{अथ पञ्चसप्ततितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अग्निस्थापनादिविधिः
ईश्वर उवाच
अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः ।
यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्1 ॥००१॥
मूलम्

उदङ्मुखः कुण्डमीक्षेत् प्रओक्षणं ताडनं
कुशैः ।
विदध्यादस्त्रमन्त्रेण वर्मणाभ्युक्षणं मतं ॥००२॥

खड्गेन खातमुद्धारं पूरणं समतामपि ।
कुर्वीत वर्मणा सेकं कुट्टनन्तु शरात्मना2 ॥००३॥

सम्मार्जनं समालेपं कलारूपप्रकल्पनं ।
त्रिसूत्रीपरिधानं च वर्मणाभ्यर्चनं सदा ॥००४॥

रेखात्रयमुदक् कुर्यादेकां पूर्वाननामधः ।
कुशेन च शिवास्त्रेण यद्वा तासां विपर्ययः ॥००५॥

वज्रीकरणमन्त्रेण हृदा दर्भैश् चतुष्पथं ।
अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा ॥००६॥

हृदा वागीश्वरीं तत्र ईशामावाह्य पूजयेत् ।
वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितं ॥००७॥

क्रव्यादांशं परित्यज्य वीक्षणादिविशोधितं ।
औदर्यं चैन्दवं भौतं एकीकृत्यानलत्रयं ॥००८॥

ॐ हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत् ।
संहितामन्त्रितं वह्निं धेनुमुद्रामृतीकृतं ॥००९॥

रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितं ।
पूजितन्त्रिः परिभ्राम्य कुण्डस्योर्ध्वं प्रदक्षिणं ॥०१०॥

:न्
[[२२०]]
विश्वास-प्रस्तुतिः
शिववीजमिति ध्यात्वा वागीशागर्भगोचरे ।
वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् ॥०११॥

भूमिष्ठजानुक्को मन्त्री हृदात्मसम्मुखं क्षिपेत् ।
ततो ऽन्तस्थितवीजस्य1 नाभिदेशे समूहनं ॥०१२॥

सम्भृतिं परिधानस्य शौचमाचमनं हृदा ।
गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना2 ॥०१३॥

बध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे ।
गर्भाधानाय सम्पूज्य सद्योजातेन पावकं ॥०१४॥

ततो हृदयमन्त्रेण जुहुयादाहुतित्रयं ।
पुंसवनाय वामेन तृतीये यासि पूजयेत् ॥०१५॥

आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं ।
सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा ॥०१६॥

जुहुयादाहुतीस्तिस्रः शिखया शिखयैव तु ।
वक्त्राङ्गकल्पनां कुर्याद्वक्त्रोद्घाटननिष्कृती ॥०१७॥

जातकर्मनृकर्मभ्यां दशमे मासि पूर्ववत् ।
वह्निं सन्धुक्ष्य दर्भाद्यैः3 स्नानं गर्भमलापहं ॥०१८॥

सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्चयेत् ।
सद्यःसूतकनाशाय प्रोक्षयेदस्त्रवारिणा ॥०१९॥

कुम्भन्तु4 वहिरस्त्रेण ताडयेद्वर्मणोक्षयेत् ।
अस्त्रेणोत्तरपूर्वाग्रान्मेखलासु वहिः कुशान् ॥०२०॥

[[२२१]]
विश्वास-प्रस्तुतिः
आस्थाप्य1 स्थापयेत्तेषु हृदा परिधिविस्तरं ।
वक्ताणामस्त्रमन्त्रेण ततो नालापन्नुत्तये ॥०२१॥

समिधिः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः ।
ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्चयेत् ॥०२२॥

दूर्वाक्षतैश् च पर्यन्तं परिधिस्थाननुक्रमात् ।
इन्द्रादीशानपर्यन्तान्तान्विष्टरस्थाननुक्रमात् ॥०२३॥

अग्नेरभिमुखीभूतान् निजदिक्षु हृदार्चयेत् ।
निवार्य विघ्नसङ्घातं वालकं पालयिष्यथ ॥०२४॥

शैवीमाज्ञाभिमान्तेषां श्रावयेत्तदनन्तरं ।
गृहीत्वा स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः क्रमात् ॥०२५॥

प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ।
कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं ॥०२६॥

क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं2 रवैः क्रमात् ।
स्रुवि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना ॥०२७॥

त्रिसूत्रीवेष्टितग्रीवो पूजितौ कुसुमादिभिः ।
कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ॥०२८॥

गव्यमाज्यं समादाय वीक्षणादिविशोधितं ।
स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्यादाय तद्घृतं ॥०२९॥

कुण्डस्योर्ध्वं हृदावर्त्य भ्रामयित्वाग्निगोचरे ।
पुनर्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे ॥०३०॥

[[२२२]]
विश्वास-प्रस्तुतिः
जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं ॥०३१॥

भावयन्निजमात्मानं नाभौ धृत्वाप्लवेत्ततः ।
प्रादेशमात्रदर्भाभ्यामङ्गुष्टानामिकाग्रकैः ॥०३२॥

धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत् ।
हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः ॥०३३॥

हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवितयेत् ।
दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् ॥०३४॥

अस्त्रमन्त्रेण निर्दग्धं वह्नौ दर्भं पुनः क्षिपेत् ।
क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं ॥०३५॥

पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत् ।
क्रामाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् ॥०३६॥

स्वेत्यग्नौ हा घृते1 भागं शेषमाज्यं क्षिपेत् क्रमात् ।
ॐ हां अग्नये स्वाहा । ॐ हां सोमाय स्वाहा । ॐ हां
अग्नीषोमाभ्यां स्वाहा
उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये मुखे ॥०३७॥

स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत् ।
ॐ हां अग्नये स्विष्टकृते स्वाहा
अभिमन्त्र्य षडङ्गेन बोधयेद्धेनुमुद्रया ॥०३८॥

अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना2 ।
हृदाज्यविन्दुविक्षेपात् कुर्यादभ्युक्ष्य शोधनं ॥०३९॥

[[२२३]]
विश्वास-प्रस्तुतिः
अघोराय स्वाहा । ॐ तत्पुरुषाय स्वाहा । ॐ हां ईशानाय
स्वाहा
इत्येकैकघृताहुत्या कुर्याद्वक्त्राभिघारकं ॥०४०॥

औं हां सद्योजातवामदेवाभ्यां स्वाहा । ॐ हां
विश्वास-प्रस्तुतिः
वामदेवाघोराभ्यां स्वाहा । ॐ हां अघोरतत्पुरुषाभ्यां
स्वाहा । ॐ हां तत्पुरुषेशानाभ्यां स्वाहा
इतिवक्त्रानुसन्धानं मन्त्रैर् एभिः क्रमाच्चरेत् ।
अग्रितो गतया वायुं निरृतादिशिवान्तया ॥०४१॥

वक्त्राणामेकतां कुर्यात् स्रुवेण घृतघारया ।
ॐ हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा ॥०४२॥

इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः ॥०४२॥

ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयं ।
कुर्यात् सर्वात्मना नाम शिवाग्निस्त्वं हुताशन ॥०४३॥

हृदार्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं ।
मूलेन वौषडन्तेन दद्यात् पूर्णां यथाविधि ॥०४४॥

ततो हृदम्बुजे साङ्गं ससेनं भासुरं परं1 ।
यजेत् पूर्ववदावाह्य प्रार्थ्याज्ञान्तर्पयेच्छिवं ॥०४५॥

यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना ।
शक्त्या मूलाणुना होमं कुर्यादङ्गैर् दशांशतः ॥०४६॥

घृतस्य कार्षिको होमः क्षीरस्य मधुनस् तथा ।
शक्तिमात्राहुतिर्दध्नः प्रसृतिः पायस्यतु ॥०४७॥

यथावत् सर्वभक्षाणां लाजानां मुष्टिसम्मितं ।
खण्डत्रयन्तु मूलानां कलानां स्वप्रमाणतः ॥०४८॥

[[२२४]]
विश्वास-प्रस्तुतिः
ग्रासार्धमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत् ।
इक्षोरापर्विकं मानं लतानामङ्गुलद्वयं ॥०४९॥

पुष्पं पत्रं स्वमानेन समिधां तु दशाङ्गुलं ।
चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्दमान् ॥०५०॥

कलायसम्मितानेनान् गुग्गुलं वदरास्थिवत् ।
कन्दानामष्टमं भागं जुहुयाद्विधिवत् परं ॥०५१॥

होमं निर्वर्तयेदेवं ब्रह्मवीजपदैस्ततः ।
घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवं ॥०५२॥

स्रुगग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना ।
पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ॥०५३॥

समुद्गतो अर्धकायश् च समपादः समित्थितः ।
नाभौ तन्मूलमाधाय स्रुगग्रव्यग्रलोचनः ॥०५४॥

ब्रह्मादिकारणात्यागाद्विनिःसृत्य सुषुम्णया1 ।
वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ॥०५५॥

मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत् ।
तदग्नौ जुहुयादाज्यं यवसम्मितधारया ॥०५६॥

आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि ।
भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परां ॥०५७॥

ततो वह्निं समभ्यर्च्य पडन्तास्त्रेण संवरान् ।
संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च ॥०५८॥

[[२२५]]
विश्वास-प्रस्तुतिः
श्रद्धया परयात्मीये स्थापयेत हृदम्बुजे ॥०५९॥

सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयं1 ।
अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ ॥०६०॥

ॐ हां रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यो दक्षिणे तथा ।
वारुणे हां गणेभ्यश् च स्वाहा तेभ्यस्त्वयं बलिः ॥०६१॥

उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ2 ।
अग्नौ हामसुरेभ्यश् च रक्षोभ्यो नैरृते बलिः ॥०६२॥

वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश् च मध्यतः ।
हां राशिभ्यः3 स्वाहा वह्नौ विश्वेभ्यो नैरृते यथा ॥०६३॥

वारुण्यां4 क्षेत्रपालाय अन्तर्बलिरुदाहृतः ।
द्वितीये मण्डले वाह्ये इन्द्यायाग्नियमाय च ॥०६४॥

नैरृताय जलेशाय वायवे धनरक्षिणे ।
ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः ॥०६५॥

नैरृते विष्णवे स्वाहा वायसादेर्वहिर्बलिः ।
बलिद्वयगतान्मन्त्रान् संहारमुद्रया।अत्मनि ॥०६६॥

{इत्य् आदिमहापुराणे आग्नेये अग्निकार्यं नाम पञ्चसप्ततितमो ऽध्यायः ॥ }
:न्
[[२२६]]