०७३ सूर्यार्चनं

{अथ त्रिसप्ततितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

सूर्यपूजाविधिः

ईश्वर उवाच
वक्ष्ये सूर्यार्चनं स्कन्द कराङ्गन्यासपूर्वकं ।
अहं तेजोमयः सूर्य इति ध्यात्वार्घ्यमर्चयेत् ॥००१॥

मूलम्

पूरयेद्रक्तवर्णेन ललाटाकृष्टविन्दुना ।
तं सम्पूज्य रवेरङ्गैः कृत्वा रक्षावगुण्ठनं ॥००२॥

सम्प्रोक्ष्य तज्जलैर् द्रव्यं पूर्वास्यो भानुमर्चयेत् ।
ॐ अं हृद्वीजादि1 सर्वत्र पूजनं दण्डिपिङ्गलौ ॥००३॥

द्वारि दक्षे वामपार्श्वे ईशाने अं गणाय च ।
अग्नौ गुरुं पीठमध्ये प्रभूतं चासनं यजेत् ॥००४॥

अग्न्यादौ विमलं सारमाराध्यं परमं सुखं ।
सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत् ॥००५॥

पद्ममध्ये रां च दीप्तां रीं सूक्ष्मां रं जयां
क्रमात्2
रूं भद्रां रें विभूतीश् च विमलां रैममोघया ॥००६॥

रों रौं विद्युता शक्तिं पूर्वाद्याः सर्वतोमुखाः ।

:न्

[[२०९]]

विश्वास-प्रस्तुतिः

रं मध्ये अर्कासनं स्यात् सूर्यमूर्तिं षडक्षरं ॥००७॥

ॐ हं खं खोल्कयेति यजेदावाह्य भास्करं ।
ललाटाकृष्टमञ्जल्यां ध्यात्वा रक्तं न्यसेद्रविं ॥००८॥

ह्रां ह्रीं सः1 सूर्याय नमो मुद्रयावाहनादिकं ।
विधाय प्रीतये विम्बमुद्रां गन्धादिकं ददेत् ॥००९॥

पद्ममुद्रां बिल्वमुद्रां प्रदर्श्याग्नौ हृदीरितं ।
ॐ आं हृदयाय नमः अर्काय शिरसे तथा ॥०१०॥

भूर्भुवः स्वः सुरेशाय शिखायै2 नैरृते यजेत् ।
हुं कवचाय3 वायव्ये हां नेत्रायेति4 मध्यतः ॥०११॥

वः अस्त्रायेति पूर्वादौ ततो मुद्राः प्रदर्शयेत् ।
धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः ॥०१२॥

अस्त्रस्य त्रासनी योज्या ग्रहणां च नमस्क्रिया ।
सों सोमं बुं बुधं वृञ्च जीवं भं भार्गवं यजेत् ॥०१३॥

दले पूर्वादिके ऽग्न्यादौ अं भौमं शं शनैश् चरं ।
रं राहुं कें केतवे च गन्धाद्यैश् च खखोल्कया ॥०१४॥

मूलं जप्त्वार्घ्यपात्राम्बु दत्वा सूर्याय संस्तुतिः ।
नत्वा पराङ्मुखञ्चार्कं5 क्षमस्वेति ततो वदेत् ॥०१५॥

शराणुना फडन्तेन समाहत्याणुसंहृतिं[^६] ।

:न्

[[२१०]]

विश्वास-प्रस्तुतिः

हृत्पद्मे शिवसूर्येतिसंहारिण्योपसंस्कृतिं1 ॥०१६॥

योजयेत्तेजश् चण्डाय रविनिर्माल्यमर्पयेत् ।
अभ्यर्च्यैशे2 जपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत् ॥०१७॥

{इत्य् आदिमहापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमो ऽध्यायः ॥ }

  1. ॐ हां हृद्वीजादीति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. रुं जयां क्रमादिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. क्रूं कवचाय इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎

  4. ह्रीं नेत्रायेतीति ख, चिह्नितपुस्तकपाठः । भां नेत्रायेति ग,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎

  5. पराङ्मुखञ्चार्घ्यमिति ख, ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