{अथ द्विसप्ततितमो ऽध्यायः}
विश्वास-प्रस्तुतिः
स्नानविशेषादिकथनं
ईश्वर उवाच
वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया ।
खात्वासिना समुद्धृत्य मृदमष्टाङ्गुलां ततः ॥००१॥
मूलम्

सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत् ।
शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत्1 ॥००२॥

तृणानि शिखयोद्धृत्य वर्मणा विभजेत्त्रिधा ।
एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया ॥००३॥

अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहं ।
निरुद्धाक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि ॥००४॥

:न्
[[२०४]]
विश्वास-प्रस्तुतिः
मलस्नानं विशोधयेत्थं समुत्थाय जलान्तरात् ॥००५॥

अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् ।
सारस्वतादितीर्थानां एकमङ्कुशमुद्रया ॥००६॥

हृदाकृष्य तथा स्नाप्य पुनः संहारमुद्रया ।
शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि ॥००७॥

वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः ।
अङ्गैर् दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा ॥००८॥

शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात् ।
सर्वदिक्षु क्षिपेत् पूर्वं हूं फडन्तशरात्मना2 ॥००९॥

कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात् ।
सर्वाङ्गमङ्गजप्तेन मूर्धादिचरणावधि ॥०१०॥

दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् ।
पिधाय खानि सर्वाणि सम्मुखीकरणेन च ॥०११॥
मूलम्
दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् ।
पिधाय खानि सर्वाणि सम्मुखीकरणेन च ॥०११॥
विश्वास-प्रस्तुतिः
शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन् ।
वौषडन्तषडङ्गेन के कुर्यादभिषेचनं ॥०१२॥

कुम्भमात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलं ।
स्नात्वा रजोपचारेण सुगन्धामलकादिभिः ॥०१३॥

स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत् ।
अथातो विधिशुद्धेन संहितामन्त्रितेन च ॥०१४॥

निवृत्यादिविशुद्धेन भस्मना स्नानमाचरेत् ।
शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना1 ॥०१५॥

[[२०५]]
विश्वास-प्रस्तुतिः
ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः2 ॥०१६॥
मूलम्
ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः2 ॥०१६॥
विश्वास-प्रस्तुतिः
क्रमेणोद्धूनयेन्मूर्ध्नि वक्त्रहृद्गुह्यविग्रहात् ।
सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः ॥०१७॥

सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।
स्त्रीपुन्नपुंसकं शूद्रं विडालशशमूषिकम् ॥०१८॥

स्नानमाग्नेयकं स्पृष्ट्वा शुचा वुद्धूलकं चरेत् ।
सूर्यांशुवर्षसम्पर्कैः प्राङ्मुखेनोर्ध्वबाहुना ॥०१९॥

माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि ।
गोसङ्घमध्यगः कुर्यात् खुरोत्खातकरेणुभिः1 ॥०२०॥

पावनं नवमन्त्रेण स्नानन्तद्वर्मणाथवा ।
सद्योजातादिभिर्मन्त्रैर् अम्भोभिरभिषेचनम् ॥०२१॥

मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि ।
मनसा मूलमन्त्रेण प्राणायामपुरःसरम् ॥०२२॥

कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ।
वैष्णवादौ च तन्मन्त्रैर् एवं स्नानादि कारयेत् ॥०२३॥

सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर् भिन्नैः समं गुह ।
संवीक्ष्य त्रिः पिवेदम्बु ब्रह्मतीर्थेन शङ्करैः ॥०२४॥

स्वधान्तैर् आत्मतत्त्वाद्यैस्ततः खानि स्पृशेद्धृदा ।
शकलीकरणं कृत्वा प्राणायामेन संस्थितः ॥०२५॥

त्रिः समावर्तयेन् मन्त्री मनसा शिवसंहितां ।
आचम्य न्यस्य सन्ध्याञ्च ब्राह्मीं प्रातः स्मरेन्नरः3 ॥०२६॥

