०७८ पवित्राधिवासनविधिः

{अथोष्टसप्ततितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

पवित्रारोहणकथनं

ईश्वर उवाच
पवित्रारोहणं वक्ष्ये क्रियार्चादिषु पूरणं ।
नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ॥००१॥

मूलम्

आषाढादिचतुर्दश्यामथ श्रावणभाद्रयोः ।
सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु तत् ॥००२॥

कुर्याद्वा कार्त्तिकीं यावत्तिथौ प्रतिपादिके ।
वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्कशूलिनां ॥००३॥

दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजां1
सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमं ॥००४॥

कलौ कार्पासजं चापि पट्टपद्मादिसूत्रकं ।
प्रणवश् चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः2 ॥००५॥

सर्वेशः3 सर्वदेवाः स्युः क्रमेण नवतन्तुषु ।
अष्टोत्तरशतान्यर्धं तदर्धं चोत्तमादिकं ॥००६॥

एकाशीत्याथवा सूत्रैस्त्रिंशताप्पष्टयुक्तया ।

:न्

[[२३१]]

विश्वास-प्रस्तुतिः

पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकं ॥००७॥

द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च ।
लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ॥००८॥

तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतं ।
गङ्गावतारकं कार्यं सुजातेन सुधौतकं ॥००९॥

ग्रन्थिं कुर्याच्च वामेन अघोरणाथ शोधयेत् ।
रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः ॥०१०॥

कस्तूरीरोचनाचन्द्रैर् हरिद्रागैर् इकादिभिः ।
ग्रन्थयो दश कर्तव्या अथवा तन्तुसङ्ख्यया ॥०११॥

अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलं ।
प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥०१२॥

जयान्या विजया षष्ठी अजिता च सदाशिवा ।
मनोन्मनी सर्वमुखी ग्रन्थयो ऽभ्यधिकाः शुभाः ॥०१३॥

कार्या वा चन्द्रवह्न्यर्कपवित्रं4 शिववद्धृदि ।
एकैकं निजमूर्तौ वा पुप्तके गुरुके गणे1 ॥०१४॥

स्यादेकैकं तथा द्वारदिक्पालकलशादिषु ।
हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकं ॥०१५॥

अष्टाविंशतितो युद्धं दशभिर्दशभिः क्रमात् ।
द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ॥०१६॥

ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितं ।
सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥०१७॥

भूषयेत् पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरं ।

:न्

[[२३२]]

विश्वास-प्रस्तुतिः

कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्पणं ॥०१८॥

परिगृहीते भूभागे पवित्रे सूर्यमर्चयेत्4
आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ॥०१९॥

द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतो ऽर्चयेत् ।
हां शान्तिकलाद्वाराय तथा विद्याकलात्मने ॥०२०॥

निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने ।
तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥०२१॥

नन्दिने महाकालाय भृङ्गिणे ऽथ गणाय च ।
वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात् ॥०२२॥

नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे ।
इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ॥०२३॥

प्रोक्षणाद्यं1 विधायाथ यज्ञसम्भारकृन्नरः ।
मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश् च हृदादिभिः ॥०२४॥

शिवहस्तं विधायेत्थं2 स्वशिरस्यधिरोपयेत् ।
शिवो ऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ॥०२५॥

अत्यर्थं भावयेद्देवं ज्ञानखद्गकरो गुरुः ।
नैरृतीं दिशमासाद्य प्रक्षिपेदुदगाननः ॥०२६॥

अर्घ्याम्बु पञ्चगव्यञ्च समस्तान् मखमण्डपे ।
चतुष्पथान्तसंस्कारैर् वीक्षणाद्यैः3 सुसंस्कृतैः ॥०२७॥

विक्षिप्य विकिरांस्तत्र कुशकूर्चोपसंहरेत्[^५] ।

:न्

[[२३३]]

विश्वास-प्रस्तुतिः

तानीशदिशि4 वर्धन्यामासनायोपकल्पयेत् ॥०२८॥

नैरृते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् ।
पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितं ॥०२९॥

प्रणवेन वृषारूढं सिंहस्थां वर्धनीन्ततः ।
कुम्भे साङ्गं शिवन्देवं वर्धन्यामर्चयेत्1 ॥०३०॥

दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्2
वर्धनीं सम्यगादाय घटपृष्टानुगामिनीं ॥०३१॥

शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरं ।
अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ॥०३२॥

समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीं ।
पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य3 वामतः ॥०३३॥

समग्रासनके कुम्भे यजेद्देवं स्थिरासने ।
वर्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ॥०३४॥

भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।
कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ॥०३५॥

तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेदपि5
गणेशं वायवे ऽभ्यर्च्य हरं पञ्चामृतादिभिः ॥०३६॥

स्नापयेत् पूर्ववत् प्रार्च्य[^६] कुण्डे च शिवपावकं[^७] ।

:न्

[[२३४]]

