{अथ सप्तसप्ततितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
कपिलादिपूजाविधनं
ईश्वर उवाच
कपिलापूजनं वक्ष्ये एभिर्मन्त्रैर् यजेच्च गां ।
ॐ कपिले नन्दे नमः ॐ कपिले भद्रिके नमः ॥००१॥
मूलम्

ॐ कपिले सुशीले नमः कपिले सुरभिप्रभे ।
ॐ कपिले सुमनसे नमः ॐ भुक्तिमुक्तिप्रदे नमः ॥००२॥

सौरभेयि जगन्मातर्देवानाममृतप्रदे ।
गृहाण वरदे ग्रासमीप्सितार्थञ्च देहि मे ॥००३॥

[[२२८]]
विश्वास-प्रस्तुतिः
वन्दितासि वसिष्ठेन विश्वामित्रेण धीमता ।
कपिले हर मे पापं यन्मया दुष्कृतं कृतं ॥००४॥

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे हृदये चापि गवां मध्ये वसाम्यहं ॥००५॥

दत्तं गृह्णन्तु1 मे ग्रासं जप्त्वा स्यां निर्मलः शिवः ।
प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः ॥००६॥

यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवं ।
पीठमूर्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका ॥००७॥

मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत् ।
ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा ॥००८॥

जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः ।
सर्वपाकाग्रमुद्धृत्य शिवाय विनिवेदयेत् ॥००९॥

अथार्धं2 चुल्लिकाहोमे विधानायोपकल्पयेत्3 ।
विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिं ॥०१०॥
विश्वास-प्रस्तुतिः
हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना ।
वह्निवीजं समादाय कादिस्थानगतिक्रमात्4 ॥०११॥

शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत् ।
ॐ हां अग्नये नमो वै हां सोमाय वै नमः ॥०१२॥

सूर्याय वृहस्पतये प्रजानां पतये नमः ।
सर्वेभ्यश् चैव देवेभ्यः सर्वविश्वेभ्य एव च ॥०१३॥

:न्
[[२२९]]
विश्वास-प्रस्तुतिः
हामग्नये खिष्टिकृते पूर्वादावर्चयेदिमान् ।
स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत् ॥०१४॥

चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः ।
वामबाहावधर्माय काञ्जिकादिकभाण्डके ॥०१५॥

रसपरिवर्तमानाय वरुणाय जलाग्नये1 ।
विघ्नराजो गृहद्वारे पेषण्यां सुभगे नमः ॥०१६॥

ॐ रौद्रिके नमो गिरिके2 नमश् चओलूखले यजेत् ।
बलप्रियायायुधाय नमस्ते मुषले यजेत् ॥०१७॥

सम्मार्जन्यां देवतोक्ते कामाय शयनीयके ।
मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः ॥०१८॥

भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके ।
आचार्यः साधकःपुत्र समयी मौनमास्थितः ॥०१९॥

वटाश्वत्थार्कवाताविसर्जभल्लातकांस्त्यजेत् ।
अपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः ॥०२०॥

स्वाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं ।
नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः ॥०२१॥

एतेभ्य उपवायुभ्यः स्वाहापोषानवारिणा ।
भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः ॥०२२॥

अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत् ।
प्राणाय स्वाहापानाय समानाय ततस् तथा ॥०२३॥

[[२३०]]
विश्वास-प्रस्तुतिः
अमृतापिश्चानमसीति शरीरे ऽन्नादिवायवः1 ॥०२४॥
मूलम्
अमृतापिश्चानमसीति शरीरे ऽन्नादिवायवः1 ॥०२४॥
{इत्य् आदिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमो ऽध्यायः ॥ }