[[२०६]]
विश्वास-प्रस्तुतिः
प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलुं ॥०२७॥

तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सितां ।
शङ्खचक्रधरां वामे दक्षिणे सगदाभयं ॥०२८॥

रौद्रीं ध्यायेद् वृषाब्जस्थां त्रिनेत्रां शशिभूषितां ।
त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकां ॥०२९॥

साक्षिणीं कर्मणां सन्ध्यां2 आत्मानं
तत्प्रभानुगं ।
चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते ॥०३०॥

हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता ।
शिवबोधपरा या तु सा सन्ध्या मरमोच्यते ॥०३१॥

पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः ।
ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः ॥०३२॥

सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः ।
ऋषीणां तु समग्रेषु अङ्गुलीपर्वसन्धिषु ॥०३३॥

ततः शिवात्मकैर् मन्त्रैः कृत्वा तीर्थं शिवात्मकं ।
मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् ॥०३४॥

वामपाणिपतत्तोययोजनं सव्यपाणिना ।
उत्तमाङ्गे क्रमान्मन्त्रैर् मार्जनं समुदाहृतं ॥०३५॥

नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितं ।
बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत्1 ॥०३६॥

तत्पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना ।
क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणं ॥०३७॥

स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितं ।
शिवायार्घ्याञ्जलिन्दत्वा गायत्रीं शक्तितो जपेत् ॥०३८॥

[[२०७]]
विश्वास-प्रस्तुतिः
तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात् ।
तर्पयेद्धौं शिवायेति स्वाहान्यान् स्वाहया युतान् ॥०३९॥

ह्रां हृद्याय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय ।
अस्त्रायाष्टौ देवगणान् हृदादित्येभ्य एव च ॥०४०॥

हां वसुभ्यो ऽथ रुद्रेभ्यो विश्वेभ्यश् चैव मरुद्भ्यः ।
भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ ॥०४१॥

अत्रेये ऽथ वसिष्ठाय नमश्चाथ पुलस्तये2 ।
कृतवे भारद्वजाय विश्वामित्राय वै नमः ॥०४२॥

प्रचेतसे मनुष्यांश् च सनकाय वषट् तथा ।
हां सनन्दाय वषट् सनातनाय वै वषट् ॥०४३॥
मूलम्
प्रचेतसे मनुष्यांश् च सनकाय वषट् तथा ।
हां सनन्दाय वषट् सनातनाय वै वषट् ॥०४३॥
विश्वास-प्रस्तुतिः
सनत्कुमाराय वषट् कपिलाय तथा वषट् ।
पञ्चशिखाय द्युभवे संलग्नकरमूलतः ॥०४४॥
मूलम्
सनत्कुमाराय वषट् कपिलाय तथा वषट् ।
पञ्चशिखाय द्युभवे संलग्नकरमूलतः ॥०४४॥
विश्वास-प्रस्तुतिः
सर्वेभ्यो भूतेभ्यो वौषट् भूतान् देवपितॄनथ ।
दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः ॥०४५॥

कव्यबालानलायाथ सोमाय च यमाय च ।
अर्यम्णे चाग्निसोमाय वर्हिषद्भ्यः स्वधायुतान् ॥०४६॥

आज्यपाय च सोमाय विशेषसुरवत् पितॄन् ।
ॐ हां ईशानाय पित्रे स्वधा दद्यात् पितामहे1 ॥०४७॥

शान्तप्रपितामहाय तथाप्रेतपितॄंस् तथा ।
पितृभ्यः पितामहेभ्यः स्वधाथ प्रपितामहे ॥०४८॥

वृद्धप्रपितामहेभ्यो मातृभ्यश् च स्वधा तथा ।
हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश् च ॥०४९॥

[[२०८]]
विश्वास-प्रस्तुतिः
सर्भेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्येभ्य एव च ।०५०।
दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसां ॥०५०॥

{इत्य् आदिमहापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमो ऽध्यायः ॥ }