०७६ चण्डपूजा

{अथ षट्सप्ततितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

चण्दपूजाकथनं

ईश्वर उवाच
ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम ।
गृहाण भगवन् पुण्यफलमित्यभिधाय च ॥००१॥

मूलम्

चण्दपूजाकथनं

ईश्वर उवाच
ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम ।
गृहाण भगवन् पुण्यफलमित्यभिधाय च ॥००१॥

विश्वास-प्रस्तुतिः

अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया ।
हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत् ॥००२॥

मूलम्

अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया ।
हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत् ॥००२॥

विश्वास-प्रस्तुतिः

ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च ।
अर्घ्यं पराङ्मुखं दत्वा क्षमस्वेत्यभिधाय च ॥००३॥

मूलम्

ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च ।
अर्घ्यं पराङ्मुखं दत्वा क्षमस्वेत्यभिधाय च ॥००३॥

विश्वास-प्रस्तुतिः

नाराचमुद्रयास्त्रेण फडन्तेनात्मसञ्चयं ।
संहृत्य दिव्यया लिङ्गं मूर्तिमन्त्रेण योजयेत् ॥००४॥

मूलम्

नाराचमुद्रयास्त्रेण फडन्तेनात्मसञ्चयं ।
संहृत्य दिव्यया लिङ्गं मूर्तिमन्त्रेण योजयेत् ॥००४॥

विश्वास-प्रस्तुतिः

स्थण्डिले त्वर्चिते देवे मन्त्रसङ्घातमात्मनि ।
नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनं ॥००५॥

मूलम्

स्थण्डिले त्वर्चिते देवे मन्त्रसङ्घातमात्मनि ।
नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनं ॥००५॥

विश्वास-प्रस्तुतिः

ॐ चण्डेशानाय नमो मध्यतश् चण्डमूर्तये ।
ॐ धूलिचण्डेश्वराय1 हूं फट्2 स्वाहा तमाह्णयेत् ॥००६॥

मूलम्

ॐ चण्डेशानाय नमो मध्यतश् चण्डमूर्तये ।
ॐ धूलिचण्डेश्वराय1 हूं फट्2 स्वाहा तमाह्णयेत् ॥००६॥

विश्वास-प्रस्तुतिः

चण्डहृदयाय हूं फट् ॐ चण्डशिरसे तथा3
ॐ चण्डशिखायै हूं फट् चण्डायुः4 कवचाय च ॥००७॥

मूलम्

चण्डहृदयाय हूं फट् ॐ चण्डशिरसे तथा3
ॐ चण्डशिखायै हूं फट् चण्डायुः4 कवचाय च ॥००७॥

विश्वास-प्रस्तुतिः

चण्डस्त्राय तथा हूं फट् चण्डं रुद्राग्निजं स्मरेत् ।
शूलटङ्कधरं कृष्णं साक्षसूत्रकण्डलुं ॥००८॥

मूलम्

चण्डस्त्राय तथा हूं फट् चण्डं रुद्राग्निजं स्मरेत् ।
शूलटङ्कधरं कृष्णं साक्षसूत्रकण्डलुं ॥००८॥

टङ्काकरे ऽर्धचन्द्रे[^५] वा चतुर्वक्त्रं प्रपूजयेत् ।

:न्

[[२२७]]

विश्वास-प्रस्तुतिः

यथाशक्ति जपं कुर्यादङ्गानान्तु दशांशतः ॥००९॥

मूलम्

यथाशक्ति जपं कुर्यादङ्गानान्तु दशांशतः ॥००९॥

विश्वास-प्रस्तुतिः

गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणं ।
विहाय शेसनिर्माल्यं चण्डेशाय निवेदयेत् ॥०१०॥

मूलम्

गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणं ।
विहाय शेसनिर्माल्यं चण्डेशाय निवेदयेत् ॥०१०॥

विश्वास-प्रस्तुतिः

लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनं ।
निर्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया ॥०११॥

मूलम्

लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनं ।
निर्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया ॥०११॥

विश्वास-प्रस्तुतिः

सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञया ।
न्यूनाधिकं कृतं मोहात् परिपूर्णं सदास्तु मे ॥०१२॥

मूलम्

सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञया ।
न्यूनाधिकं कृतं मोहात् परिपूर्णं सदास्तु मे ॥०१२॥

विश्वास-प्रस्तुतिः

इति विज्ञाप्य देवेशं दत्वार्घ्यं तस्य संस्मरन् ।
संहारमूर्तिमन्त्रेण शनैः संहारमुद्रया ॥०१३॥

मूलम्

इति विज्ञाप्य देवेशं दत्वार्घ्यं तस्य संस्मरन् ।
संहारमूर्तिमन्त्रेण शनैः संहारमुद्रया ॥०१३॥

विश्वास-प्रस्तुतिः

पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत् ।
निर्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा ।०१४।
प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तो ऽन्यत्समाचरेत् ॥०१४॥

मूलम्

पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत् ।
निर्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा ।०१४।
प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तो ऽन्यत्समाचरेत् ॥०१४॥

{इत्य् आदिमहापुराणे आग्नेये चण्डपूजाकथनं नाम षट्सप्ततितमो ऽध्यायः ॥ }


  1. ॐ बलिचण्डेश्वराय इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  2. क्रूं फडिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  3. हूं चण्डशिरसे स्वाहेति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  4. हूं फट् चण्दत इति ग, घ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