विश्वास-प्रस्तुतिः

विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितं ॥०३७॥

देवाग्र्यात्मविभेदेन दर्ष्या तं विभजेत् त्रिधा ।
दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥०३८॥

शरेण चर्मणा देयं पूर्वतो दन्तधावनं ।
तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदं ॥०३९॥

साद्योजातेन च हृदा चोत्तरे वामनीकृतं4
जलं1 वामेन शिरसा ईशे गन्धान्वितं जलं ॥०४०॥

पञ्चगव्यं पलाशादिपुटकं वै समन्ततः ।
ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ॥०४१॥

अगुरुं निरृताशायां वायव्यां च चतुःसमं ।
होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह ॥०४२॥

दण्डाक्षसूत्रकौपीनभिक्षापात्राणि2 रूपिणे ।
कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ॥०४३॥

ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि ।
आसनं पादुके पात्रं योगपट्टातपत्रकं ॥०४४॥

ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये ।
पूर्वस्याञ्चरुकं साज्यं दद्याद्गन्धादिकं नवे ॥०४५॥

पूर्वित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा ।
संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ॥०४६॥

कृष्णाजिनादिना।अच्छाद्य स्मरन् संवत्सरात्मकं ।
साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ॥०४७॥

[[२३५]]

विश्वास-प्रस्तुतिः

स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः ।
शोधयेच्च पवित्राणि वाराणामेकविंशतिं ॥०४८॥

गृहादि वेष्टयेत्सूत्रैर् गन्धाद्यं 4 रवये ददेत् ।
पूजिताय समाचम्य1 कृतन्यासः कृतार्घ्यकः ॥०४९॥

नन्द्यादिभ्यो ऽथ2 गन्धाख्यं3 वास्तोश्चाथ प्रविश्य च ।
शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके ॥०५०॥

वर्धन्यै विघ्नराजाय गुरवे ह्य् आत्मने यजेत् ।
अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ॥०५१॥

आमन्त्र्य च पवित्रं5 तत् विधायाञ्जलिमध्यगं ।
ॐ समस्तविधिच्छिद्रपूरणे च विधिं प्रति ॥०५२॥

प्रभवमन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां ।
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ॥०५३॥

सर्वथा सर्वदा शम्भो नमस्ते ऽस्तु प्रसीद मे ।
आमन्त्रितो ऽसि देवेश सह देव्या गणेश्वरैः ॥०५४॥

मन्त्रेशैर् लोकपालैश् च सहितः परिचारकैः6
निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकं ॥०५५॥

नियमञ्च करिष्यामि परमेश तवाज्ञया ।
इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतं ॥०५६॥

शिवान्तं मूलमुच्चार्य तच्छिवाय निवेदयेत् ।

:न्

[[२३६]]

विश्वास-प्रस्तुतिः

जपं स्तोत्रं प्रमाणञ्च कृत्वा शम्भुं क्षमापयेत् ॥०५७॥

हुत्वा चरोस्तृतीयांशं तद्दद्दीत शिवाग्नये4
दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य उ1 ॥०५८॥

रुद्रेभ्यो क्षेत्रपादिभ्यो2 नमः स्वाहा बलिस्त्वयं ।
दिङ्नागाद्यैश् च पूर्वादौ क्षेत्राय चाग्नये बलिः ॥०५९॥

समाचम्य विधिच्छिद्रपूरकं होममाचरेत् ।
पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ॥०६०॥

तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि ।
ओमग्नीषोमाभ्यां स्वाहाग्नये स्विष्टकृते तथा ॥०६१॥

इत्याहुतिचतुष्कन्तु दत्वा कुर्यात्तु योजनां ।
वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे ॥०६२॥

नाडीसन्धानरूपेण विधिना योजयेत्ततः ।
वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ॥०६३॥

अधिरोप्य पवित्राणि कलाभिर्वाथ मन्त्रयेत् ।
षडङ्गं ब्रह्ममूलैर् वा हृद्धर्मास्त्रञ्च योजयेत् ॥०६४॥

विधाय सूत्रैः संवेष्ट्य पूजयित्वाङ्गसम्भवैः3
रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ॥०६५॥

पूजिते पुष्पधूपाद्यैर् दत्वा सिद्धान्तपुस्तके ।
गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकं ॥०६६॥

निर्गत्य वहिराचम्य गोमये मण्डलत्रये ।

:न्

[[२३७]]

विश्वास-प्रस्तुतिः

पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद् यजेत् ॥०६७॥

आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः ।
स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥०६८॥

अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् ।
केवलम्भस्मशय्यायां सोपवासः समाहितः ॥०६९॥

{इत्य् आदिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमो ऽध्यायः ॥ }

  1. स्वधाभुजामिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. गुहो रविरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. सदेश इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. शरीरोन्मादवायव इति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. दशकूर्ञ्चोपसंहरेदिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  6. पूर्ववत् स्नापयेत् प्रार्चेदिति ग, चिह्नितपुस्तकपाठः । स्थापयेत्
    पूर्ववच्चाग्निमिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