०७४ शिवपूजा

{अथ चतुःसप्ततितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

शिवपूजाकथनं

ईश्वर उवाच
शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान् ।
द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत् ॥००१॥

मूलम्

गणं सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके यजेत् ।
नन्दिगङ्गे दक्षिणे ऽथ स्थिते1 वामगते यजेत् ॥००२॥

महाकालं च यमुनां दिव्यदृष्टिनिपातितः ।
उत्सार्य दिव्यान् विघ्नांश् च पुष्पाक्षेपान्तरिक्षगान् ॥००३॥

दक्षपार्ष्णित्रिभिर्घातैभूमिष्ठान्यागमन्दिरं ।
देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत् ॥००४॥

प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे ।
ॐ हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् ॥००५॥

:न्

[[२११]]

विश्वास-प्रस्तुतिः

निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्2
लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत् ॥००६॥

पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा ।
पूरयेदम्बुधौ तांस्तान् गयत्र्या हृदयेन वा ॥००७॥

गन्धकाक्षत3 पुष्पादिसर्वद्रव्यसमुच्चयं ।
सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत् ॥००८॥

देवदक्षे ततो न्यस्य सौम्यास्यश् च शरीरतः1
संहारमुद्रयादाय मूर्ध्नि मन्त्रेण4 धारयेत् ॥००९॥

भोग्यकर्मोपभोगार्थं पाणिकच्छपिकाख्यया ।
हृदम्बुजे निजात्मानं द्वादशान्तपदे ऽथवा ॥०१०॥

शोधयेत् पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ5
चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्वहिः स्मरेत् ॥०११॥

शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे6 पावकप्रभे ।
रन्ध्रमध्यस्थिते7 कृत्वा प्राणरोधं हि चिन्तकः ॥०१२॥

निवेशयेद्रेचकान्ते8 फडन्तेनाथ तेन च ।
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च ॥०१३॥

[[२१२]]

विश्वास-प्रस्तुतिः

ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं ।
सम्पुटं हृदयेनाथ पूरकाहितचेतनं ॥०१४॥

हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकं2 स्मरेत् ।
कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत् ॥०१५॥

रेचकेन वीजवृत्त्या शिवे लीनो ऽथ शोधयेत् ।
प्रतिलोमं स्वदेहे तु3 विन्द्वन्तं तत्र विन्दुकं ॥०१६॥

लयन्नीत्वा महीवातौ जलवह्नी परस्परं ।
द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥०१७॥

पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।
हौमित्यात्मीयवीजेन1 तन्निवृत्तिकलामयं ॥०१८॥

पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।
उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ॥०१९॥

अर्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं4
ह्रीमित्यनेन वीजेन प्रतिष्ठारूपतां गतं ॥०२०॥

संयुक्तं राममन्त्रेण5 पुरुषान्तमकारणं ।
अर्घ्यञ्चतुर्भिरुद्घातैर् वह्निभूतं विशोधयेत् ॥०२१॥

आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितं ।
हूमित्यनेन वीजेन विद्यारूपं विभावयेत् ॥०२२॥

घोराणुत्रिभिरुद्घातैर् जलभूतं विशोधयेत् ।

:न्

[[२१३]]

विश्वास-प्रस्तुतिः

षडस्रं मण्डलं वायोर्विन्दुभिः षड्भिरङ्कितं ॥०२३॥

कृष्णं ह्रेमिति वीजेन जातं शान्तिकलामयं ।
सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत् ॥०२४॥

नभोविन्दुमयं वृत्तं विन्दुशक्तिविभूषितं ।
व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं ॥०२५॥

हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं ।
ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत् ॥०२६॥

आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा2
आधाराख्यामनन्तञ्च धर्मज्ञानादिपङ्कजं ॥०२७॥

हृदासनमिदं3 ध्यात्वा मूर्तिमावाहयेत्ततः ।
सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः ॥०२८॥

अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः ।
दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतं ॥०२९॥

हृदयादिकरान्तेषु1 कनिष्ठाद्यङ्गुलीषु च ।
हृदादिमन्त्रविन्यासः सकलीकरणं मतं ॥०३०॥

अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः ।
शक्तिजालमधश्चोर्ध्वं महामुद्रां प्रदर्शयेत् ॥०३१॥

