{अथैकोनाशीतितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
पवित्रारोहणविधिः
ईश्वर उवाच
अथ प्रातः समुत्थाय कृतस्नानः समाहितः ।
कृतसन्ध्यार्चनो मन्त्री प्रविश्य मखमण्डपं ॥००१॥
मूलम्

समादाय पवित्राणि अविसर्जितदैवतः ।
ऐशान्यां भाजने शुद्धे स्थापयेत् कृतमण्डले ॥००२॥

ततो विसर्ज्य देवेशं निर्माल्यमपनीय च ।
पूर्ववद् भूतले शुद्धेकृत्वाह्निकमथ द्वयं ॥००३॥

आदित्यद्वारदिक्पालकुम्भेशानौ शिवे ऽनले1 ।
नैमित्तिकीं सविस्तरां कुर्यात् पूजां विशेषतः ॥००४॥

मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना2 ।
अष्टोत्तरशतं कृत्वा दद्यात् पूर्णाहुतिं शनैः ॥००५॥

:न्
[[२३८]]
विश्वास-प्रस्तुतिः
पवित्रं भानवे दत्वा समाचम्य ददीत च ।
द्वारमालादिदिक्पालकुम्भवर्धनिकादिषु ॥००६॥

सन्निधाने ततः शम्भोरुपविश्य निजासने ।
पवित्रमात्मने दद्याद्गणाय गुरुवह्नये ॥००७॥

ॐ कालात्मना त्वया देव यद्दिष्टं मामके विधौ1 ।
कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत्
कृतं ॥००८॥

तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतं2 ।
सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ॥००९॥

ॐ पूरयमखव्रतं नियमेश्वराय स्वाहा ।
आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना ॥०१०॥

मूलं लयान्तमुच्चार्य पवित्रेणार्चयेच्छिवं ।
विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते ॥०११॥

ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् ।
शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते ॥०१२॥

शिवान्तं मन्त्रमुच्चार्य तस्मै देयं पवित्रकं ।
सर्वकारणपालेषु शिवमुच्चार्य सुव्रतः3 ॥०१३॥

मूलं लयान्तमुच्चार्य दद्याद्गङ्गावतारकं4 ।
आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकं ॥०१४॥

विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात् ।
स्वाहान्तं वा नमो ऽन्तं वा मन्त्रमेषामुदीरयेत् ॥०१५॥

ॐ हां आत्मतत्त्वाधिपतये शिवाय स्वाहा
:न्
[[२३९]]
ॐ हां विद्यातत्त्वाधिपतये शिवाय स्वाहा
विश्वास-प्रस्तुतिः
ॐ हौं शिवतत्त्वाधिपतये शिवाय स्वाहा
ॐ हौं सर्वतत्त्वाधिपतये शिवाय स्वाहा
नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः ।
त्वङ्गतिः सर्वभूतानां संस्थितिस्त्वञ्चराचरे ॥०१६॥

अन्तश्चारेण भूतानां1 द्रष्टा त्वं परमेश्वर ।
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ॥०१७॥

मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत् कृतं ।
जपहोमार्चनैर् हीनं कृतं नित्यं मया तव ॥०१८॥

अकृतं वाक्यहीनं च तत् पूरय महेश्वरं2 ।
सुपूतस्त्वं परेशान3 पवित्रं पापनाशनं ॥०१९॥
विश्वास-प्रस्तुतिः
त्वया पवित्रितं सर्वं जगत् स्थावरजङ्गमं ।
खण्डितं यन्मया देव व्रतं वैकल्पयोगतः ॥०२०॥

एकीभवतु तत् सर्वं तवाज्ञासूत्रगुम्फितं ।
जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च ॥०२१॥

नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः ।
चतुर्मासं त्रिमासं वा त्र्यहमेकाहमेव च ॥०२२॥

प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती ।
पावकस्थे शिवे ऽप्येवं पवित्राणां चतुष्टयं ॥०२३॥

समारोप्य समभ्यर्च्य पुष्पधूपाक्षतादिभिः ।
अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत् ॥०२४॥

[[२४०]]
विश्वास-प्रस्तुतिः
प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं ॥०२५॥

शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं ।
होमं व्याहृतिभिः कृत्वा रुन्ध्यान्निष्ठुरयानलं ॥०२६॥

अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं ।
दिक्पतिभ्यस्ततो दद्यात्1 सपवित्रं वहिर्बलिं ॥०२७॥

सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकं ।
ॐ हां भूः स्वाहा । ॐ हां भुवः स्वाहा । ॐ हां
स्वः स्वाहा । ॐ हां भूर्भुवः स्वः स्वाहा
होमं व्याहृतिभिः कृत्वा दत्वा।अहुतिचतुष्टयं ॥०२८॥

ॐ हां अग्नये स्वाहा । ॐ हां सोमाय स्वाहा । ॐ हां
विश्वास-प्रस्तुतिः
अग्नीषोमाभ्यां स्वाहा । ॐ हां अग्नये स्विष्टकृते
स्वाहा
गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः ।
समग्रं सफलं तस्य क्रियाकाण्डादि वार्षिकं ॥०२९॥

यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः ।
इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं ॥०३०॥

द्विजातीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत् ।
दानेनानेन देवेश प्रीयतां मे सदा शिवः ॥०३१॥

भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत् ।
पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्जयेत् ॥०३२॥

नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा ।
पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत् ॥०३३॥

[[२४१]]
विश्वास-प्रस्तुतिः
भुक्तिकामः शिवायाथ कुर्यात् कर्मसमर्पणं ॥०३४॥

त्वत्प्रसादेन कर्मेदं मास्तु फलसाधकं ।
मुक्तिकामस्तु कर्मेदं मास्तु मे नाथ बन्धकं ॥०३५॥

वह्निस्थं नाडीयोगेन शिवं संयोजयेछिवे ।
हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत् ॥०३६॥

समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान् ।
शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत् ॥०३७॥

विसृज्य लोकपालादीनादायेशात् पवित्रकं ।
सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं ॥०३८॥

तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत् ।
अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत् ॥०३९॥

यत् किञ्चिद्वार्षिकं कर्म कृतं न्यूनाधिकं मया ।
तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया ॥०४०॥

इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् ।
त्यक्तनिर्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत् ।०४१।
पञ्चयोजनसंस्थो ऽपि पवित्रं गुरुसन्निधौ ॥०४१॥

{इत्य् आदिमहापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमो ऽध्यायः ॥ }