{अथ अशीतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
दमनकारोहणविधिः
ईश्वर उवाच
वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत् ।
हरकोपात् पुरा जातो भैरवो दमिताः सुराः ॥००१॥
मूलम्

[[२४२]]
विश्वास-प्रस्तुतिः
तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा ।
प्रसन्नेनेरितं चेदं पूजयिष्यन्ति ये नराः ॥००२॥

परिपूर्णफलं तेषां नान्यथा ते भविष्यति ।
सप्तम्यां वा त्रयोदश्यां दमनं संहितात्मभिः ॥००३॥

सम्पूज्य बोधयेद्वृक्षं भववाक्येन मन्त्रवित् ।
हरप्रसादसम्भूत त्वमत्र सन्निधीभव ॥००४॥

शिवकार्यं समुद्दिश्य नेतव्यो ऽसि शिवाज्ञया ।
गृहे ऽप्यामन्त्रणं कुर्यात् सायाह्ने चाधिवासनं ॥००५॥

यथाविधि समभ्यर्च्य सूर्यशङ्करपावकान् ।
देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं ॥००६॥

वामेन शिरसा वाथ नालं धात्रीं तथोत्तरे ।
दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं ॥००७॥

पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं ।
पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् ॥००८॥

आमन्त्रितो ऽसि देवेश प्रातःकाले1 मया प्रभो ।
कर्तव्यस्तपसो लाभः पूर्णं सर्वं तवाज्ञया ॥००९॥

मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं ।
प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत्2 ॥०१०॥

नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः ।
शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः ॥०११॥

मूलाद्यैर् ईश्वरान्तैश् च चतुर्थाञ्जलिना ततः ।
ॐ हौं मखेश्वराय मखं पूरय शूलपाणये नमः ॥०१२॥

:न्
[[२४३]]
विश्वास-प्रस्तुतिः
शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् ॥०१२॥

भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं ।
सर्वं तदस्तु सम्पूर्णं यच्च दामनकं मम ।०१३।
सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् ॥०१३॥

{इत्य् आदिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमो ऽध्यायः ॥ }