आपदमस्तकं यावद् भावपुष्पैः4 शिवं हृदि ।
पद्मे यजेत् पूरकेण आकृष्टामृतसद्घृतैः ॥०३२॥

शिवमन्त्रैर् नाभिकुण्डे तर्पयेत शिवानलं ।

:न्

[[२१४]]

विश्वास-प्रस्तुतिः

ललाटे विन्दुरूपञ्च चिन्तयेच्छुभविग्रहं2 ॥०३३॥

एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितं ।
विन्दुप्रसूतपीयूषरूपतोयाक्षतादिना ॥०३४॥

हृदापूर्य षडङ्गेन पूजयित्वाभिमन्त्रयेत् ।
संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत् ॥०३५॥

रचयित्वार्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया3
अभिषिञ्चेदथात्मानं मूर्ध्नि तत्तोयविन्दुना ॥०३६॥

तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा ।
अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत् ॥०३७॥

दर्शयित्वामृतां मुद्रां पुष्पं दत्वा निजासने ।
विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत् ॥०३८॥

स्नाने देवार्चने होमे भोजने यागयोगयोः ।
आवश्यके जपे धीरः सदा वाचंयमो भवेत् ॥०३९॥

नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतं ।
पूजने ऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत् ॥०४०॥

ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः ।
ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् ॥०४१॥

प्रक्षाल्य पिण्दिकालिङ्गे अस्त्रतोये ततो हृदा ।
अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं ॥०४२॥

आतमद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् ।
वायव्ये गणपतये हां गुरुभ्यो ऽर्चयेच्छिवे ॥०४३॥

[[२१५]]

विश्वास-प्रस्तुतिः

आधारशक्तिमङ्कुरनिभां कूर्मशिलास्थितां ।
यजेद् ब्रह्मशिलारूढं शिवस्यानन्तमासनं ॥०४४॥

विचित्रकेशप्रख्यानमन्योन्यं पृष्टदर्शिनः ।
कृतत्रेतादिरूपेण शिवस्यासनपादुकां ॥०४५॥

धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्चाग्निदिङ्मुखान् ।
कूर्पारकुङ्कुमस्वर्णकज्जलाभान् यजेत् क्रमात् ॥०४६॥

पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव ।
वरदाभयहस्ताश् च शक्तयो धृतचामराः ॥०४७॥

वामा ज्येष्ठा च रौद्री च काली कलविकारिणी ।
बलविकरणी पूज्या बलप्रमथनी क्रमात् ॥०४८॥

हां सर्वभूतदमनी केशराग्रे मनोन्मनी ।
क्षित्त्यादि शुद्धविद्यान्तु तत्त्वव्यापकमासनं ॥०४९॥

न्यसेत् सिंहासने देवं शुक्लं पञ्चमुखं विभुं ।
दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः ॥०५०॥

शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः ।
डमरुं वीजपुरञ्च नीलाब्जं सूत्रकोत्पलं ॥०५१॥

द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्तिन्तु मध्यतः ।
हां हं हां शिवमूर्तये स्वप्रकाशं शिवं स्मरन् ॥०५२॥

ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं ।
ततो ललातमध्यस्थं स्फुरत्तारापतिप्रभं ॥०५३॥

षडङ्गेन समाकीर्णं विन्दुरूपं परं शिवं ।
पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्तौ निवेशयेत् ॥०५४॥

ॐ हां हौं शिवाय नम आवाहन्या हृद्दा ततः ।
आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं ॥०५५॥

निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः ।

[[२१६]]

विश्वास-प्रस्तुतिः

विघ्नानुत्सार्य विष्ठ्याथ2 लिङ्गमुद्रां नमस्कृतिं ॥०५६॥

हृदावगुण्ठयेत् पश्चादावाहः सम्मुखी ततः ।
निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः ॥०५७॥

आकर्मकाण्डपर्यन्तं सन्नेधेयोपरिक्षयः ।
स्वभक्तेश् च3 प्रकाशोयस्तद्भवेदवगुण्ठनं ॥०५८॥

सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां ।
अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतं ॥०५९॥

चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्यमष्टधा1
शिखावशित्वं चाभेद्यं तेजः कवचमैश्वरं ॥०६०॥

