणान्तालमानेन कृत्वा षट्त्रिंशता दलैः ॥०१९॥

सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमं ।
शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितं ॥०२०॥

निष्कलं च शिवं न्यस्य शिवो ऽहमिति भावयेत् ।
उष्णीषं शिरसि न्यस्य अलं कुर्यात्स्वदेहकं ॥०२१॥

गन्धमण्डनकं स्वीये विदध्याद्दक्षिणे करे ।
विधिनात्रार्चयेदीशमित्थं स्याच्छिवमस्तकं ॥०२२॥

विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके ।
शिवादभिन्नमात्मानं कर्तारं भावयेद्यथा ॥०२३॥

मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः ।
होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः2 ॥०२४॥

स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः ।
सो ऽहमेवेति कुर्वीत भावं स्थिरतरं पुनः ॥०२५॥

ज्ञानखड्गकरः स्थित्वा नैरृत्याभिमुखो नरः ।
सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपं ॥०२६॥

चतुष्पथान्तसंस्कारैः संस्कुर्यादीक्षणादिभिः ।
विक्षिप्य विकरांस्तत्र कुशकूर्चोपसंहरेत् ॥०२७॥

तानीशदिशि वर्धन्यामासनायोपकल्पयेत् ।
नैरृते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत् ॥०२८॥

[[२४६]]
विश्वास-प्रस्तुतिः
साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने ॥०२९॥

ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे ।
पश्चिमस्यान्तु सिंहस्थां वर्धनीं खड्गरूपिणीं ॥०३०॥

दिक्षु शक्रादिदिक्पालान्विष्ण्वन्तान् प्रणवासनान् ।
वाहनायुधसंयुक्तान् हृदाभ्यर्च्य स्वनामभिः ॥०३१॥

प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीं ।
अविच्छिन्नपयोधरां भ्रामयित्वा प्रदक्षिणं ॥०३२॥

शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन् ।
संरक्षत यथायोगं कुम्भं धृत्वाथ तां धारेत् ॥०३३॥

ततः स्थिरासने कुम्भे साङ्गं सम्पूज्य शङ्करं ।
विन्यस्य शोध्यमध्वानं वर्धन्यामस्त्रमर्चयेत् ॥०३४॥

ॐ हः अस्त्रासनाय हूं फट् । ॐ ॐ अस्त्रमूर्तये नमः ।
ॐ हूं फट् पाशुपतास्त्राय नमः । ॐ ॐ हृदयाय
हूं फट् नमः । ॐ श्रीं शिरसे हूं फट् नमः । ॐ
विश्वास-प्रस्तुतिः
यं शिखायै हूं फट् नमः । ॐ गूं कवचाय हूं
फट् नमः । ॐ फट् अस्त्राय हूं फट् नमः1
चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकं ।
समुद्गरत्रिशूलासिं सूर्यकोटिसमप्रभं ॥०३५॥

[[२४७]]
विश्वास-प्रस्तुतिः
अग्गुष्ठेन स्पृशेत् कुम्भं हृदा मुष्ट्यास्त्रवर्धनीं ॥०३६॥

भुक्तये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत् ।
कुम्भस्य मुखरक्षार्थं ज्ञानखड्गं समर्पयेत् ॥०३७॥

शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत् ।
तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेत्ततः ॥०३८॥

यथेदं कृतयत्नेन भगवन्मखमन्दिरं ।
रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया ॥०३९॥

प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्चयेत्1 ।
स्थण्डिले शिवमभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः ॥०४०॥

निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकं ।
वामे ऽसव्ये तु विन्यस्य समिद्दर्भतिलादिकं ॥०४१॥

कुण्डवह्निस्रुगाज्यादि प्राग्वत् संस्कृत्य भावयेत् ।
मुख्यतामूर्ध्ववक्त्रस्य हृदि वह्नौ शिवं यजेत् ॥०४२॥

स्वमूर्तौ शिवकुम्भे च स्थण्डिले त्वग्निशिष्ययोः ।
सृष्टिन्यासेन विन्यस्य शोध्याध्वानं यथाविधि ॥०४३॥

कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितं ।
वीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते ॥०४४॥

विरेफावन्तिमौवर्णौ रेफषष्ठस्वरान्वितौ ।
इन्दुविन्दुशिखायुक्तौ जिह्वावीजानुपक्रमात् ॥०४५॥

हिरण्या वनका रक्ता कृष्णा तदनु सुप्रभा ।
अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा ॥०४६॥

क्षीरादिमधुरैर् होमं कुर्याच्छान्तिकपौष्टिके ।
अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्चिकैः ॥०४७॥

[[२४८]]
विश्वास-प्रस्तुतिः
समिद्भिरपि वक्राभिः क्रुद्धो भाष्याणुना यजेत् ॥०४८॥

कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं ।
बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत् ॥०४९॥

बिल्वं राज्याय लक्ष्मार्थं पाटलांश् चम्पकानपि ।
पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे ॥०५०॥

दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते ।
प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकं ॥०५१॥

मृत्युञ्जयो मृत्युजित् स्याद् वृद्धिः स्यात्तिलहोमतः ।
रुद्रशान्तिः सर्वशान्त्यै अथ प्रस्तुतमुच्यते ॥०५२॥

आहुत्यष्टशतैर् मूलमङ्गानि तु दशांशतः ।
सन्तर्पयेत मूलेन दद्यात् पूर्णां यथा पुरा ॥०५३॥

तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत् ।
दुर् निमित्तापसाराय सुनिमित्तकृते तथा ॥०५४॥

शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत् ।
मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत् ॥०५५॥

शिखासम्पुटितैर् वीजैर् ह्रूं फडन्तैश् च1 दीपनं ।
ॐ हौं शिवाय स्वाहेत्यादिमन्त्रैश् च तर्पणं ॥०५६॥

ॐ ह्रूं ह्रौं ह्रीं शिवाय ह्रूं2 फडित्यादिदीपनं ।
ततः शिवाम्भसा स्थालीं क्षालितां वर्मगुण्ठितां3 ॥०५७॥

चन्दनादिसमालब्धां बध्नीयात् कटकं गले ।
वर्मास्त्रजप्तसद्दर्भपत्राभ्यां चरुसिद्धये ॥०५८॥

[[२४९]]
विश्वास-प्रस्तुतिः
वर्माद्यैर् आसने1 दत्ते सार्धेन्दुकृतमण्डले2 ।
न्यस्तायां मूर्तिभूतायां भावपुष्पैः शिवं यजेत् ॥०५९॥

वस्त्रबद्धमुखायां वा स्थाल्यां पुष्पैर् वहिर्भवैः ।
चुल्ल्यां पश्चिमवक्त्रायां न्यस्तायां मानुषात्मना ॥०६०॥

न्यस्ताहङ्कारवीजायां शुद्धायां वीक्षणादिभिः ।
धर्माधर्मशरीरायां जप्तायां मानुषात्मना ॥०६१॥

स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जितां ।
गव्यं पयो ऽस्त्रसंशुद्धं प्रासादशतमन्त्रितं ॥०६२॥

तुण्डलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा ।
एकशिष्यविधानाय तेषां प्रसृतिपञ्चकं ॥०६३॥

प्रसृतिं प्रसृतिं पश्चाद्वर्धयेद् द्व्यादिषु क्रमात् ।
कुर्याच्चानलमन्त्रेण पिधानं कवचाणुना ॥०६४॥

शिवाग्नौ मूलमन्त्रेण पूर्वास्यश् चरुकं पचेत् ।
सुखिन्ने तत्र तच्चुल्ल्यां श्रुवमापूर्य सर्पिषा ॥०६५॥

स्वाहान्तैः संहितामन्त्रैर् दत्वा तप्ताभिघारणं ।
संस्थाप्य मण्डले स्थालीं सद्दर्भे ऽस्त्राणुना कृते ॥०६६॥

प्रणवेन पिधायास्यां तद्देहलेपनं हृदा ।
सुशीतलो भवत्येवम् प्राप्य शीताभिघारणं ॥०६७॥

विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत् सकृत् ।
धर्माद्यासनके हुत्वा3 कुण्डमण्डलपश्चिमे ॥०६८॥

सम्पातञ्च स्रुचा हुत्वा शुद्धिं संहितया चरेत् ।
चरुकं सकृदालभ्य तयैव वषडन्तया ॥०६९॥

[[२५०]]
विश्वास-प्रस्तुतिः
धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत्1 ।
साज्यभागं स्वशिष्याणां भागो देवाय वह्नये ॥०७०॥

कुर्यात्तु स्तोकपालादेः समध्वाज्यमितिदं त्रयं ।
नमो ऽन्तेन हृदा दद्यात्तेनैवाचमनीयकं2 ॥०७१॥

साज्यं मन्त्रशतं हुत्वा दद्यात् पूर्णां यथाविधि ।
मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः ॥०७२॥

रुद्रमातृगणादीनां निर्वर्त्यान्तर्बलिं हृदा ।
शिवमध्ये ऽप्यलब्धाज्ञो विधायैकत्वभावनं ॥०७३॥

सर्वज्ञतादियुक्तो ऽहं समन्ताच्चोपरि स्थितः ।
ममांशो योजनास्थानमधिष्ठाहमध्वरे ॥०७४॥

शिवो ऽहमित्यहङ्कारी निष्क्रमेद् यागमण्डपात् ।
न्यस्तपूर्वाग्रसन्धर्भे शस्त्राणुकृतमण्डले ॥०७५॥

प्रणवासनके शिष्यं शुक्लवस्त्रोत्तरीयकं ।
स्नातञ्चोदङ्मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये ॥०७६॥

ऊर्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत् ।
चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः ॥०७७॥

चक्षुषा सप्रसादेन शैवं धाम विवृण्वता ।
अस्त्रोदकेन सम्मोक्ष्य मन्त्राम्बुस्नानसिद्दये ॥०७८॥

भस्मस्नानाय विघ्नानां शान्तये पापभित्तये3 ।
सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना ॥०७९॥

[[२५१]]
विश्वास-प्रस्तुतिः
नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन् ॥०८०॥

त्रिधा।अलभेत तन्मूलैर् अघमर्षाय नाभ्यधः ।
द्वैविध्याय च पाशानां आलभेत शराणुना ॥०८१॥

तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः ।
पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा ॥०८२॥

बध्वामन्त्रितवस्त्रेण सितेन सदशेन च ।।
प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणं ॥०८३॥

सवस्त्रमासनं दद्यात् यथावर्णं1 निवेदयेत् ।
संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे ॥०८४॥

निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत् ।
पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके ॥०८५॥

शिवहस्तं प्रदातव्यं रुद्रेशपददायकं ।
शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना2 ॥०८६॥

शिवे प्रक्षेपयेत् पुष्पमपनीयार्चकन्तारं3 ।
तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगं ॥०८७॥

विप्रादीनां क्रमान्नाम कुर्याद्वा स्वेच्छया गुरुः ।
प्रणतिं कुम्भवर्धन्योः कारयित्वानलान्तिकं ॥०८८॥

सदक्षिणासने तद्वत्4 सौम्यास्यमुपवेशयेत् ।
शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत् ॥०८९॥

[[२५२]]
विश्वास-प्रस्तुतिः
दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे ॥०९०॥

तम्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे ।
शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना1 ॥०९१॥

पुरकेण समागत्य स्वकीयं हृद्यान्तरं ।
शिवाग्निना पुनः कृत्वा नाडीसन्धानमीदृशं ॥०९२॥

हृदा तत्सन्निधानार्थञ्जुहुयादाहुतित्रयं ।
शिवहस्तस्थिरत्वार्थं2 शतं मूलेन होमयेत् ।०९३।
इत्थं समयदीक्षायां भवेद्योग्यो भवार्चने ॥०९३॥

{इत्य् आदिमहापुराणे आग्नेये समयदीक्षाकथनं नाम एकाशीतितमो ऽध्यायः ॥ }