प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं ।
नमः स्वधा च स्वाहा च वौषट् चेति यथाक्रमं ॥०६१॥

हृत्पुरःसरमुच्चार्य पाद्यादीनि निवेदयेत् ।
पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकं ॥०६२॥

अर्घ्यं शिरसि देवस्य दूर्वापुष्पाक्षतानि च ।
एवं संस्कृत्य संस्कारैर् दशभिः परमेश्वरं ॥०६३॥

यजेत् पञ्चोपचारेण विधिना कुसुमादिभिः ।
अभ्युक्ष्योद्धर्त्य निर्म्भञ्ज्य राजिकालवणादिभिः ॥०६४॥

अर्घ्योदविन्दुपुष्पाद्यैर् गड्डूकैः4 स्नापयेच्छनैः ।
पयोदधिघृतक्षौद्रशर्कराद्यैर् अनुक्रमात् ॥०६५॥

ईशादिमन्त्रितर्द्रव्यैर् अर्च्य तेषां[^५] विपर्ययः ।

:न्

[[२१७]]

विश्वास-प्रस्तुतिः

तोयधूपान्तरैः सर्वैर् मूलेन स्नपयेच्छिवं ॥०६६॥

विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर् जलैः ।
स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा ॥०६७॥

निर्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत् करं ।
न शून्यमस्तकं लिङ्गं पुष्पैः कुर्यात्ततो ददेत् ॥०६८॥

चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना2
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना3 ॥०६९॥

अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत् ।
दद्यादाचमनं पश्चात् स्वधान्तं हृदयाणुना1 ॥०७०॥

आरात्रिकं समुत्तार्य तथैवाचामयेत् पुनः ।
प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् ॥०७१॥

हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभं ।
शिखां रक्ताञ्च नैरृत्ये कृष्णं वर्म च वायवे ॥०७२॥

चतुर्वक्त्रं चतुर्बाहुं4 दलस्थान्5 पूजयेदिमान् ।
दंष्ट्राकरालमप्यस्त्रं पूर्वादौ वज्रसन्निभं ॥०७३॥

मूले हौं शिवाय नमः ॐ हां हूं हीं हों शिरश् च ।
हृं शिखायै हैं वर्म हश्चास्त्रं परिवारयुताय च ॥०७४॥

शिवाय दद्यात् पाद्यञ्च आचामञ्चार्घ्यमेव च ।
गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकं ॥०७५॥

करोद्वर्तनताम्बूलं मुखवासञ्च दर्पणं ।

:न्

[[२१८]]

विश्वास-प्रस्तुतिः

शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं ॥०७६॥

मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं ।
चर्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः ॥०७७॥

अक्षतैर् मुद्राया युक्तं शिवमुद्भवसञ्ज्ञया ।
गुह्यातिगुह्यगुप्त्यर्थं2 गृहाणास्मत्कृतं जपं ॥०७८॥

सिद्धिर्भवतु मे येन3 त्वत्प्रसादात्त्वयि स्थिते ।
भोगी श्लोकं पठित्वाद्यं1 दक्षहस्तेन शम्भवे ॥०७९॥

मूलाणुनार्घ्यतोयेन वरहस्ते4 निवेदयेत् ।
यत्किञ्चित् कुर्महे देव सदा सुकृतदुस्कृतं ॥०८०॥

तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर ।
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥०८१॥

शिवो जयति सर्वत्र यः शिवः सोहमेव च ।
श्लोकद्वयमधीत्यैवं जपं देवाय चार्पयेत् ॥०८२॥

शिवाङ्गानां5 दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत् ।
प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्तये6 ।०८३।
नत्वा ध्यानादिभिश् चैव यजेच्चित्रे ऽनलादिषु ॥०८३॥

{इत्य् आदिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमो ऽध्यायः ॥ }

:न्

[[२१९]]

  1. दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. संहारिण्योपसंहतमिति ख, चिह्नितपुस्तकपाठः ।
    संहारिष्णोपसंहृतमिति ग, ङ,
    चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. अभ्यर्च्य चेति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. मूर्तिमन्त्रेणेति ग, घ, ङ, चिहिनितपुस्तकत्रयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. स्वशिरस्तनौ इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  7. चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः चक्रमध्यस्थिते इति ङ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎

  8. निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